अक्षर आकार:

वातुलनाथसूत्राणि

Vatulanatha Sutras

वातुलनाथसूत्राणि

महासाहसवृत्त्य स्वरूपलाभः ॥ १॥ तल्लाभाद्युगपद्वृत्तिप्रवृत्तिः ॥ २॥ variation तल्लाभाच्छुरिता युगपद्वृत्तिप्रवृत्तिः ॥ २॥ उभयपट्टोद्ध्वट्टनान्महाशून्यताप्रवेशः ॥ ३॥ युग्मग्रासान्निरवकाशसंविन्निष्ठा ॥ ४॥ सिद्धयोगिनीसंघट्टान्महामेलापोदयः ॥ ५॥ त्रिकञ्चुकपरित्यागान्निराख्यपदावस्थितिः ॥ ६॥ वाक्चतुष्टयोदयविरामप्रथासु स्वरः प्रथते ॥ ७॥ रसत्रितयास्वादनेनानिच्छोच्छलितं विगतबन्धं परं ब्रह्म ॥ ८॥ देवीचतुष्टयोल्लासेन सदैव स्वविश्रान्त्यवस्थितिः ॥ ९॥ द्वादशवाहोदयेन महामरीचिविकासः ॥ १०॥ चर्यापञ्चकोदये निस्तरङ्गसमावेशः ॥ ११॥ महाबोधसमावेशात्पुण्यपापासंबन्धः ॥ १२॥ अकथनकथाबलेन महाविस्मयमुद्रा प्राप्त्या खस्वरता ॥ १३॥ ॥ इति शिवम् ॥