अक्षर आकार:

श्रीवैश्वानराष्टकम्

shrIvaishvAnarAShTakam

श्रीवैश्वानराष्टकम्

समुद्भूतो भूमौ भगवदभिधानेन सदयः समुद्धारं कर्तुं कृपणमनुजानां कलियुगे । चकार स्वं मार्गं प्रकटमतुलानन्दजननं स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ १॥ निजानन्दे मग्नः सततमथ लग्नश्च मनसा हरौ भग्नासक्तिर्जगति जगदुद्धारकरणः । कृपापारावारः परहृदयशोकापहरणः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ २॥ महामायामोहप्रशमनमना दोषनिचया- प्रतीतः श्रीकृष्णः प्रकटपदविद्वेषसयुजाम् । मुखध्वंसं चक्रे निगमवचनैर्मायिकनृणां स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ३॥ प्रसिद्धैस्तैर्दोषैः सहजकलिदोषादिजनितो- यतः स्वीयैर्धर्मैरपि च रहितः सर्वमनुजः । कृतः सम्बन्धेन प्रभुचरणसेवादिसहितः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ४॥ विभेदं यश्चक्रे हरिभजनपूजादिविधिषु स्वमार्गीयप्राप्यं फलमपि फलेभ्यः समधिकम् । विना वैराग्यादेरपि परममोक्षैकफलदः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ५॥ परिक्रान्ता पृथ्वीचरणकमलैस्तीर्थमहिम- प्रसिद्ध्यर्थं स्वीयस्मरणसमवाप्त्यै निजनृणाम् । तथा दैवाञ्जीवाञ्जगति च पृथक्कर्तुमखिलान् स मे मूर्धन्यस्तां हरिवदनवैश्वानरविभुः ॥ ६॥ हरिं भावात्मानं तदखिलविहारानपि तथा समस्तां सामग्रीं मनुजपशुपक्ष्यादिसहितान् । कृपामात्रेणात्र प्रकटयति दृक् पारकरुणः स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ७॥ परेषामासक्तिं सुतधनशरीरादिषु दृढां द्रुतं भस्मीचक्रे बहुलमपि तूलं ज्वलन इव । स्वसान्निध्यादेव व्यसनमपि कृष्णोऽपि विदधत् स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ८॥ इति श्रीमत्प्रोक्तं हरिचरणदासेन हरिणा- ऽष्टकं स्वाचार्यणां पठति परमप्रेमसहितः । जनस्तस्य स्याद्वै हरिवदनवैश्वानरपदे परो भावस्तूर्णं सकलफलरूपस्तदधिकः ॥ ९॥ इति श्रीहरिरायजीविरचितं श्रीवैश्वानराष्टकं सम्पूर्णम् ।