अक्षर आकार:

श्रीवल्लभचरणविज्ञप्तिः

shrIvallabhacharaNavijnaptiH

श्रीवल्लभचरणविज्ञप्तिः

निजाचार्यपदाम्भोजद्वयं सर्वसुखावहम् । वहामि शिरसा तेन फलं मे सकलं ध्रुवम् ॥ १॥ दुनोमि दीनदीनोऽहं भयाद्यनवद्यसम्भवात् । ततो निवर्तयास्मांस्त्वमार्तानामार्तिनाशन ॥ २॥ न स्थातुं शक्यते नैव गन्तुं वा गोकुलेश्वर । मीनस्येव गतिर्जाता ह्यस्माकं करुणाप्रभो ॥ ३॥ खेदे कृतहृदुद्भेदे सुखसम्भेदवर्जिते । विगतस्वीयसम्भेदे भवानेव गतिः प्रभो ॥ ४॥ न सोढुं शक्यते नाथ धैर्यादिरहितैः स्वकैः । दुःखं भयसमुद्भूतं प्रभो त्वं सन्निवर्तय ॥ ५॥ नाथ त्वत्स्मरणोपायः सर्वपापनिवारकः । नेदानीं सम्भवत्येतद्भयात्काऽत्र गतिर्मम ॥ ६॥ इति श्रीहरिदासोक्ता श्रीमद्वल्लभचरणविज्ञप्तिः ।