अक्षर आकार:

श्रीवल्लभाष्टकम् ३

shrIvallabhAShTakam 3

श्रीवल्लभाष्टकम् ३

मन्दिरं सुन्दरं सुन्दरीशोभितं दर्शय गोकुलाधीश मे नित्यम् । कोटिसौन्दर्यता अङ्ग आनन्दमयी सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ १॥ केशशोभामरे भालरेखा उभय- दीर्घता नासिका लोलता ईक्षणम् । माथुरीमत्तता श्रीमुखावलोकने सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ २॥ कुण्डलोद्योतता कर्णभामयी हेममुक्तामणि शुभ्रता भूषणम् । चित्तचिन्तामणि नयनश‍ृङ्गार ये सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ३॥ रङ्गबिम्बाधरे नागवेलीयुतं दानरूपामृते पानप्रेमामृते । चारुहास्ये कृपाभावलोभिन्नता सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ४॥ मालग्रीवालसे स्वेतधोतीधरे मुद्रिका अङ्गुली राजते मुद्रितम् । प्रियप्रेमावली सिञ्चने सर्वदा सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ५॥ भोगरागे रसे भामिनीसंयुतं भोग्यतानित्य ये दक्षहानाधिपम् । केलिलीलारसोद्बोधभावप्रदे सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ६॥ लग्नता चित्त मे विस्मृता सर्वतः प्राप्तितो भावये दीनता निश्चितम् । रूक्षता नन्दता सत्त्वता तत्फलं सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ७॥ तप्त आसक्तता विप्रयोगे स्थिति- र्जीवते दुर्लभा सिद्धयोगे मतिः । सत्यसङ्कल्प अङ्गीकृतौ नाथ ये सेवियं श्रीपदाम्बुजं वल्लभस्य ॥ ८॥ इति भा‍ई गोकुलदासकृतं वल्लभाष्टकं ३ सम्पूर्णम् ।