अक्षर आकार:

वास्तुपुरुषनामावलिः

vAstupuruShanAmAvaliH

वास्तुपुरुषनामावलिः

ॐ वास्तु पुरुषाय नमः । महाकायाय । कृष्णाङ्गाय । अरुणाक्षाय । वस्त्रैकधारणाय । द्विबाहवे । वज्रदेहाय । सुरासुराकाराय । एकवक्त्राय । बर्बराङ्गाय नमः ॥ १०॥ ॐ दुर्धराय । विभ्रच्छ्मश्रुशिशिरोरुहाय । ऐषाण्यस्थितमस्तकाय । क्रुद्धाय । कूर्परिकृतजानुद्वयाय । कृताञ्जलिपुटाय । कल्याणाय । अधोवक्त्राय । शिवनेत्रोद्भवाय । घोररूपाय नमः ॥ २०॥ ॐ वास्तुशास्त्राधिपतये नमः । चतुःषष्ठिमण्डलाध्यक्षाय । धरणीसुताय । बलिप्रियाय । रक्तकेशाय । वास्तुमण्डलमध्यगाय । वास्तुदेवाय । त्रैलोक्यरक्षकाय । त्रात्रे । वरदाय नमः ॥ ३०॥ ॐ वाञ्छितार्थप्रदाय । भक्तानामभयङ्कराय । भक्तवत्सलाय । शुभाय । होमार्चनप्रीताय । प्रभवे । औदुम्बरसमित्प्रियाय । मरीच्यान्नप्रियमानसाय । दिक्पालकपरिभूषिताय । गृहनिर्माणसहायकाय नमः ॥ ४०॥ ॐ गृहदोषनिवर्तकाय नमः । कुलिशायुधभूषणाय । कृष्णवस्त्रधराय । आयुर्बलयशोदाय । माषबलिप्रियाय । दीर्घनेत्राय । निद्राप्रियाय । दारिद्र्यहरणाय । सुखशयनदाय । सौभाग्यदाय नमः ॥ ५०॥ ॐ वास्तोष्पतये नमः । सर्वागमस्तुताय । सर्वमङ्गलाय । वास्तुपुरुषाय नमः ॥ ५४ इति वास्तुपुरुषनामावलिः समाप्ता ।