अक्षर आकार:

श्रीवल्लभाष्टकम् २

shrIvallabhAShTakam 2

श्रीवल्लभाष्टकम् २

प्रथयितुमच्युतचरणाम्बुजरसपानैकसंश्रयं वर्त्म । श्रीमल्लक्ष्मणतनुजो जगति श्रीवल्लभो जयति ॥ १॥ यदनुग्रहेण जन्तून् व्रजमतिरप्यात्मनो मनुते । निःसाधनानसाध्यो जगति श्रीवल्लभो जयति ॥ २॥ विश्वोद्धारविचारप्रकटितकरुणोत्तरङ्गपाथोभिः । दिशि दिशि विदितविभूतिर्जगति श्रीवल्लभो जयति ॥ ३॥ मायामताद्रिपक्षं सर्वं ब्रह्मेति वादवज्रेण । चिच्छेदाद्भुतवीर्यो जगति श्रीवल्लभो जयति ॥ ४॥ वितरति कृष्णकथामृतधनमविनाश्यं सुदुर्लभं बहुलम् । अर्थिषु तदुदितकीर्तिर्जगति श्रीवल्लभो जयति ॥ ५॥ कमलाकरयुगलालितविमलाशयसेविताङ्घ्रियुग्मः । अचलाचलबहुचरितो जगति श्रीवल्लभो जयति ॥ ६॥ नाशयति शब्दसृष्टेर्यत्तज्ज्ञनांशुमांस्तमोऽज्ञानम् । अघतूलराशिदहनो जगति श्रीवल्लभो जयति ॥ ७॥ सहजासुरजनताया दुःखोदर्काय वक्रतर्केण । अविदितमार्गदिगर्को जगति श्रीवल्लभो जयति ॥ ८॥ इति श्रीदेवकीनन्दनजीकृतं श्रीवल्लभाष्टकम् २ सम्पूर्णम् ।