अक्षर आकार:

वल्लभभावाष्टकम्

vallabhabhAvAShTakam

वल्लभभावाष्टकम्

पतिः श्रीवल्लभोऽस्माकं गतिः श्रीवल्लभः सदा । मतिः श्रीवल्लभे ह्यस्तां रतिः श्रीवल्लभेऽस्तु मे ॥ १॥ वृत्तिः श्रीवस्त्वभीयैव कृतिः श्रीवल्लभार्थिनी । दर्शनं श्रीवल्लभस्य स्मरणं वल्लभप्रभोः ॥ २॥ त्वत्प्रसादसुधाघ्राणं त्वदुच्छिष्टरसाग्रहः । श्रवणं त्वद्गुणानां हि स्मरणं त्वत्पदाब्जयोः ॥ ३॥ गृणनं तन्महित्वस्य सेवनं करयोर्भवेत् । त्वत्स्वरूपान्तरो भोगो गमनं तव सन्निधौ ॥ ४॥ त्वदग्रे सर्वदा स्थानं सङ्गस्त्वत्सेवकैः सदा । त्वद्वार्ताऽतिरुचिर्निष्ठा भूयात्त्वद्वाक्यमात्रगा ॥ ५॥ श्रद्धा त्वदेकसम्बधे विश्वासस्त्वत्पदाब्जयोः । दास्यं त्वदीयमेवास्तु भूयात्त्वच्चरणाश्रयः ॥ ६॥ मस्तके श्रीवल्लभोस्तु हृदि तिष्ठतु वल्लभः । अभितः श्रीवल्लभोऽस्तु सर्वं श्रीवल्लभो मम ॥ ७॥ नमः श्रीवल्लभायैव दैन्यं श्रीवल्लभे सदा । प्रार्थना श्रीवल्लभेऽस्तु तत्पदाधीनता मम ॥ ८॥ एतदष्टकपाठेन श्रीवल्लभपदाम्बुजे । भवेद्भावो विनाऽऽयासं भक्तिमार्गवतात्मनाम् ॥ ९॥ इति श्रीहरिदासोक्तं श्रीवल्लभभावाष्टकम् सम्पूर्णम् ।