सद्गुरुश्रीत्यागब्रह्मसहस्रकम्
ॐ श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
॥ सद्गुरुश्रीत्यागब्रह्मसहस्रकम् ॥
ॐ गानगङ्गाय विद्महे । ज्ञानतीर्थाय धीमहि । तन्नो गुरुः प्रचोदयात् ॥
ध्यानम् -
नमःश्रीरामचन्द्राय त्यागराजार्चिताय च ।
नमःसीतावराप्ताय गुरुप्रेष्ठाय ते नमः ॥ १॥
नमःश्रीत्यागराजाय श्लोकपुष्पार्चिताय च ।
सहस्रनुतिमालाय आचार्याय नमो नमः ॥ २॥
परादिवाक्स्वरूपाय परानन्दप्रकाशिने ।
परात्मानन्दबोधाय पराचार्याय ते नमः ॥ ३॥
अक्षयत्यागराजाय अक्षयाखण्डगायिने ।
अक्षयश्लोकधाराय अक्षयाय नमो नमः ॥ ४॥
अक्षय्यनादविद्याय अक्षय्यज्ञानतेजसे ।
अक्षय्यानन्दकन्दाय अक्षराय नमो नमः ॥ ५॥
भजेहं मदन्तस्सदालीनसत्त्वं भजेहं हृदन्तस्सुपीठे विराजम् ।
भजेहं गुरुत्यागराजस्य पादं भजेहं सदा सद्गुरुत्यागराजम् ॥ ६॥
अथ सद्गुरुश्रीत्यागब्रह्मसहस्रकम् ॥
त्यागब्रह्मगुरुस्वामी नादब्रह्मशरीरकः ।
रामभक्तिसदाचारगानसन्मार्गदर्शकः ॥ १॥
श्रीरामसततध्यानसहजागानसद्ऋषिः ।
श्रीराममयसच्चित्तसुज्ञानभक्तिविग्रहः ॥ २॥
सहस्रनामसङ्गीतः त्यागब्रह्मगुरूत्तमः ।
स्तुत्यतीतप्रभावश्च सदाध्यानमनोलयः ॥ ३॥
त्यागराजगुरुश्रेष्ठो रामभक्तिमहोन्नतः ।
श्रीनारदवरांशश्च रागरक्तिलयालयः ॥ ४॥
स्वररागसुधासारो नररूपधराचरः ।
वररागलयज्ञश्च गुरुरायमहोन्नतः ॥ ५॥
नादोपासितरामश्च नादसुधारसालयः ।
नादानन्दयतिश्रेष्ठो नादवन्दितसद्गुरुः ॥ ६॥
कमलालयसंजातः क्षेत्रपञ्चनदस्थितः ।
कमलावरसङ्गीतो दिव्यनामसुकीर्तनः ॥ ७॥
रामब्रह्मसुपुत्रश्च सीताम्बाप्रियवत्सकः ।
नादब्रह्मावतारश्च त्यागब्रह्मसुनामकः ॥ ८॥
रामब्रह्मसदालीनो 1 रामकृष्णयतिश्रुतः 2 ।
यतिश्रेष्ठोपदिष्टश्रीराममन्त्रषडक्षरः ॥ ९॥
सदालीनमनोजप्तश्रीरामनामतारकः ।
शतकोटिजपादृष्टश्रीरामरूपतारकः ॥ १०॥
श्रीरामदर्शनाहर्षझरासारावपातगः ।
संस्कृताखण्डपाण्डित्यपदलालित्यकीर्तनः ॥ ११॥
रागतालसुनृत्यश्रीरामप्रत्यक्षवर्णकः ।
प्रासानुप्राससँल्लासवाग्वर्षकृतिरत्नकः ॥ १२॥
सहजासारसत्कीर्तनागीतरामचन्द्रकः ।
स्वराक्षरलसद्गानगङ्गाभिषिक्तरामकः ॥ १३॥
रामनाममहानिष्ठो ज्ञानमोक्षदकीर्तनः ।
रामगानमहाप्रेष्ठो ज्ञानसन्मार्गबोधनः ॥ १४॥
उञ्छवृत्तिस्वधर्मश्च वैराग्यशीलपण्डितः ।
उलूखलनिबद्धस्वगानोलूखलबन्धनः ॥ १५॥
निधितुच्छमहाज्ञानो रामसन्निधिसेवनः ।
श्रीरामभक्तिसाम्राज्यो निस्सत्यभक्तिखण्डनः ॥ १६॥
आत्मसँय्यमपञ्चेन्द्रियनिग्रहणबोधनः ।
मनस्तृप्त्यस्पृहाबोधदिव्यकीर्तनमुत्यकः ॥ १७॥
रामगानरसासारो रागसुधारसासरः ।
नादगङ्गाप्लवाभोग्यः पानरञ्जनकीर्तनः ॥ १८॥
ध्यानगङ्गावरस्नानो नामगङ्गासुपानकः ।
गानगङ्गामहापुण्यो ज्ञानगङ्गासुकीर्तनः ॥ १९॥
गङ्गापावनसङ्गीतो गङ्गास्नानफलावहः ।
गङ्गातीर्थसुवागर्थो गङ्गौघवेगकीर्तनः ॥ २०॥
सद्गुरुत्यागराजार्यः शिष्यापुष्पामनस्स्थलः ।
मनआलयदैवश्च मनोजार्पितपुष्पकः 3 ॥ २१॥
अक्षरस्वरसङ्गीतो अक्षरास्वादुकीर्तनः ।
अक्षरानन्दसत्कीर्तिप्रदसद्गुरुदैवतः ॥ २२॥
अक्षरस्वरशब्दश्च अक्षरावलिमण्डितः ।
अक्षरास्वादुगीतश्च अक्षरावलिपूजितः ॥ २३॥
अक्षरस्वररागस्वगानामृताभिनन्दनः ।
अक्षरानन्ददायस्वकीर्तनामृतसालयः ॥ २४॥
अगराजसुतापुत्रगणनाथाभिवन्दनः ।
अगराजसुतावेगवाहसत्कृतिनन्दनः ॥ २५॥
आचार्यदेववर्यश्च आनन्दकन्दकीर्तनः ।
आत्मारामो जितात्मा च आत्मानन्दाभिवर्धनः ॥ २६॥
आत्मानुभूतिसंगाढ आत्मानुभवसत्कृतिः ।
आत्मज्ञानावबोधश्च आत्मसँल्लीनसद्गुरुः ॥ २७॥
इहागतपरात्मा च इलाधिपसुगायकः ।
इज्यसद्गुरुदेवश्च इहसिद्धिप्रदायकः ॥ २८॥
ईयसङ्गीतभातिश्च ईड्यसद्गुरुदैवतः ।
ईशाननुतनूतिश्च ईश्वरानुग्रहावहः ॥ २९॥
उत्तमश्लोकसंपूज्य उत्तमोत्तमगायकः ।
उत्तमासक्तिसङ्गीत उत्तमानन्ददायकः ॥ ३०॥
उत्तुङ्गनादशृङ्गश्च उषआराधिताच्युतः ।
उत्तुङ्गनादहैमार्क उड्डीनमधुगायनः ॥ ३१॥
ऊषरागकृतिस्तोत्र ऊषाराधितरामकः ।
ऊषप्रशान्तिसङ्गीत ऊषस्नानगगङ्गिकः ॥ ३२॥
ऋषिश्रेष्ठगुरुस्वामी ऋग्यजुस्सामसारगः ।
ऋद्धतालसुरागश्च ऋतव्रतसुगाव्रतः ॥ ३३॥
एकान्तरामसद्भक्त एकान्तजप्ततारकः ।
एकान्तभक्तिभिक्षश्च एकान्तभक्तिधारणः ॥ ३४॥
एकान्तस्वानुभूतश्च एकान्तभक्तिमानसः ।
एकाग्रभक्तिगातव्य एकान्तगातृतल्लजः ॥ ३५॥
ऐकाग्र्यभक्तिसङ्गीत ऐक्यमानससेवितः ।
ऐकान्तिकतपस्वी च ऐकात्म्यावहसद्गुरुः ॥ ३६॥
ओंकारसारसङ्गीत ओंकाराकृतिसुस्वरः ।
ओंकारध्यानसँल्लीन ओंकाररामरामकः ॥ ३७॥
औषधीयसुसङ्गीत औषधीसारसुस्वरः ।
औजस्यनादयोगश्च औषसीरागपूजितः ॥ ३८॥
कमलाप्तकुलाप्ताप्तः कमनीयघनस्वनः ।
कल्याणमोहनाकारराममोहनकीर्तनः ॥ ३९॥
कलिमानवनिस्ताररामभक्तिप्रचोदनः ।
कलिकल्मषविद्रावरामपूजनचोदनः ॥ ४०॥
कल्याणरामगेयश्च कविसौष्ठवसत्कृतिः ।
कल्याणदकृतिस्तोमः कलिहारकृतिप्लुतिः ॥ ४१॥
कण्ठस्वरातिमाधुर्यः कण्ठमिष्टस्वरालयः ।
कष्टवारणसङ्गीतः कलस्वरवरप्रदः ॥ ४२॥
कावेरीतीरसंवासः कावेरीवारिसंप्लवः ।
कावेरीच्छविसामोदरागवर्णनसत्कविः ॥ ४३॥
कालातीतकविश्रेष्ठः काव्यालापसुकीर्तनः ।
काकुत्स्थराजदासश्च काकर्लवंशभास्करः ॥ ४४॥
किरणार्काभवक्त्रश्च कीर्तिमत्कीर्तनावलिः ।
कीर्तिवैशाल्यचक्षुश्च कीर्तितागीतसत्पदः ॥ ४५॥
कुटीरमानसावासः कुलदैवगुरूत्तमः ।
कुमनोगणदूरश्च कुलकाकर्लदीपकः ॥ ४६॥
कूर्मावतारगायश्च कूलंकषौघकीर्तनः ।
कूवारशायिगेयश्च कूटशस्तुतिरत्नकः ॥ ४७॥
कृष्णलीलावरानन्दगेयनाटककीर्तनः ।
कृच्छ्रसंसारतारी च कृपणोद्धारसद्गुरुः ॥ ४८॥
केशवासक्तिसङ्गीतः 4 केदारप्लवकीर्तनः ।
केवलज्ञानसंदाता केवलानन्दनायकः 5 ॥ ४९॥
कैटभारिस्तुतिस्तोमः कैरवीमोदकीर्तनः ।
कैलासाराममन्त्रध्यः कैवल्यप्रदकीर्तनः ॥ ५०॥
कोदण्डपाणिसद्रागः कोलाहलस्वराकृतिः ।
कोदण्डरामरामश्च कोटिशाजप्ततारकः ॥ ५१॥
कौशल्याप्रेष्ठसत्पुत्रनामतारकगायकः ।
कौशिकाहवसंरक्षरूपतारकदर्शकः ॥ ५२॥
क्रमाराधितरामश्च क्रमाराधितसद्गुरुः ।
क्रमपूजासमाधिस्थः क्रमगाननुतिस्तुतः ॥ ५३॥
क्रतुदःक्रतुभुक्कर्ता क्रमिकाक्षरमालिकः ।
क्रान्तभक्तिसमुद्रश्च क्रियाक्रीडनकृष्णगः ॥ ५४॥
क्रूरपापभयापोहः क्रोधादिरिपुहारकः ।
क्रौञ्चपक्षिक्रतुश्लोककाव्यसन्निभकीर्तनः ॥ ५५॥
क्लमापोहनसङ्गीतः क्लान्तिच्छिद्घनसुस्वनः ।
क्लिष्टमानससञ्जीवः क्लेशनाशनकीर्तनः ॥ ५६॥
क्वणद्वीणास्वरानन्दः क्वणद्वीणानिभस्वरः ।
क्वणद्वीणास्वरस्थश्च क्वणद्वीणानदत्कृतिः ॥ ५७॥
क्षमाजाश्रैष्ठ्यगायन्तः क्षमावतररामगः ।
क्षमाधर्मप्रमाणश्च क्षमितभ्रातृपूर्वजः ॥ ५८॥
क्षान्तसद्गुरुदेवश्च क्षालितासक्तकल्मषः ।
क्षारपुष्पासवाचारुगानाराधितराघवः ॥ ५९॥
क्षितिद्योतनवंशाब्धिद्योतद्योतनगाखगः ।
क्षिप्रप्रवाहवाग्वर्षकृतिगङ्गासुगावनः ॥ ६०॥
क्षीरदिव्यान्ननैवेद्यनैत्यपूजाक्रमायुतः ।
क्षीराब्धिजाकरापूतनैवेद्यमानसार्पणः ॥ ६१॥
क्षीणजन्मौघसम्मज्जत्सिद्धिमण्डलखण्डनः ।
क्षीणभक्तरुजार्तिश्च क्षीणभक्ताघमण्डलः ॥ ६२॥
क्षुद्रतापोहगीतश्च क्षुब्धमानससान्त्वनः ।
क्षेत्रपञ्चनदार्कश्च क्षेमंकरसुकीर्तनः ॥ ६३॥
क्षौममार्दवभाषश्च क्षौमसम्मृदुगायनः ।
क्षौमवाग्रागसङ्गीतक्ष्मापुत्रीपतिसाच्युतः 6 ॥ ६४॥
खगवाहनगेयश्च खाण्डवस्वादुकीर्तनः ।
खिन्नमानससंश्रायः खेदक्लेशविनाशनः ॥ ६५॥
ख्यातिमद्गानगाङ्गेयो गगनार्णवगाप्लवः ।
गगनावतरापुण्यगङ्गागानसुधाप्लवः ॥ ६६॥
गदसम्मृदुमाधुर्यो गदिताच्युतमाहिनः ।
गरदाशनवाहस्वगदमाधुर्यगायनः ॥ ६७॥
गद्यपद्यकविप्राणो गद्यपद्यसुमार्चितः 7 ।
गद्यपद्यसुवागर्थो गद्यपद्यसुरूपकः ॥ ६८॥
गङ्गाजनकगायन्तो गङ्गारागसुगायनः ।
गङ्गौघकीर्तनाप्लावो गङ्गास्नातसुगाप्लुतः ॥ ६९॥
गानगङ्गाजलासारो गानरम्यमधुस्वनः ।
गायत्रीसारगायत्रो गायत्रपूजितानघः ॥ ७०॥
गिरामाधुर्यसङ्गीतगिरिदर्शितरामकः ।
गिरिदर्शितरामस्वगिरासारनिदर्शकः ॥ ७१॥
गीर्वाणीचिरसंवासगीताराधितरामकः ।
गीतसत्सारवागर्थश्रीरामनामतारकः ॥ ७२॥
गीतासारसुसङ्गीतो गीतसारसुगीतिकः ।
गीतार्थानन्दसङ्गीतज्ञातृवातात्मजादरः ॥ ७३॥
गुरुवागमृतासारो गुरुहृद्रोगशामनः ।
गुरुसत्तत्त्वबोधश्च गुरुदेवदयास्पदः ॥ ७४॥
गुणत्रयातिक्रान्तश्च गुणसत्त्वतपोनिधिः ।
गुणार्णवश्च गुण्यश्च गुणागीतहरिर्हरिः ॥ ७५॥
गूढात्मशक्तिबोधश्च गूढोत्ममधुगायनः ।
गृह्यश्च गृहदैवश्च गृहदैवत्यरामकः ॥ ७६॥
गेयराजश्च गेयश्च गेयगाङ्गेयनैत्यकः ।
गेयनाटकसङ्गीतशरणागतितत्त्वतः 8 ॥ ७७॥
गोविन्दनामसङ्कीर्तनानन्दनर्तनालयः ।
गोविन्दहरिनारायणासारनामगालयः ॥ ७८॥
गौरीपतिजटासारगङ्गासारसुकीर्तनः ।
ग्मापुत्रीपतिचारित्रनैत्यपारायणप्रियः ॥ ७९॥
ग्रथिताक्षरमालश्च ग्रन्थनाथगुरुप्रभुः ।
ग्रन्थितामोदसन्नूतिपुष्पावलिसुवासनः ॥ ८०॥
ग्रहदोषनिवारश्रीहरिकीर्तनचोदनः ।
ग्राहितास्वादुगायश्चग्लानिच्छेदनगायनः ॥ ८१॥
घण्टारवसुकण्ठश्च घनगानगभीरतः ।
घनगाननुतानन्तघनाघघनघातनः ॥ ८२॥
घातभक्ताघसङ्घातो घुषितानन्तनामकः ।
घूर्णचित्तोपशाम्यश्च घृतगानतरामकः ॥ ८३॥
घृणिवंशघृणालुश्रीरामगानघनाघनः ।
घृणिमाधवसद्गानरागसार्थलयालयः ॥ ८४॥
घोरराक्षससंहाररामतारकनामगः ।
घोरसंसारघोषार्ताश्रायसङ्गीतवल्लुरः 9 ॥ ८५॥
घ्राणतर्पणसन्नामपुष्पाढ्यगानकुञ्जकः ।
घ्रातसामोदपुष्पालीनाममाधुर्यवासनः ॥ ८६॥
चन्द्रार्कनेत्रगानार्कः चन्द्रिमारम्यकीर्तनः ।
चन्दनाचर्चितश्रीपनामचन्दनचर्चितः ॥ ८७॥
चामरच्छत्ररत्नाभपट्टाभिरामगायनः ।
चारुसत्सारकाव्यश्रीरामगायनचन्दनः ॥ ८८॥
चित्ररङ्गसुगीतश्च चिरकालिककीर्तनः ।
चित्तशुद्ध्युपदेशश्च चिरजीवनिरामयः ॥ ८९॥
चीर्णवैराग्यशीलश्च चीर्णरागस्वरार्चनः ।
चीर्णध्यानजपाचारः चीर्णनामस्मराचरः ॥ ९०॥
च्युतविग्रहसंतापजनिताद्भुतकीर्तनः ।
चेतोजार्चितचैतन्यः चोदितश्लोकपुञ्जकः ॥ ९१॥
छन्दोवृत्तस्तुतिस्तोत्रः छन्दजस्तुतरामकः ।
छिद्रहृत्तापशीकारः छुरिताक्षरमालिकः ॥ ९२॥
जन्मनक्षत्रपुष्यश्च जप्तश्रीरामतारकः ।
जयमन्त्रस्वरूपश्रीरमणार्चनकीर्तनः ॥ ९३॥
जलजस्मितनेत्रश्रीराममोहनरागगः ।
जलजारुणपादध्योजलजापतिरूपगः ॥ ९४॥
जगत्पृणपरात्मस्वमनःपूरणपूरणः ।
जगदात्मपरब्रह्मस्वानुभूतसुमानसः ॥ ९५॥
जगन्मोहनरामस्वजगन्मोहनगीनुतिः ।
जगदानन्दकारश्रीरामानन्दनकीर्तनः ॥ ९६॥
जपितायुतनामश्रीरामसीतावराप्तगः ।
जयरामजयाघोषजन्मवारणकीर्तनः ॥ ९७॥
जानकीनायकाचारुकीर्तनार्पणपूजनः ।
जानकीख्यातिप्रख्यापनास्वादुकृतिपुष्कलः ॥ ९८॥
जितपुष्पामनःस्वादुपुष्पासवसुकीर्तनः ।
जितरामजितात्मा च जिज्ञासुश्रायसद्गुरुः ॥ ९९॥
जीवन्मुक्तमहात्मा च जीवशक्तिप्रवर्धनः ।
जीवाधारकृतिस्तोमो जीवसंत्राणसद्गुरुः ॥ १००॥
जुष्यसद्गुरुदेवश्च ज्योतीरूपहरिस्मरः ।
ज्योतिस्स्वरूपतेजस्वी ज्योत्स्नानन्दसुकीर्तनः ॥ १०१॥
झङ्कारश्रुतिसन्नादरागतालसुलास्यगः ।
झल्लकानादसत्तालरागपेत्वरसालयः ॥ १०२॥
झाङ्कृतापातगावर्षसंसिक्तमधुसूदनः ।
झिल्लीझञ्झनसालास्यकीर्तनाह्लादगालयः ॥ १०३॥
ज्ञानसद्भक्तिसङ्गीतसमष्टिरूपकोत्तमः ।
ज्ञानवैराग्यबोधश्च ज्ञानपुष्कलकीर्तनः ॥ १०४॥
टङ्कारज्याधुषत्राणरामबाणसुशौर्यगः ।
टाङ्कारबाणकोदण्डपाणिश्रीरामकीर्तनः ॥ १०५॥
ठक्कुराकृतिसीतापपूजाराधनसत्कृतिः ।
ठक्कुराकृतिसंपूज्यः ठक्कुराकृतिदर्शितः ॥ १०६॥
तन्त्रीस्वरविलोलश्व तन्त्रीस्वरलयालयः ।
तन्त्रीनादितसङ्गीतः तन्त्रीस्वररसारमः ॥ १०७॥
तन्त्रीसुस्वररागश्च तन्त्रीनादश्रुतस्वरः ।
तन्त्रीरागलयारामः तन्त्रीसङ्गीतपूजितः ॥ १०८॥
तारकश्रीपसङ्गीतः तारकाद्भुतकीर्तनः ।
तापसार्तिनिवारश्रीरामतारकनामगः ॥ १०९॥
तिमिरान्तर्विलासश्च तितीर्षुश्रायकीर्तनः ।
तीर्थगङ्गासुगानीयः तीर्थीभूतसुमानसः ॥ ११०॥
तुम्बरश्रुतिसागीततुष्टिदामिष्टकीर्तनः ।
तुम्बरालयसङ्गीतश्रीरामस्वात्मदर्शकः ॥ १११॥
तुम्बुर्वानन्दसङ्गीतलक्ष्मीनारायणाशुगः ।
तुम्बुरुस्वादुसङ्गीतरागलयरसालयः ॥ ११२॥
तुलसीदलसंतोषपूजितामरपूजितः ।
तुलसीबिल्वमल्लीनानापुष्पार्चनचोदनः ॥ ११३॥
तुङ्गोर्मिकृतिसिन्धुश्च तुलस्यर्चितरामकः ।
तुर्यातीतसमाधिस्थः तुष्टिसम्पत्तिबोधकः ॥ ११४॥
तूष्णीकमानसाराध्यः तूष्णींभावसुमानसः ।
तूष्णींस्थानोत्थनादौघगङ्गोंकारस्वरासरः ॥ ११५॥
तृप्तिसत्कीर्तिकारश्च तृषितामृतकीर्तनः ।
तृष्णाक्षयघनोंकारनादगङ्गासुधास्रवः ॥ ११६॥
तेजस्करमुखश्रीश्च तेजोमयसुविग्रहः ।
तेजोरूपाभिवन्द्यश्च तेजस्विरामपूजनः ॥ ११७॥
त्यक्तराजोपहारश्च त्यक्तसर्वतपोनिधिः ।
त्यागराजयथानामत्यागप्रमाणजीवनः ॥ ११८॥
त्रस्ताश्वासनसत्स्पर्शः त्रातभक्तस्त्रितापहः ।
त्रैलोक्यातीतसङ्गीतः त्रोटकस्तुतिपुष्पकः १० ॥ ११९॥
दमनाद्भुतगीतश्च दशाननजयिस्तुतिः ।
दशमस्कन्दनाथश्रीकृष्णलीलारसानुतिः ॥ १२०॥
दशार्तिसन्निवारश्च दमादिशमरूपकः ।
दशावतारसद्गानदर्शितात्मस्वरूपकः ॥ १२१॥
दाशरथ्यद्भुतालोको दाशरथ्यर्चनाशुगः ।
दासार्त्यपहसङ्गीतो दासाग्रीयसुगायकः ॥ १२२॥
दिननक्तार्चितागीतदिव्यवंशाद्रिदीपकः ।
दिव्यवंशाद्रिदीपस्वदिव्यगादीपदीपकः ॥ १२३॥
दिव्यनामकृतिग्रामो दिव्यनामसुगार्चितः ।
दिव्यसङ्कीर्तनानन्दो दिव्यनामगनन्दितः ॥ १२४॥
दीपज्योतिस्स्फुरद्रूपो दीपाराधितसद्गुरुः ।
दीप्रसज्ज्ञानज्योतिश्च दीपितात्मस्वरूपकः ॥ १२५॥
दुःखवारणसङ्गीतो दुरितघ्नसुकीर्तनः ।
दुर्मार्गप्रतिकूलश्च दुर्गाभ्रातृसुगीतकः ॥ १२६॥
दुष्कर्मगणषट्शत्रुविच्छेतृहरिकीर्तनः ।
दुस्स्थप्रह्लादरक्षश्रीनृसिंहावतरानुतिः ॥ १२७॥
दूरपारगुणौघश्च दूषणातीतसद्गुणः ।
दूरीकृताश्रिताघश्च दूरपारकृतिप्लवः ॥ १२८॥
दूरप्रसारमाहात्म्यो दूरप्रसरकीर्तनः ।
दूरदेशप्रसारस्वकीर्तिदाशरथीऋणः ॥ १२९॥
दृष्टश्रीरामसद्रूपो दृश्यमङ्गलविग्रहः ।
दृष्टिकामवरादाता दृढभक्तिसुगावरः ॥ १३०॥
देवाधिदेवश्रीरामगानाधिदेवदेवगः ।
देवतासार्वभौमश्रीरामसच्चिन्तनायुतः ॥ १३१॥
दैविकाद्भुतसङ्गीतनित्याराधितराघवः ।
दैवश्रीरामसम्भाषणास्वादुकीर्तनारमः ॥ १३२॥
दोलोत्सवकृतिस्तोमरामाराधनसँल्लयः ।
दोलारोपितरामस्वगाननर्तननन्दनः ॥ १३३॥
दौर्बल्यापोहनाजीवनानन्दकृतिगङ्गिकः ।
दौर्मनस्यौषधीयश्रीरामनामसुगीतिकः ॥ १३४॥
द्युमद्गानसुधास्रावसीतारामाभिषेचनः ।
द्युम्नवत्कीर्तनामोदपुष्पाराधितसद्गुरुः ॥ १३५॥
द्रवत्पुष्पासवास्वादुगानार्द्रीभूतगायकः ।
द्राक्षारसस्रवामिष्टगेयार्द्रीकृतरामकः ॥ १३६॥
द्वन्द्वातीतसुखारामरामनामाभिरामकः ।
द्वारकापयदुश्रेष्ठश्रीकृष्णरासगायकः ॥ १३७॥
धर्मसंवर्धनीनूतिकविताच्छविसत्कृतिः ।
धनधैर्यसुसन्तानरूपलक्ष्मीनुतिस्तुतिः ॥ १३८॥
धनधान्यस्वरूपश्रीरामदैवकदर्शकः ।
धनुर्बाणशरासारसारवर्णनगीतकः ॥ १३९॥
धरणीजावरानन्दस्वरानन्दसुकीर्तनः ।
धराधरधराचारुरम्यकीर्तनमोदनः ॥ १४०॥
धाराजस्रप्रवाहश्रीरामसन्नुतिकीर्तनः ।
धारापातकृतिस्तोत्रसीतारामसुगायनः ॥ १४१॥
धारासारस्वरासारवर्षिताच्युतकीर्तनः ।
धार्यश्रीरामसन्नामसारसङ्कीर्तनारमः ॥ १४२॥
धिक्कृताल्पज्ञभक्त्युज्झविषयासक्तगायनः ।
धिष्ण्यपूजनसङ्गीतसालास्यदिव्यरूपकः ॥ १४३॥
धीरश्रीरामसद्भक्तिमनोधीरगभीरगः ।
धूनमानससन्तापसान्त्वनारामकीर्तनः ॥ १४४॥
धृतहस्ताश्रितानेता धृतिकारमहाकृतिः ।
धेयनामावलीधेयो धैर्यविग्रहरामगः ॥ १४५॥
धोरणीनामसङ्कीर्तनालास्यलयरागतः ।
धौतभक्ताघसर्वश्चधौतात्मप्रेष्ठसद्गुरुः ॥ १४६॥
ध्यानगानसमाधिस्थो ध्यानतत्परसद्ऋषिः ।
ध्यानश्रैष्ठ्योपदेशश्च ध्यानगोचरसद्गुरुः ॥ १४७॥
ध्रुवप्रह्लादसद्भक्तिविजयालोककीर्तनः ।
ध्रुवसिद्धिप्रदादत्तसत्कीर्तनसुसंहतिः ॥ १४८॥
नगजासहजाजश्रीरामसेवनकीर्तनः ।
नवरत्नसुभूषश्रीरामभूषणकीर्तनः ॥ १४९॥
नवनीतसुधागानक्षीरदैननिवेदनः ।
नवनव्यकृतिस्तोत्रदिनाराधितरामकः ॥ १५०॥
नारायणहरिस्मारनारदस्वामिदर्शकः ।
नारदश्रीगुरुस्वामिपूर्णानुग्रहपात्रकः ॥ १५१॥
नारदादत्तसद्ग्रन्थस्वरार्णवगभीरगः ।
नारदस्तुतिसंस्तोत्रकीर्तनस्वादुगायकः ॥ १५२॥
नारायणहरीरामनामसङ्कीर्तनालयः ।
नादोपासनसन्मार्गी नादब्रह्मनराकृतिः ॥ १५३॥
नादोपासितरामश्च नादोपासनसुप्रियः ।
नादसन्मार्गबोधश्च नादामृतरसाकृतिः ॥ १५४॥
नामपुष्पार्चितागीतमानसस्थितरामकः ।
नादस्वरस्फुरन्मानसपीठहरिपूजनः ॥ १५५॥
नानाकुसुमहृत्पुष्पार्चनानन्दितरामकः ।
नादलोलरमाकान्तपूजाकुसुमनामकः ॥ १५६॥
निगमागमसारार्थनित्यनूतनकीर्तनः ।
निद्रानिरासप्रत्यूषनादोपासनचोदनः ॥ १५७॥
निजदासस्वरामस्वनिजभक्तिसपूजनः ।
निष्कामभक्तिरामासक्त्युपदेशनकीर्तनः ॥ १५८॥
नीलाकाशविकाशश्रीराममाहिनमोहितः ।
नीरदश्यामगात्रश्रीरामगायत्रनीरदः ॥ १५९॥
नीलाकृतिघनश्यामघनगाननिवेदनः ।
नीलनिर्मलरूपश्रीरामकीर्तननिर्मलः ॥ १६०॥
नीलायताक्षिमाहत्म्यसुप्रासनटसत्कृतिः ।
नीलवेणीसुपादाब्जसमर्पितमनःस्थितिः ॥ १६१॥
नुतिगीतस्तुतारामरामनामसुतारकः ।
नुतिश्लोकस्तुतागीतसदाचार्यः सुतारणः ॥ १६२॥
नूतनारम्यसत्सारकीर्तनावर्षनन्दनः ।
नूतनश्लोकपुष्पालीमोदानुरागनन्दितः ॥ १६३॥
नृत्यालास्यलयच्छन्दरागदैवतनर्तनः ।
नृसिंहदर्शनाह्लादप्रह्लादगेयनाटकः ॥ १६४॥
नेत्रानन्दातिसौम्यश्रीरामनामातिमोदितः ।
नेत्रोत्सवसुलावण्यरामरूपातिमोहितः ॥ १६५॥
नैत्यगानाञ्जलिप्रीतो नैत्यपूजार्चनामुदः ।
नैष्कर्म्यसिद्धिसम्पादो नैस्सङ्ग्याङ्कितसद्गुरुः ॥ १६६॥
नौकाचरित्रसङ्गीतश्रीकृष्णगोपिकारमः ।
नौकाकथितसानन्यशरणागतिबोधनः ॥ १६७॥
न्युङ्कपुष्पार्चितागीतो न्युङ्कगीतार्चिताच्युतः ।
न्यूनतापोहनाचार्यो न्यूनत्वपोहसत्कृतिः ॥ १६८॥
पञ्चमीतिथिकैवल्यमुक्तिसंप्राप्तसद्गुरुः ।
पञ्चमीनामसङ्गीतपुष्पाराधितसद्गुरुः ॥ १६९॥
पानरञ्जनभोग्यश्रीरामनामसुगारसः ।
पाथोधिमदहारश्रीराममादितसत्कृतिः ॥ १७०॥
पिककण्ठस्वरालापश्रीराममधुगायनः ।
पिञ्जमानससाश्वासप्रशमावहकीर्तनः ॥ १७१॥
पीतनामामृताह्लादः पीयूषगानपायनः ।
पीताम्बरहरिस्तोमपीतकीर्तनभूषणः ॥ १७२॥
पुण्यगङ्गासुगानीयः पुराणपुरुषाशुगः ।
पुष्पार्चितपदाम्भोजः पुष्पावर्षनुतिस्तुतः ॥ १७३॥
पूर्वजातिव्यथाजातमनोगलनकीर्तनः ।
पूर्णानन्दप्रदापूर्णपूर्णावतारपूर्णगः ॥ १७४॥
पृथुकीर्तनसङ्गीतपृथिवीजरमापतिः ।
पृथिवीपतिसंदत्तनिधितुच्छनिराकृतिः ॥ १७५॥
पेयपेयूषसङ्कीर्तनानन्दरामगायनः ।
पेशलामोदपुष्पार्चितानन्तपदपल्लवः ॥ १७६॥
पैतामहससीतश्रीरामविग्रहपूजकः ।
पैतृकाराधनापूतकृतिमण्डलकारकः ॥ १७७॥
पोतनाचार्यदेवश्च पोतनाचारुकीर्तनः ।
पौनःपुनिकसङ्गीतनाममाहिनकीर्तनः ॥ १७८॥
प्रह्लादभक्तिचारित्रगेयनाटकसत्कविः ।
प्रज्ञानपुष्टिसङ्गीतनामवैभवसत्कृतिः ॥ १७९॥
प्रणवागुप्तब्रह्मश्रीरामतारकमन्त्रगः ।
प्रणवानादमन्त्रश्रीरामतारकलीनतः ॥ १८०॥
प्रागुषस्तुम्बरालीनसत्त्वगाननराकृतिः ।
प्रागुषस्स्वच्छशुद्धान्तरङ्गगौरवसत्कृतिः ॥ १८१॥
प्रागुषःपूजितागीतसीतारामवराकृतिः ।
प्रागुषोगानवीणासुनादलीनस्वराकृतिः ॥ १८२॥
प्राणलीनसदाचार्यः प्राणोज्जीवनकीर्तनः ११ ।
प्राणपुष्पार्चितागीतः प्राणसंस्फूर्तिहेतुकः ॥ १८३॥
प्राणानलसुसंयोगनादप्रणवमर्मगः ।
प्राणदाश्वासनानन्दनादोपासनसुव्रतः ॥ १८४॥
प्रियभाषितसङ्गीतश्रीसीतारामदैवतः ।
प्रियसंभाषणोज्जीवितानन्यशरणागतः ॥ १८५॥
प्रीतिस्निग्धकटाक्षस्वभक्तानुग्रहवर्षकः ।
प्रीतिवात्सल्यसंभाषणाहूतदैवरामकः ॥ १८६॥
प्रुषिताद्भुतसङ्गीततीर्थाभिषिक्तरामकः ।
प्रेमाढ्यगीतवृन्दश्च प्रेमभक्तिसमन्वितः ॥ १८७॥
प्रैयविग्रहरामस्वप्रैयकस्वादुगार्पणः ।
प्रैयरूपकश्रीपस्वप्रैयकीर्तनवन्दनः ॥ १८८॥
प्रोक्षितापूतसङ्गीतगङ्गापावितशिष्यकः ।
प्लवाह्लादस्वरासारगङ्गाकीर्तनपावकः ॥ १८९॥
फणिनाथसुतल्पश्रीनारायणाशुगायकः ।
फलितश्रीपसद्दर्शः फलनिर्वृत्तिकारकः ॥ १९०॥
फालनेत्रप्रियारामनामतारकजापकः ।
फुल्लोत्पलसुनेत्रश्रीरामतारकरूपगः ॥ १९१॥
बलरामानुजानन्दलीलाप्रपञ्चकीर्तनः ।
बलिष्ठमारुतिज्ञातगीतार्थभावसद्रसः ॥ १९२॥
बालप्रायनुतागीतराघवस्तुतिकीर्तनः ।
बालप्रायानुभूतश्रीरामसख्यसुभाषणः ॥ १९३॥
बालरामस्वमात्रोक्तदिव्यवाणीरसालपः ।
बालकृष्णमनोरम्यवेणुगानस्वरालपः ॥ १९४॥
बालालापस्तुतिश्लोकपुष्पावलिप्रसाधितः ।
बालालापप्रसन्नश्च बालालापसुवासितः ॥ १९५॥
बिलहृद्ध्यातदैवश्च बिलहृत्स्थलदीपकः ।
बिलहृद्दर्शिताचार्यो बिलहृत्स्थलसालयः ॥ १९६॥
बिलहृत्स्थलसंदर्शसीताराममहाद्युतिः ।
बिल्वादितुलसीमल्लीपूजितश्रीहरिद्युतिः ॥ १९७॥
बीजाक्षरस्वरूपश्रीरामध्यानमनोलयः ।
बीजमन्त्रोपदेशश्च बीजबुद्ध्युपपादनः ॥ १९८॥
बुधश्रीरामबोधश्च बुधसंत्राणरामगः ।
बुद्ध्यतीतस्वरूपश्च बुद्धिभिक्षावराभयः ॥ १९९॥
बृहदानन्ददायश्रीरामस्वरूपवर्णकः ।
बृहत्संतापसंहारनामगानोपदेशकः ॥ २००॥
बृहदाह्लादकारश्रीरामतारकगायकः ।
बृहदारामगानश्रीरामसद्गुणवर्णकः ॥ २०१॥
बृहद्भाससुगादीपो बृहच्छ्रवस्यसत्कृतिः ।
बृहन्मतिप्रदाचार्यो बृहच्छ्रेयससद्गुरुः ॥ २०२॥
बृहदासारगावर्षसंसिक्तरामतारकः ।
बृहदासारसुश्लोकवर्षाभिषिक्तसद्गुरुः ॥ २०३॥
बृहज्ज्योतिस्स्वरूपश्रीरामदर्शनहर्षितः ।
बृहच्छविलसद्रागरत्नालङ्कृतराघवः ॥ २०४॥
बेकुराध्वनिमाधुर्यो बैजिकाच्युतगायनः ।
बोधसद्गुरुदेवश्च बोधिताच्युतकीर्तनः ॥ २०५॥
बोधातीतसदाचार्यो बोधवर्धनकीर्तनः ।
बोधातीतपरब्रह्मज्ञानप्रबोधसद्गुरुः ॥ २०६॥
बोधितश्रीपसद्भक्तिनादोपासनसुक्रमः ।
बोध्यकीर्तनवृन्दश्च बौद्धदैवतसद्गुरुः ॥ २०७॥
ब्रध्नवंशप्रदीपप्रगेयप्रशान्तसत्कृतिः ।
ब्रह्माण्डनायकश्रीपब्रह्मानन्दलसत्कृतिः ॥ २०८॥
ब्रह्मजिज्ञासुसंश्रायतत्त्वोपदेशगीतकः ।
ब्रह्मानन्दप्रदाचारुसारसत्सारकीर्तनः ॥ २०९॥
ब्रह्मज्ञानप्रकाशश्च ब्रह्मस्वरूपसद्गुरुः ।
ब्रह्मश्रीरामसद्गेयो ब्रह्मनिष्ठिततापसः ॥ २१०॥
ब्राह्मवेलासुधागानश्रीराममञ्जुकूजनः ।
ब्राह्मवेलामनोरम्यनादोपासनचोदनः ॥ २११॥
भक्ताश्रुप्लुतिसम्मग्नसत्पादाम्बुजसद्गुरुः ।
भक्तानन्यशरण्यश्च भक्तालम्बनसद्गुरुः ॥ २१२॥
भक्तिमार्गप्रणेता च भक्तिसङ्गीतबोधनः ।
भवापोहनसद्गानो भवानन्दनकीर्तनः ॥ २१३॥
भवसन्नुतसन्नामतारकध्यानतत्परः ।
भवशोकनिवारश्रीरामभावनमानसः ॥ २१४॥
भवनीरधितारश्रीराममन्त्रसुखास्पदः ।
भवानीपतिजापश्रीपमन्त्रतारकास्पदः ॥ २१५॥
भावभावप्रभावश्च भावभावकसद्गुरुः ।
भावसद्भावभावश्च भावातीतसुमाहिनः ॥ २१६॥
भिन्नहृद्भेषजारामराममन्त्रोपदेशनः ।
भीतिच्छिद्रामसन्नामतारकोन्नादगायनः ॥ २१७॥
भुक्तिमुक्तिप्रदामोदभद्रकीर्तनकारकः ।
भुवनाधारमूलश्रीरामसन्नुतिगायकः ॥ २१८॥
भूजापतीष्टदैवश्च भूजापकीर्तनोल्लसः ।
भूजामनोहरात्यूषमृदुस्वादुस्वरारमः ॥ २१९॥
भृत्यवात्सल्यसन्नेता भृमिमानसशामनः ।
भेषज्यनामसत्सारपायनासारकीर्तनः ॥ २२०॥
भैरवीमोदनामस्वगानपञ्जरकूजनः ।
भैरवीनाथशीर्षस्थगङ्गाप्रवाहकीर्तनः ॥ २२१॥
भोगतृष्णापहश्रीपरागगान्धर्वगायनः ।
भोगमोक्षप्रदारामकीर्तनस्मेरमाधवः ॥ २२२॥
भौलीरागकृतिस्तोत्रप्रातारम्याभिवर्धनः ।
भौमीरामकृतिस्तोमसर्वकालाभिनन्दनः ॥ २२३॥
भ्रमसान्त्वनसद्गानो भ्रान्त्यपोहनकीर्तनः ।
भ्राजत्सज्ज्ञानतेजस्वी भ्राजिष्णुविष्णुभाजितः ॥ २२४॥
भ्रूमध्यचित्तसंदर्शतेजस्विरामसात्मकः ।
भ्रूमध्यचित्तसंदर्शतेजस्स्वरूपसद्गुरुः ॥ २२५॥
मदमत्सरसम्पाटिमहीध्रप्रभुगायनः ।
महामेरुसमानश्रीरमणाशुगसत्कविः ॥ २२६॥
महामेधाविलासश्च महामन्त्रगसुध्वनिः ।
मनःपूतप्रशान्तश्च मनोजार्चितसद्गुरुः ॥ २२७॥
माधुर्यपूर्णगानश्च माधुर्यवाक्प्रसादकः ।
मारमारामसारामो मानसोल्लासरामकः ॥ २२८॥
मायाम्बुदसमीरश्रीरमणेषणकीर्तनः ।
मायाकान्तारसंभ्रान्तशिष्यान्वेषितसद्गुरुः ॥ २२९॥
मित्रवंशेशसंपूजो मित्रीकृतरघूत्तमः ।
मिष्टश्लोकसुवागर्थो मितभाषणमिष्टगः ॥ २३०॥
मीनावतारसद्गेयो मीरपारसुगार्णवः ।
मीनाक्षीभ्रातृसालापो मीरादृश्यस्वरार्णवः ॥ २३१॥
मुदामुदिरगावर्षो मुरारिकृतिमोदनः ।
मुनिश्रेष्ठाभिवन्द्यश्च मुकुन्दहरिनामगः ॥ २३२॥
मूलाधारोत्थनादौघो मूलाधारोत्थगालयः ।
मूर्छनास्वरभेदज्ञनादविद्याविशारदः ॥ २३३॥
मृदुसत्त्वसुभाषश्च मृदुमानसगावरः ।
मृदुभाषणरामस्वमृदुगानसुवन्दनः ॥ २३४॥
मृदुस्वरमदालापो मृदुगानमधुद्रवः ।
मृदुगानमधुस्वादुस्वरानन्दितरामकः ॥ २३५॥
मेरुतुल्यसुमेधश्च मेधाविलासकीर्तनः ।
मेघश्यामसुगामेघो मेधानन्दसुगासरः ॥ २३६॥
मैथिलीशसुमैत्रश्च मैत्रीभावसुमानसः ।
मैथिलीनाथगेयश्च मैत्रावरुणगाप्रियः ॥ २३७॥
मैथिलीप्राणनाथश्रीराममैत्रीमयाशुगः ।
मैत्रावरुणगीतश्रीरामायणरसाशुगः ॥ २३८॥
मोक्षसम्प्राप्तिसंपादो मोक्षदानन्दकीर्तनः ।
मोहापोहोपदेशश्च मोहितश्रीशमोहनः ॥ २३९॥
मौनध्यानसुगावन्द्यो मौनिराजसुपूजितः ।
मौनध्यानसुगम्यश्च मौनार्चितगुरूत्तमः ॥ २४०॥
मौनमानसनिध्यातो मौनध्याननिदर्शितः ।
मौनोपदेशबोधश्च मौनसन्नादसुध्वनिः ॥ २४१॥
यतिश्रेष्ठो महाज्ञानी यतमानससात्त्विकः ।
यदुश्रेष्ठमहाप्रेष्ठो यदुनन्दनवन्दनः ॥ २४२॥
यादवारामसद्गानो यान्तर्निशान्तरामगः ।
यान्तभान्तनिशान्तश्रीरामभान्तस्सुनादलीः ॥ २४३॥
यावज्जीवनुतागीतयागरक्षणरामकः ।
यावज्जीवस्मृताध्यातत्यागब्रह्मगुरुप्रभुः ॥ २४४॥
युक्तमानसरामध्यो युतरामजपव्रतः ।
युक्तगीताभिवन्द्यश्च युक्तसत्सङ्गसद्गुरुः ॥ २४५॥
येष्ठगङ्गाकृतिप्लावो येष्ठनामसुगाप्रियः ।
योगनिष्ठितगाप्रेष्ठो योगसङ्गीतसद्गुरुः ॥ २४६॥
यौगिकारामसङ्गीतनुतश्रीरामतारकः ।
यौवनारामरामातिरामनामगरामकः ॥ २४७॥
रघुरामगुणारामो रघुनन्दननन्दनः ।
रङ्गशायिहृदारामो रमारमणरामणः ॥ २४८॥
रघुनाथसुगानाथो रघूत्तमसुगोत्तमः ।
रङ्गशायिसुमुत्याभासेवावर्णनकीर्तनः ॥ २४९॥
रससङ्गीतसाहित्यलसरागलयच्छविः ।
रसनामिष्टसन्नामरसपायनसत्कविः ॥ २५०॥
रागस्वरलयालास्यो रागतालरसालयः ।
रागार्चितरघुश्रेष्ठो रामरागसुनामगः ॥ २५१॥
रामानुरागरागश्रीरामसीतासुरागगः ।
रामातिरक्तिलास्यश्रीरागकीर्तनरामगः ॥ २५२॥
रामाभिरामगारामो रामभक्तिरसार्णवः ।
रामसद्ध्यानसँल्लीनो राममन्त्रजपस्मरः ॥ २५३॥
रामरामजपारामो रामरामसुनामगः ।
रामरामण्यकारामो रामरामकगीतिकः ॥ २५४॥
रिपुसूदनसद्गीती रीतिगङ्गासुकीर्तनः ।
रुचिरस्वरसङ्गीतरूपलावण्यरामकः ॥ २५५॥
रेभसुस्वरसङ्गीतरैवतप्रभुरामकः ।
रोमाञ्चनकराचार्यो रौप्यस्वरसुगायकः ॥ २५६॥
ललिताश्रीप्रवृद्धानुतपस्तीर्थपुराशुगः ।
ललिताभ्रातृनारायणानुग्रहसुपात्रकः ॥ २५७॥
लघुगीतार्चितानन्तो लक्ष्मीरमणगारमः ।
लक्ष्मीपगानसानन्दो लयरागस्वरारमः ॥ २५८॥
लावण्यरामरामश्च लालितश्रीपसारमः ।
लास्यसङ्कीर्तनाह्लाददिव्यनामसुगारमः ॥ २५९॥
लिप्तश्रीपानुरागश्च लिपिसार्चितसद्गुरुः ।
लिप्यतीतसुगुण्यश्च लिपिरूपनिदर्शितः ॥ २६०॥
लीनसुस्वरसद्रूपो लीनमानससार्चितः ।
लीलाचतुरकृष्णस्य लीलानाटकगारतः ॥ २६१॥
लुब्धमानससंसान्त्वो लुलितान्तःप्रसादकः ।
लूनपुष्पाक्षरापूज्यो लूनदोषादिदुष्कृतः ॥ २६२॥
लेख्यसद्गुणवृन्दश्च लेखितस्वचरित्रकः ।
लेखारूपप्रकाशश्च लेखितश्लोकमालिकः ॥ २६३॥
लोकनाथार्चनायुक्तो लोकत्राणस्वगाहरः ।
लोकावनसुगानिष्ठो लोकसंतापहारगः ॥ २६४॥
लौक्यातीतस्वभावश्च लौकिकासक्तिखण्डनः ।
लौकिकालौकिकात्मश्रीरामतारकमण्डनः ॥ २६५॥
वरसप्तस्वरोपास्यो वरसुस्वरगावरः ।
वरसीतावराप्तश्च वरमिष्टसुगारवः ॥ २६६॥
वरसुस्वरलोलश्च वरगानवरप्रदः ।
वरसुस्वरवेणुश्च वरगानजितामरः ॥ २६७॥
वराह्लादससंदृष्टवरवीणासनारदः ।
वरनारदसङ्गीतस्वरार्णवगभीरतः ॥ २६८॥
वरवीणास्वरावासः वरवीणास्वरारतः ।
वरवीणामृदुस्वादुस्वरकीर्तनपूजितः ॥ २६९॥
वनजाक्षस्वरारामो वररागसुगायनः ।
वरकीर्तनसत्सङ्घो वरगीतमहोत्सवः ॥ २७०॥
वाक्सम्पत्परिपूर्णश्च वाक्सम्पत्तिवरप्रदः ।
वाक्चेलावृतरामश्च वाक्चेलावृतसद्गुरुः ॥ २७१॥
विदितात्मस्वरूपश्च विज्ञातस्वरलक्षणः ।
विमलस्वहृदाभासविनतासुतवाहनः ॥ २७२॥
विषयासक्तिदूरश्च विरागाङ्कितसद्गुरुः ।
विद्यासम्प्राप्तिसम्पादो विनयार्चितसद्गुरुः ॥ २७३॥
वीणागानप्रसन्नश्च वीणावादितसत्कृतिः ।
वीणावादनसुप्रीतो वीणामृदुस्वरस्मितः ॥ २७४॥
वीणामिष्टस्वरालीनकण्ठस्वरार्चनप्रियः ।
वीणासगानपुष्पार्चनामोदनगुरूत्तमः ॥ २७५॥
वृन्दापुष्पार्चितागीतवृन्दाररामचन्द्रकः ।
वृन्दालोलाभिनन्दस्वगीतवृन्दार्चनारमः ॥ २७६॥
वेणुगानाभिलोलश्रीकृष्णगानस्वरूपगः ।
वेणुगानस्वरामिष्टसद्गानकृष्णवन्दनः ॥ २७७॥
वेदान्तसत्त्वतत्त्वज्ञो वेदवेदान्तसारगः ।
वेदशास्त्रोपनैषद्यनिजतत्त्वगकीर्तनः ॥ २७८॥
वेगवाहकृतिप्लावो वेदनादसुकीर्तनः ।
वेदघोषनिनादस्वरामसन्नुतिगायनः ॥ २७९॥
वैदेहीभाग्यगेयश्च वैभोगरङ्गवर्णकः ।
वैराग्यत्यागशीलश्च वैकुण्ठनाथवल्लभः ॥ २८०॥
वैभोगरङ्गनाथस्वभावपुष्टिस्वरानुतिः ।
वैभोगरङ्गमुत्याभावर्णनाशुकविच्छविः ॥ २८१॥
व्यक्तसुस्वरदैवश्च व्याप्तेतच्छ्लोकमण्डलः ।
व्यथितार्तिप्रशामश्च व्याध्याधिभयहारकः ॥ २८२॥
शतकुम्भगुणश्रेष्ठः शतायुर्मङ्गलप्रदः ।
शतिरागलसद्रत्नकृतिमालिससीतसः ॥ २८३॥
शब्दब्रह्मस्वरूपश्च शब्दोंकारलयस्वरः ।
शब्दातिमृदुमाधुर्यः शब्दातीतप्रशान्तिदः ॥ २८४॥
शान्तमानससौख्यश्च शातकुम्भगलस्वनः ।
शाश्वतीवहगङ्गाकाशाश्वतानन्दगीततः ॥ २८५॥
शिवारामरमारामशिवानन्दसुनामगः ।
शिवाभ्रातृकृतिस्फूर्तिःशिवरामसुनामगः ॥ २८६॥
शिष्यैकचित्तनिध्यातः शिष्यासक्तिसुपूजितः ।
शिष्यार्चितगुरुस्वामी शिष्यवत्सलदैवतः ॥ २८७॥
शीलवृत्तसदाचार्यः शीकारदृष्टिदीक्षकः ।
शीकराप्लावगङ्गाकानिभसत्कृतिविप्लवः ॥ २८८॥
शुचिरूपसदाचार्यः शुभप्रदसुकीर्तनः ।
शुभ्रभोगीन्द्रशय्यस्य शुभलक्षणवर्णनः ॥ २८९॥
शून्यतापोहनश्रीपशृङ्गारगुणकीर्तनः ।
शेषशायिगुणोत्तुङ्गगानोत्तुङ्गहिमालयः ॥ २९०॥
शैलोत्तुङ्गसुपुण्यश्च शैलसारदृढव्रतः ।
शैथिल्यापहसङ्गीतः शैलधारानुकीर्तनः ॥ २९१॥
शोकवारणसद्गाननादोपासनमार्गणीः ।
शोकोद्भूतसुकाव्यश्रीरामायणरसानुतिः ॥ २९२॥
शोभनस्वरसन्नादचारुकीर्तननर्तनः ।
शौभश्रीसद्गुरुस्वामी शौर्यवद्रामकीर्तनः ॥ २९३॥
श्यामसुन्दरसद्गानभक्तिमार्गप्रबोधनः ।
श्रद्धालुशिष्यसुश्लोकपुष्पावलिप्रमोदनः ॥ २९४॥
श्रान्तसंवाहसन्नामकीर्तनानन्दविग्रहः ।
श्रितसद्भक्तिसङ्गीतसत्सुज्ञानप्रवर्धकः ॥ २९५॥
श्रीनारदगुरुस्वामिगाग्रन्थाशीर्वचास्पदः ।
श्रीपोपासनसङ्गीतस्वरार्णवपरिप्लुतः ॥ २९६॥
श्रीकान्तश्रीकरारम्यघण्टामधुरगायनः ।
श्रीरम्यचित्तसञ्चारश्रीधरप्रियकीर्तनः ॥ २९७॥
श्रुतिरागलयालीननामसङ्कीर्तनालयः ।
श्रुतिमण्डलसंवृत्ततेजोरूपसुगालयः ॥ २९८॥
श्रुतितारस्वराचारुपुष्कलालीनश्रोत्रकः ।
श्रुतिशास्त्रातिनैपुण्यः श्रुतिशुद्धसुगारवः ॥ २९९॥
श्रेयस्करवराचार्यः श्रैष्ठ्यगीतोपदेशकः ।
श्रोत्रपेयूषवाग्वर्षः श्रौष्टिसेवितसद्गुरुः ॥ ३००॥
श्लक्ष्णवाग्भाषसङ्गीतः श्लाखितश्लोकपुष्पकः ।
श्लिष्टसद्भक्तिसारूप्यः श्लोकपुष्पावलीरतः ॥ ३०१॥
श्लोकितस्वसुसत्कीर्तिः श्लोकसंस्फूर्तिहेतुकः ।
श्लोकपुष्पावलीवासः श्लोकपुष्पाशुगारसः ॥ ३०२॥
श्वासपुष्पार्चिताचार्यः श्वासमिश्रितसद्गुरुः ।
श्वान्तमानसपीठस्थः श्वोवसीयससद्गुरुः ॥ ३०३॥
षडाननाश्रितापालनुतिस्तोत्रसुमञ्जुलः ।
षडास्यमातुलस्वान्तर्भक्तिपूर्णबहुकृतिः ॥ ३०४॥
षड्जाधारस्वरानादषाडवौडवसद्ध्वनिः ।
षोडशोपचरास्वादुगानपूजितरामकः ॥ ३०५॥
सङ्गीतयोगकूटस्थः सत्सङ्गीतरसार्णवः ।
सप्तस्वरसमुद्रश्च सप्तस्वरशरीरकः ॥ ३०६॥
सङ्गीतावतराचार्यः सप्तस्वरसुधाद्रवः ।
सङ्गीतरसमाधुर्यः सङ्गीतार्णवसंप्लवः ॥ ३०७॥
सङ्गीतस्वरसाराध्यः सङ्गीतस्वरमिष्टतः ।
सङ्गीतसुस्वरानन्दः सङ्गीतोपासनामुदः ॥ ३०८॥
सङ्गीतसद्गुरुस्वामी सङ्गीतरससालयः ।
सङ्गीतरामसीतश्च सङ्गीतरसकीर्तनः ॥ ३०९॥
सङ्गीतज्ञानभक्तिस्वसत्कीर्तनोपदेशकः ।
सङ्गीतज्ञानभिक्षावरप्रदाचार्यदैवकः ॥ ३१०॥
सद्गङ्गाजनकाप्लावसद्गङ्गाप्लुतिसत्कृतिः ।
सद्गङ्गासरसङ्गीतः सद्गङ्गाप्रशमाकृतिः ॥ ३११॥
सत्त्वगुण्यमहात्मा च सत्कारुण्यगुणास्पदः ।
सत्त्वसङ्गीतयोगी च सप्तस्वररसास्पदः ॥ ३१२॥
संसारभीत्यपोहश्रीरामनामसुगाकृतिः ।
संसारमग्नसंतापसंशीतलसुवाक्सरिः ॥ ३१३॥
सहस्रायुतसत्कीर्तिः सहस्रायुतकीर्तनः ।
सहस्रनामसङ्गीतः सहस्रपुष्पमालिकः ॥ ३१४॥
सहजागीतरामश्च सहजानन्दसत्कृतिः ।
सहजस्फुरितश्लोकसहस्रार्चितसद्गुरुः ॥ ३१५॥
सानन्दनन्दसङ्गीतः साह्लादगानसुस्वरः ।
सागरागुप्तसन्नामसारसारगसागरः ॥ ३१६॥
साकेतवाससंवाससत्कीर्तननिकेतनः ।
सालङ्कारसुभार्यश्रीरामालङ्कारकीर्तनः ॥ ३१७॥
साक्षीभूताच्युतालोकः सारसारसुगासरः ।
सामगालोलगालोलः सामादिनिगमार्थगः ॥ ३१८॥
साधुश्रेष्ठः सुगानन्दः सारसद्गाननिष्ठितः ।
साहित्यातिसुलालित्यः साहित्यलयरागतः ॥ ३१९॥
सिद्धसुज्ञानपुष्टिश्च सिद्धिसंपादसद्गुरुः ।
सिद्धेतच्छ्लोकसंपुष्टिः सिद्धिदश्रीपकीर्तनः ॥ ३२०॥
सीतारामस्वरारामः सीताराममनोरमः ।
सीतानुजसमेतश्रीरामविग्रहपूजनः ॥ ३२१॥
सीतारामस्वहृत्पीठसंपूजनमनोलयः ।
सीताराममधुस्रावनामसङ्कीर्तनालयः ॥ ३२२॥
सीताकल्याणवैभोगगानरागलयाकृतिः ।
सीतापतिसुसङ्गीतसमाराधनसन्नुतिः ॥ ३२३॥
सीतावरार्चनासारसङ्गीतज्ञानरूपकः ।
सीमारहितसज्ज्ञानः सीमारहितगावनः ॥ ३२४॥
सीतावराप्तसङ्गीतज्ञानभक्तिसकीर्तनः ।
सीतामाहात्म्यसोत्कृष्टभव्योत्तमगुणानुतिः ॥ ३२५॥
सीताहृत्पद्मखद्योतश्रीरामगानखद्योतः ।
सीतापतिस्वहृत्पद्मसामोदगानपूजनः ॥ ३२६॥
सुधासारस्वरासारः सुरारामस्वरारमः ।
सुमनोजस्वराराध्यः सुमनोजगणारमः ॥ ३२७॥
सूर्यवंशजसंपूजः सूरिसन्नामनामगः ।
सूत्रधारिसुगासूत्रधारसन्नामकीर्तनः ॥ ३२८॥
सृष्टिस्स्थित्यन्तकारश्रीहरिकीर्तिगकीर्तनः ।
सृष्टसत्कीर्तनागण्यः सृप्रसुस्वरगायनः ॥ ३२९॥
सेवितापूजिताचार्यः सेवितार्चासुविग्रहः ।
सेवितश्लोकपुञ्जश्च सेवितस्वसुकीर्तनः ॥ ३३०॥
सोहंभावसमाधिस्थः सोत्कृष्टकृतिपुङ्गकः ।
सोत्सुकश्लोकसंपूज्यः सोत्कण्ठरसपूरगः ॥ ३३१॥
सौमित्रिभ्रातृसद्गेयः सौभाग्यप्रदसत्कृतिः ।
सौम्यश्रीरामसद्गुण्यप्रख्यापनाशुकीर्तनः ॥ ३३२॥
स्तुतिपुष्पार्चिताचार्यः स्तुतिपुष्पावलिप्रियः ।
स्तुतिमण्डलसंवृत्तः स्तुतिरागलयालयः ॥ ३३३॥
स्तुतिस्तोमसुसंस्फूर्तिः स्तुतिबीजगुरूत्तमः ।
स्तुतिरञ्जितगामूर्तिः स्तुतिसङ्कुलसंरमः ॥ ३३४॥
स्वच्छमानससंदृष्टस्वान्तरात्मरघूत्तमः ।
स्वच्छमानससंदर्शसान्तरात्मगुरूत्तमः ॥ ३३५॥
स्वच्छशान्तमनस्स्फोटदिव्यनामसुकीर्तनः ।
स्वशिष्यमनआस्फोटश्लोकसार्चितसद्गुरुः ॥ ३३६॥
स्वररागसुधारामः स्वर्गापवर्गगानिधिः ।
स्वरार्णवगभीरज्ञः स्वरसागरपारगः ॥ ३३७॥
स्वरसुन्दरमूर्तिश्च स्वरामृतसुपायनः ।
स्वरशुद्धसुगामोदः स्वरभक्तिप्रसादनः ॥ ३३८॥
स्वरविद्याप्रसादस्थः स्वरशुद्धिप्रसादितः ।
स्वराक्षरस्वरूपश्च स्वाशुश्लोकाभिमण्डितः ॥ ३३९॥
स्वाशुकीर्तनरत्नाभास्फुरत्श्रीरामविग्रहः ।
स्वाशुश्लोकानुरागाश्रुबिन्दुस्फुरत्सुविग्रहः ॥ ३४०॥
स्वानुभूतिपरीवाहगानगङ्गाभिषिक्तसः ।
स्वानुभूतिपरीवाहश्लोकाभिषिक्तसद्गुरुः ॥ ३४१॥
हंसस्सोहँल्लयालीनो हंसगुह्यप्रकीर्तनः ।
हंसराममहाज्ञानो हंसाराममहामुनिः ॥ ३४२॥
हंसस्सोहँल्लयागीततत्त्वार्थाढ्यसुकीर्तनः ।
हर्यर्पणसुधासारमुदार्णवसुकीर्तनः ॥ ३४३॥
हरिरामसुसङ्कीर्तनानन्दमयनर्तनः ।
हरिमाधवगोविन्दनामसङ्कीर्तनालयः ॥ ३४४॥
हरिकृष्णसुगानन्दपूरिताद्भुतकीर्तनः ।
हरिध्यानमनोलीनो हरिवासनमानसः ॥ ३४५॥
हलभृद्भ्रातृसानन्दलीलासुगेयनाटकः ।
हनुमत्प्रेष्ठनामश्रीरामनाटकगायकः ॥ ३४६॥
हवरक्षकसंदर्शनाह्लादवर्षकीर्तनः ।
हस्तिरक्षकसन्नामहरिनारायणालपः ॥ ३४७॥
हास्यपूरितसाहित्यनिन्दास्तुतिरसास्पदः ।
हासफुल्लमुखाम्भोजश्रीरामचन्द्रहारितः ॥ ३४८॥
हितोपदेशसत्सारकीर्तनायुतमण्डलः ।
हितकारसदाचार्यो हीनमानसखण्डनः ॥ ३४९॥
हृष्टरोमपरादर्शो हृष्टिकारककीर्तनः ।
हेमकान्तिरमाकान्तहैमकीर्तनमण्डनः ॥ ३५०॥
हृत्पूरकृतिवागर्थो हृल्लालसासुपूरणः ।
हृदयङ्गमसत्कामो हृदयङ्गमसद्गुरुः ॥ ३५१॥
हृत्पुष्पालयदैवश्च हृत्पुष्पार्चितसत्पदः ।
हृत्पुष्पामोदवासश्च हृत्पुष्पासक्तिसारपः ॥ ३५२॥
हेमकुम्भसुहृत्पूर्णभक्तिगङ्गाभिषेचितः ।
हैमपुष्पानुरागावासितश्लोकसमर्चितः ॥ ३५३॥
अक्षराभाससत्तेजो गुरुदेवाक्षराक्षरः ।
अक्षरावाससद्भक्तिपुष्पार्चितपदाम्बुजः ॥ ३५४॥
त्यागब्रह्मगुरुस्वामी शिष्यापुष्पाश्रितानुतः ।
महापुण्यसुचारित्रो मनोव्यापकपूरणः ॥ ३५५॥
मज्जीवनसुजीवश्च मद्धृदालयदैवकः ।
मज्जीवनाढ्यकर्ता च मत्त्राणकर्तृसद्गुरुः ॥ ३५६॥
ममेष्टदैवकस्वामिन् मच्छ्वासार्चितसद्गुरो ।
मत्प्राणलीनपूतात्मन् मत्सर्वस्व नमोस्तुते ॥ ३५७॥
॥ रागपुष्पावली ॥
नमःश्रीत्यागराजाय लयरागस्वरूपिणे ।
रागावलिसुमालाय रागसन्नुतये नमः ॥ ३५८॥
रागपुष्पावलिस्मेररागावतारदैवतः ।
रागाक्षरसुवासश्च रागोपासितसद्गुरुः ॥ ३५९॥
रागमूर्तिगुरुस्वामी रागसाररसप्रियः ।
रागरागसुनेत्रश्रीसीतारामवरालयः ॥ ३६०॥
रागसारसरागश्रीरामरागगसारसः ।
रागसङ्गीतरामस्वहृत्सारसपूजनः ॥ ३६१॥
रागानुरागसन्नूतरागस्वरूपरामकः ।
रागस्वरविलोलश्च रागपुष्पार्चनामुदः ॥ ३६२॥
अठाणारागगीतश्रीरामप्रहर्षदर्शनः ।
अठाणाकर्तृरामस्वगानठाणानिबन्धनः ॥ ३६३॥
असावेरीसुरागश्रीरामस्वागतकीर्तनः ।
अमृतावर्षिणीगङ्गाच्छविलाससुकीर्तनः ॥ ३६४॥
अमृतावाहिनीगीतिस्वरसाररसासरः ।
अतिलावण्यरामातिलालित्यकृतिलालनः ॥ ३६५॥
आपूर्णललिताप्रीतदिव्यनामसुकीर्तनः ।
आनन्दभैरवीमोदरघुप्रियसुकीर्तनः ॥ ३६६॥
ईशवामस्थितागौरीप्रियनामसुगायनः ।
ईशामोदनसन्नामतारकास्पदपावनः ॥ ३६७॥
उमाभरणसद्रागश्रीरामनिजमर्मगः ।
उपचारक्रमागीतकृतिरत्नसुमञ्जुलः ॥ ३६८॥
ऋषभप्रियवाहेशबहुकीर्तनसंस्तुतिः ।
ऋषिश्रेष्ठगुरुस्वामी ऋषिपुङ्गवसद्गुरुः ॥ ३६९॥
कनकाङ्गिवरागौरीसुतश्रीगणनाथगः ।
कलिमानवतीसीताचित्तालङ्काररामगः ॥ ३७०॥
कलकण्ठिरमारामकलिवारणकीर्तनः ।
कलिपीडितसंश्रायगङ्गाकीर्तनपावनः ॥ ३७१॥
कलानिधिर्विभाकोशः कलिकल्मषहारणः ।
कमलाप्तकुलाप्तश्च कमलापतिरागगः ॥ ३७२॥
कलावतीशगौर्युक्तस्वरार्णवसुमर्मगः ।
कमलामनआनन्दहरिनामसुकीर्तनः ॥ ३७३॥
कल्कटाक्षप्रसादश्रीरामदर्शनहर्षितः ।
कलस्वरप्रसादस्थः कलवीणामृदुस्वरः ॥ ३७४॥
कल्याणीश्रीरमाकान्तकल्याणरूपवर्णनः ।
कल्याणसुन्दराकाररामचन्द्राभिनन्दनः ॥ ३७५॥
कान्तामणिरमाकान्तस्मेरसन्नामकीर्तनः ।
काममन्दारिरामप्रतापवरालिकीर्तनः ॥ ३७६॥
कापिरागसुगीतस्वक्षमाधर्मनिदर्शकः ।
कापिनारायणीरागरामचातुर्यगायकः ॥ ३७७॥
काम्भोजचरणास्रावगङ्गीभूतसुकीर्तनः ।
कानडारागसङ्गीतश्रीस्वामिगुरुनारदः ॥ ३७८॥
किरणावलिभूषाहिवंशजस्तुतिभूषणः ।
किङ्किणीघननादस्वहस्ताब्जधृतझल्लकः ॥ ३७९॥
केसरीनामदेशीयगङ्गासारसुकीर्तनः ।
केशवासङ्गसङ्गीतनामप्रवाहगासरः ॥ ३८०॥
कैकावशीकरस्वादुपुष्कलामृतकीर्तनः १२ ।
कैरवीलास्यसामोदसमुद्रकृतिजालकः ॥ ३८१॥
कोकिलध्वनिमाधुर्यश्रुतिलीनघनस्वनः ।
कोदण्डराममाधुर्यभाषणास्वादुगायनः ॥ ३८२॥
कोकिलारवमञ्जिष्ठस्वरगीतरमापतिः ।
कोकिलारामगानस्वरामजिङ्गलसन्नुतिः ॥ ३८३॥
क्षित्यवतीर्णरामस्वकृतिनित्योत्सवारमः ।
क्षितिजारमणास्वादुगादेवामृतवर्षणीः ॥ ३८४॥
क्षीराब्धिदेवगांधारी क्षीरान्ननुनिवेदनः ।
क्षीराब्धिकन्यकारामरागक्षीराब्धिशायनः ॥ ३८५॥
खरहारप्रियारामबहुकीर्तनसंरमः ।
खंददाच्युतसन्नामसङ्कुलागानसारमः ॥ ३८६॥
गङ्गाहमीरकल्याणीधरावतरनादगः ।
गम्भीरनाटगीतश्रीरमणीमणिमाधवः ॥ ३८७॥
गमनाश्रमवाहश्रीरामसद्गानगङ्गिकः ।
गम्भीरवाणिसन्नादस्वररागसुधाकृतिः ॥ ३८८॥
गाकोकिलवरालीननादतन्मयचिन्तनः ।
गाबिन्दुमालिनीरागदेवतानर्तनालयः ॥ ३८९॥
गाङ्गेयभूषणीसीतासरामस्वगभूषणः ।
गानगाङ्गेयभूषश्रीरामेष्टदैवशोभनः ॥ ३९०॥
गानमूर्तियदुश्रेष्ठसम्प्लावगानवारिधिः ।
गान्धर्वगानसंवेगवाहिनीसुरनिम्नगः ॥ ३९१॥
गानागनन्दिनीगौरीप्राणेशनन्दनस्वनः ।
गाननागवरालीननामतारकमन्त्रतः ॥ ३९२॥
गानगङ्गासुकंनाटरागलासलयच्छविः ।
गारागनवरसकंनटश्रीरामहारकः ॥ ३९३॥
गावाणीरेवगुप्तिस्वभक्तिप्रवाहसङ्गमः ।
गानपरस्फुटामोदनामकीर्तनपुष्पकः ॥ ३९४॥
गिरिनन्दिनिसंतोषकीरवाणीसुनामगः ।
गिरिजारमणप्रीतनामतारकगाव्रतः ॥ ३९५॥
गीतार्थभावपुष्टिज्ञहनुमत्प्रेष्ठगीतिकः ।
गीतोपनिषदावर्षकृतिगङ्गासुधासरिः ॥ ३९६॥
गुणातीतवरालीनगुरुसत्त्वगुणास्पदः ।
गुर्जरीकृतिसद्भक्तिवैराग्यघनगायनः ॥ ३९७॥
गूढोत्मध्यानसंस्रावधारासारसुकीर्तनः ।
गूढनादरहस्योपदेशस्वरागगीतिकः ॥ ३९८॥
गेयगाङ्गेयगङ्गश्च गेयरामनिदर्शकः ।
गेयगंभीरनाटश्रीरागच्छविलयध्वनिः ॥ ३९९॥
गैरिकीगङ्गिकावाहपूर्णानन्दसुगेयतः ।
गोविन्दनामसङ्कीर्तनानन्दरागसँल्लयः ॥ ४००॥
गौलसञ्चारनारायणाप्तनामलसत्कृतिः ।
गौरीनाथशिवारामरामनामलसत्कृतिः ॥ ४०१॥
चन्द्रसूर्यसुनेत्रश्रीरामरक्षणमन्त्रगः ।
चन्द्रज्योतिर्लसत्सीतातेजोरूपाभिवन्दनः ॥ ४०२॥
चारुकेशीहरिप्रीतासीताश्रीमणिवन्दनः ।
चारुसङ्गीतनैत्यश्रीसीतारामाभिनन्दनः ॥ ४०३॥
छायातरङ्गिणीगङ्गारागलास्यसुकीर्तनः ।
छायागङ्गासुनामस्वशिष्यागृहातिदैवतः ॥ ४०४॥
छायानाटसुकन्नाटच्छविगङ्गासुकीर्तनः ।
छायावृतशुभाकाररामदर्शनभाषणः ॥ ४०५॥
जयनारायणीरामरामनामसुकूजनः ।
जयामनोहरीसीताजानीसुप्राणवल्लभः ॥ ४०६॥
जयरामजयागेयजनरञ्जनिरञ्जनः ।
जयन्तश्रीवरारम्यकीर्तनोपासनायुतः ॥ ४०७॥
जीवन्तिनीसुरागश्रीरामदैवपरत्वगः ।
जीवहेमवतीगङ्गासमानशुभकीर्तनः ॥ ४०८॥
झङ्कारध्वनिगाम्भीर्यरामबाणप्रशंसकः ।
झञ्जूतिप्रवहानादसारासारसुकीर्तनः ॥ ४०९॥
ज्ञानारिबहुदारिश्रीरामभक्तिप्रचोदनः ।
ज्ञानसद्भक्तिसङ्गीतसन्मार्गदर्शकोत्तमः ॥ ४१०॥
ज्ञानसद्बोधश्रीकृष्णगीतासारसुकीर्तनः ।
ज्ञानकेदारसंस्रावभक्तिसङ्गीतगङ्गिकः ॥ ४११॥
तोडीरागसुसङ्गीतप्रागुषोगानसद्विधिः ।
तोडीकीर्तनसालापहरिपूजनसत्कृतिः ॥ ४१२॥
दर्भारिसूदनास्त्रश्रीरामशौर्यगविस्मयः ।
दमनाद्भुतशौर्यश्रीरामसद्गुणगायनः ॥ ४१३॥
दीपकारतिसद्गानसुरतिश्यामनन्दनः ।
दीप्रसुज्ञानतेजस्वी दीपज्योतिस्स्फुरत्स्मितः ॥ ४१४॥
दुन्दुभीतरवाद्यौघसन्नादवेदसद्घोष-
-सप्तस्थानोत्सवामिष्टपृथुकीर्तनवर्णनः ॥ ४१५॥
देवगान्धारिरागश्रीक्षीरसागरशायनः ।
देवगान्धर्वसङ्गीतसर्वलोकवशीकरः ॥ ४१६॥
धनुर्जयन्तसेनापश्रीरामचन्द्रमोहितः ।
धरागतनरोद्धाररामचारित्रगाव्रतः ॥ ४१७॥
धन्यासीताकलत्रश्रीरामनामसहस्रगः ।
धन्यभङ्गालरामस्वनादोपासनपूजनः ॥ ४१८॥
धेनुकागीतिसंखण्डितानैजभक्तिमार्गगः ।
धेयनामसहस्रश्रीरामपादाभिषेचनः ॥ ४१९॥
नरदेवक्रियायोगवरिवस्यितरामगः ।
नरदेवमनोहारिसुरगङ्गासुगाक्रमः ॥ ४२०॥
नरदेवमनोहारिश्रीरामशौर्यवर्णनः ।
नव्यसत्कृतिसन्नूतसीतामङ्गलकैशिकी ॥ ४२१॥
नाटसत्कीर्तनागीतजगदानन्दकारकः ।
नाटरागलयालास्यकीर्तनोत्सवहारकः ॥ ४२२॥
नादचिन्तामणिस्वामी नामसद्गानवारिधिः ।
नारायणीप्रियभ्रातृश्रीरामनामसत्कृतिः ॥ ४२३॥
नादनामक्रियायोगवरिवस्यादिनाचरः ।
नादस्वरलयालीनरामतन्मयचिन्तनः ॥ ४२४॥
नादप्रणवगुप्तार्थचेञ्चुकाम्भोजिसूचनः ।
नादलोलहरिस्वादुनामकीर्तननन्दनः ॥ ४२५॥
नादरहस्यमर्मस्वचेञ्चुकाम्भोजिगीतिगः ।
नादसुस्वरसानन्दनवनीतनिवेदनः ॥ ४२६॥
नादतृष्णापहश्रीशनामसङ्कीर्तनालयः ।
नादतनूशिवानूतिचित्तरञ्जनिकीर्तनः ॥ ४२७॥
नादवराङ्गिणीगौरीमनोहरीष्टनामगः ।
नादनाटकुरञ्जीशमनोहारिसुगीतिकः ॥ ४२८॥
नादाद्रिसुप्रदीपश्च नामदिव्यमणिस्फुरः ।
नामगामार्गहिन्दोललालिताहीशशायनः ॥ ४२९॥
नानारागसुकृत्यौघसुज्ञानफलमञ्जरिः ।
नारायणसुनामौघसद्गानरसमञ्जरिः ॥ ४३०॥
नारायणीशसामोदजप्ततारकनामगः ।
नागस्वरावलीभूषसालङ्कृतरमापतिः ॥ ४३१॥
नासिकाभूषणीगौरीधर्मसंवर्धनीस्तुतिः ।
नामनारायणीगौरीमञ्जुलस्वरगाकृतिः ॥ ४३२॥
निगृहीतग्रहबलरामानुग्रहबलगः ।
निजभक्तिहरिध्यानरेवगुप्तिसुरागगः ॥ ४३३॥
नित्याचारसुसङ्गीतपूज्यजयमनोहरिः ।
नित्यानन्दप्रदश्रीपहुसेनीरागगारतिः ॥ ४३४॥
नीलाम्बरीसुगालापस्वापितश्रीरघूत्तमः ।
नीरदश्यामगात्रश्रीरामलालनगारमः ॥ ४३५॥
पदलालित्यसन्नाटकुरञ्जितसुधाकृतिः ।
परनाटकश्रीरामकथासारगसत्कृतिः ॥ ४३६॥
परमात्मलयोन्नादहंसभ्रमरिपावनः ।
पररामसुधागानमञ्जुगुञ्जनगङ्गिकः ॥ ४३७॥
पुष्पावर्षितरामस्वाहिरीकीर्तनवर्णनः ।
पुराणपुरुषश्रीपस्वरावलिसुभूषणः ॥ ४३८॥
पूर्णषड्जक्रमाधारश्रुतिलीनसुनादगः ।
पूषवंशसुभूषस्वकृतिभूषणनन्दनः ॥ ४३९॥
प्रयागयमुनाकल्याणीगङ्गासङ्गमालय- ।
-रागसद्भक्तिसङ्गीतज्ञानवाणीसुकीर्तनः ॥ ४४०॥
प्रागुषोरामसीतास्वभौलीगीतप्रबोधनः ।
प्रागुषोनित्यवीणासगीतोपासितसद्गुरुः ॥ ४४१॥
प्रासानुप्राससंभासडक्करागसुकीर्तनः ।
प्राञ्जलिप्रार्थितश्रीपभक्तिभिक्षावरस्वगः ॥ ४४२॥
फणितल्परमाराममाधुर्यतमगायनः ।
फेनद्युतिसुनामोर्मिदिव्यकीर्तनसागरः ॥ ४४३॥
ब्रह्मैक्यतत्त्वसद्दर्शगरुडध्वनिगीतिकः ।
ब्रह्माशङ्करसन्नूततारकारामनामगः ॥ ४४४॥
भवप्रियाप्रियारामरामनामसुकीर्तनः ।
भजनारामहिन्दोलवसन्तारम्यकीर्तनः ॥ ४४५॥
भिन्नषड्जकृतिस्फोटभिन्नमानसवेदनः ।
भिषज्यसुस्वरारोग्यदायसङ्गीतयोगगः ॥ ४४६॥
भूजापनामप्रत्यूषभूपालरागकूजनः ।
भूपालवन्द्यरामस्वस्वादुगानाभिवन्दनः ॥ ४४७॥
भैरवीरागसत्कीर्तनानन्दसारवर्णकः १३ ।
भैरवीकीर्तनामोदरामशृङ्गारगायकः १४ ॥ ४४८॥
भैरवारामसामोदनामपुष्पार्चिताच्युतः ।
भैषज्यनामसङ्कीर्तनोपदेशनसद्गुरुः ॥ ४४९॥
भौलीप्रत्यूषगानश्रीरामजागरघाण्टिकः ।
भौलीरागनुतागीतदशावताररामकः ॥ ४५०॥
मदमात्सर्यविच्छेतृगगौलीपन्तुकीर्तनः ।
मनस्स्वाधीनसुज्ञानतत्त्वावबोधगानखः ॥ ४५१॥
मनोबिलहरिस्वादुनामगानार्चनारतः ।
मनोनभोमणिज्योतिःश्रीरामचन्द्रवन्दनः ॥ ४५२॥
मालवश्रीवरालापपञ्चापगेशगायनः ।
मायामालवगौलश्रीरामधीरप्रकीर्तनः ॥ ४५३॥
मातृश्रीरञ्जनीसिंहवाहिनीरतगानतः ।
मानवेन्द्रावतारश्रीमणिलोलसुनामगः ॥ ४५४॥
माररञ्जनिगीतस्वमनःपक्वनिदर्शनः ।
मागङ्गातीव्रवाहिनीपूर्णप्रवाहकीर्तनः ॥ ४५५॥
मोहनद्युतिशोभश्रीराममोहनमोहितः ।
मोहनालास्यरागश्रीराममोहनकीर्तनः ॥ ४५६॥
रमामनोहरीसीतासुगुणानन्दगायनः ।
रघुरामगुणारामचक्रवाकसुकीर्तनः ॥ ४५७॥
रसालीकविमाधुर्यभक्तिकीर्तनपुष्पकः ।
रञ्जनीरागसत्कीर्तनान्तर्गलनमार्दवः ॥ ४५८॥
रागरत्नसुमालश्रीरामकीर्तनलालनः ।
रामनामरसापानमत्ताह्लादसुकीर्तनः ॥ ४५९॥
रागसारमतिद्योतमोक्षदामृतकीर्तनः ।
रागबेगडसङ्गीतनादोपासनमाहिनः ॥ ४६०॥
रागानुरागसङ्गीतरामास्यपूर्णचन्द्रिकः ।
रागस्वरयुतश्रीपरागस्वरार्चनायुतः ॥ ४६१॥
रामकीर्तनमाधुर्यजनरञ्जनिरञ्जनः ।
रामनामरसालीनसमाधिस्थमहामुनिः ॥ ४६२॥
रामचन्द्रकलत्रश्रीरत्नाङ्गिभूषसुस्वरः ।
रामसद्भक्तिदुग्धार्णोनवनीतसुगाऽमृतः ॥ ४६३॥
रागताललयारामनामपुष्कलसङ्गतिः ।
रागपञ्जरकीरश्चकीरवाणीसुखश्रुतिः ॥ ४६४॥
रामसर्वस्वपूर्वीकल्याणीकीर्तनरागगः ।
रागसर्वस्वकृत्यौघसारङ्गमञ्जुचित्रकः ॥ ४६५॥
लताङ्गिपृथिवीपुत्रीजानकीपृथुगायनः ।
ललिताभैरवारामरामनामरसालयः ॥ ४६६॥
वकुलाभरणापुण्यगङ्गाकीर्तनपावनः ।
वनजाक्षकटाक्षस्वपुण्यसत्फलगायनः ॥ ४६७॥
वनमालिस्वनैजानुरागान्दालीगसत्कृतिः ।
वरनारायणागौललीलावैचित्र्यसन्नुतिः ॥ ४६८॥
वनस्पतिहरिस्मेरवनदिव्यसुकीर्तनः ।
वरवीणास्वरामिष्टमृदुसुस्वरगायनः ॥ ४६९॥
वरमारुवधन्यासीकीर्तितामृदुभाषणः ।
वरमावरसद्गानजूजाहूलीसुकीर्तनः ॥ ४७०॥
वसन्तभैरवीमिष्टाभिरोरुदसुकीर्तनः ।
वसन्तकैरवीलास्यसामोदनामकीर्तनः ॥ ४७१॥
वाचस्पतिस्वराराममधुगानाभिवर्षणः ।
वाचामगोचरश्रीपस्ववागमृतसिञ्चनः ॥ ४७२॥
वाणीगम्भीरनाटश्रीपनानारागगायनः ।
वाचामगोचरानन्दगोविन्दनामकीर्तनः ॥ ४७३॥
विजयश्रीवरानन्दवरनारदकीर्तनः ।
विनतासुतवाहश्रीरमणार्चनकीर्तनः ॥ ४७४॥
वीणाभेरीसुनादश्रीसप्तस्थानोत्सवाशुगः ।
वीराभोगीन्द्रशायिश्रीरमाकान्तसुनामगः ॥ ४७५॥
शङ्कराभरणापूतगङ्गासारसुकीर्तनः ।
शङ्करप्रियसन्नाममाहात्म्यस्वादुगायनः ॥ ४७६॥
शान्तसौख्यमनःपक्वसामरागसुगीतगः ।
शान्तसन्ध्यासुवेलाभागुञ्जरीमञ्जुगीतिगः ॥ ४७७॥
शुद्धभङ्गालरागस्वभक्तिसङ्गीतज्ञानगः ।
शुद्धदेशीयखापोगङ्गीभूतपूतकीर्तनः ॥ ४७८॥
शुभपन्तुवरालीगनुतश्रीरामसद्गुणः ।
शुद्धसत्त्वप्रकाशश्रीरामनीराजनारतः ॥ ४७९॥
शुद्धसीमन्तिनीसीतासराममोददर्शनः ।
शुद्धस्वरावलीभूषरामसङ्गीतवर्णनः ॥ ४८०॥
श्रीकान्तस्वान्तसिद्धान्तशुद्धधन्यासिगायनः ।
श्रीरामलक्षणागानशुद्धसावेरिकीर्तनः ॥ ४८१॥
श्रीगौरीशमनोहारितारकास्पदकीर्तनः ।
श्रीराघवमनोहारिदिव्यनामगपावनः ॥ ४८२॥
श्रीदवीरवसन्ताभश्रीरामरूपमोदितः ।
श्रीरामसोदरीगौरीप्रियनामसहस्रगः ॥ ४८३॥
श्रीपतिस्वमनोगानकृतिनागस्वरावलिः ।
श्रीपप्रियस्वसङ्गीतस्वरोपासनसन्मतिः ॥ ४८४॥
श्रीरागगानसानन्दलक्ष्मीरमणकीर्तनः ।
श्रीपगामञ्जरीफुल्लनामपुष्पमधुद्रवः ॥ ४८५॥
श्रीपराघवसिंहेन्द्रमध्यमाशुकृतिस्तवः ।
श्रीरामनवरोचस्वभक्तिभावसुलालनः ॥ ४८६॥
श्रीरामबलहंसस्वादुपेयूषगपायनः ।
श्रीशसानन्दसङ्गीतसद्गङ्गास्नानपायनः ॥ ४८७॥
श्रीरामपादसंसेचनामृतावाहिनीकृतिः ।
श्रीराघवसुपुन्नागवरालीकृतिवन्दनः ॥ ४८८॥
श्रीरामरम्यवासस्वक्षेत्रमञ्जुलवर्णनः ।
श्रीवाणीनर्तनाह्लादमुखारीरागकीर्तनः १५ ॥ ४८९॥
श्रीरामसहजागानघुण्टक्रियसुकीर्तनः ।
श्रीरामभजनारम्यसद्गामलयमारुतः ॥ ४९०॥
श्रीरामान्दोलिकागानसुधारागरसाकृतिः ।
श्रीपदोलोत्सवागीतहिन्दोललालनाशुगः ॥ ४९१॥
श्रीवृन्दावनसारङ्गकृष्णलीलारसामुदः ।
श्रीगङ्गारीतिगौलश्रीनारायणनुकीर्तनः ॥ ४९२॥
श्रीरामनादसुधाकृत्यभिषेचनकीर्तनः ।
श्रीवरालीनसद्भक्तिसङ्गीतालीनशिष्यकः ॥ ४९३॥
षड्विधमार्गिणीशानस्वकृत्यमृतगायनः ।
षड्जाधारश्रुतिस्वादुनामकीर्तनसारमः ॥ ४९४॥
षण्मुखप्रियसङ्गीतषड्जाधारश्रुतिसृतिः ।
षड्जाधारसुसङ्गीतसुनेत्ररविचन्द्रिकः ॥ ४९५॥
सङ्गीतनायकीपूर्णवाससत्कृतिमण्डलः ।
सङ्गीतसुस्वरालीनतेजोरूपसुविग्रहः ॥ ४९६॥
संसारभीतिसंवाहसद्गङ्गाप्लुतिकीर्तनः ।
सङ्गीतयदुकुलकाम्भोजपादाब्जमाहिनः ॥ ४९७॥
सच्चित्तशायिपादाब्जसद्गङ्गापूतकीर्तनः ।
सच्चितरञ्जनीगङ्गापावित्र्यकृतिरञ्जनः ॥ ४९८॥
सत्कामवर्धनीगङ्गास्नानपानसुकीर्तनः ।
सज्ज्ञानवर्धनीगङ्गाभक्तिप्रवाहकीर्तनः ॥ ४९९॥
सद्भक्तितत्त्वसद्गानरागसालगभैरविः ।
सत्त्वसङ्गीतलोलश्रीरामसद्भक्तिसत्कृतिः ॥ ५००॥
सत्त्वकीर्तनसत्सारकमलाश्रीमनोहरिः ।
सत्त्वगुण्यगुरुस्वामी सत्त्वगङ्गासुगासरिः ॥ ५०१॥
सद्भक्तिभजनानन्दविवर्धनीसुसत्कृतिः ।
सद्भक्तजनमन्दारिश्रीरामभालसत्कृतिः ॥ ५०२॥
सप्रतापवरालीनस्वानुभूतिपरीवहः ।
सङ्गीतयमुनाकल्याणीगङ्गाभक्तिसङ्गमः ॥ ५०३॥
सप्तस्वरजगन्मोहिनीरागगानशोभनः ।
सरामशरनैपुण्यनुकुन्तलवरालिगः ॥ ५०४॥
सरसङ्गतिवाग्वर्षः सरस्वतीकृपालयः ।
सरस्वतीसुनृत्यस्वसंस्कृताद्भुतकीर्तनः ॥ ५०५॥
सरस्वतीमनोहारिसरसामृतवाहगः ।
सरसामृतवर्षस्वगानराममनोहरः ॥ ५०६॥
सरस्वतीमनोहरिसनातननुतिस्तुतिः ।
सत्त्वसुज्ञानसंपुष्टिवाग्रागरससत्कृतिः ॥ ५०७॥
सहानारायणीरामदिव्यनामसुकीर्तनः ।
सहानारागसङ्गीतगिरिदर्शितरामकः ॥ ५०८॥
सानन्दनटभैरवीशिवारामसुनामगः ।
सामादिनिगमाचाररामब्रह्मसुकीर्तनः ॥ ५०९॥
सावेरीरागसन्नूतकावेरीतीरदैवतः ।
सारामराममारामनामसारसुगारतः ॥ ५१०॥
सारङ्गस्वरसद्गेयस्सारङ्गरागरञ्जनः ।
सारङ्गरागगावीचिसुस्वरानन्दसागरः ॥ ५११॥
सिद्धसेनावृतश्रीपगानमूर्तिसुपूजनः ।
सिन्धुरामक्रियापूजसदाशिववरानुतिः ॥ ५१२॥
सिंहवाहिनिसत्सङ्गशिवारामसुनामगः ।
सिंहेन्द्रमध्यमस्वैकशरणागतिगायकः ॥ ५१३॥
सीतानलिनकान्तिश्रीरामलावण्यदर्शकः ।
सीतानुजसमेतश्रीरामपट्टाभिषेकगः ॥ ५१४॥
सीतामनोहरीलक्ष्मीचित्तारामसुगायनः ।
सीतावराप्तसङ्गीतनामपुष्पार्चनायुतः ॥ ५१५॥
सीतारामकमास्मेरदिव्यनामसुकीर्तनः ।
सीतारामप्रियामोदभजनानन्दकीर्तनः ॥ ५१६॥
सीताश्रीमणिरङ्गस्फुरत्पार्श्वहरिकीर्तनः ।
सीतासुमुखचन्द्रज्योतीरसापहरिस्मरः ॥ ५१७॥
सुकल्याणवसन्ताभास्मेरसद्रससत्कृतिः ।
सुरापगावसन्ताभास्मितकीर्तनसच्छविः ॥ ५१८॥
सुचारुकेशिनीसीतासरामगापरायणः ।
सुस्वरालङ्कृतश्रीपस्सुरागस्वरसालयः ॥ ५१९॥
सुमनोरञ्जनीसीतामाप्ताप्तस्वादुकीर्तनः ।
सुरवन्दितरामस्वस्वररागसुपूजनः ॥ ५२०॥
सुरागनवरसकंनटलालित्यकीर्तनः ।
सुजनाजीवनारामरामगङ्गासुगुर्जरिः ॥ ५२१॥
सुपुन्नागवरालीगारामानुरागरागगः ।
सुगीतनागगांधारिरामरामसुनामगः ॥ ५२२॥
सुवागधीश्वरीवाणीपूर्णप्रसन्नकीर्तनः ।
सुपोषिणीनभस्तीर्थगङ्गाशैलीसुकीर्तनः ॥ ५२३॥
सुस्वराभूषणीसीतारामस्वस्वरभूषणः ।
सुस्वरानन्ददायश्रीरामभाषणमिष्टगः ॥ ५२४॥
सूर्यकान्तसुवंशश्रीरामनाटकगायकः ।
सूर्यचन्द्रसुनेत्रश्रीरामनामरसार्णवः ॥ ५२५॥
सौन्दर्यनायकीसीतारामस्वगानरञ्जनः ।
सौभाग्यधेनुकाभूतसारम्यकृतिरत्नकः ॥ ५२६॥
सौराष्ट्रधनसद्गीतिः सौमङ्गलावहानुतिः ।
सौवीररामभक्त्युत्थज्ञानवैराग्यसत्कृतिः ॥ ५२७॥
स्वरभूषावलीमण्डितस्वेष्टदैवरामकः ।
स्वरसप्तसुखालापरागस्वरूपतन्मयः ॥ ५२८॥
स्वरकोलाहलारावध्वनिकीर्तनसङ्गतिः ।
स्वरसागरशायिश्रीमालविकाशसत्कृतिः ॥ ५२९॥
हंसध्वनिसुरागश्रीरामपट्टाभिषेकगः ।
हंसरामसुपादस्वशरणागतितत्त्वगः १६ ॥ ५३०॥
हंसानन्दियतिश्रेष्ठो हंसात्मानुभवालयः ।
हंसनादसुरागस्वरामसेवाप्रकीर्तनः ॥ ५३१॥
हंसभ्रमरिकावेलहंसरामसुगानतः ।
हंसतूलिकशायिश्रीरामस्वगानलालनः ॥ ५३२॥
हरिकाम्भोजसत्पादसद्भक्तिरसकीर्तनः ।
हरिकाम्भोजपादस्वगानगङ्गाभिषेचनः ॥ ५३३॥
हरिकेदारगौलश्रीलक्ष्मीनारायणस्तुतिः ।
हरिनामसुतीर्थाभिषिक्तश्रीपवराकृतिः ॥ ५३४॥
हाटकाम्बरिलक्ष्मीसनारायणनमस्कृतिः ।
हास्यरसानुविद्धश्रीसीतानायकसंस्तुतिः ॥ ५३५॥
हिन्दोलसुवसन्ताभाकृष्णलीलारसानुतिः ।
हिन्दोलकवितालालितश्रीकृष्णस्वराकृतिः ॥ ५३६॥
सुमध्यमावतीसीतागुणसात्त्विकवर्णनः ।
सुमङ्गलप्रदानन्दरामसीतासुगायनः ॥ ५३७॥
सुमध्यमावतीरागरामगानप्रचोदनः ।
सुमङ्गलप्रदानन्दरामसेवनचोदनः ॥ ५३८॥
मङ्गलं त्यागराजाय रागराजाय मङ्गलम् ।
मङ्गलं रागदैवाय गुरुनाथाय मङ्गलम् ॥ ५३९॥
रागमूर्ते गुरुस्वामिन् रागावलि तवार्पणम् ।
बालालापमिदं स्तोत्रं स्वीकुरुष्व दयानिधे ॥ ५४०॥
त्यागराजगुरुस्वामी सहस्रश्लोकमण्डितः ।
शिष्यापुष्पासुरागेण कृतस्तोत्राभिपूजितः ॥ ५४१॥
एतत्स्तोत्रं सुसम्पूर्णं त्यागब्रह्मसहस्रकम् ।
पञ्चमीपुष्यबाहुल्यकृतारम्भं गुरुप्रियम् ॥ ५४२॥
गुरुदेवसुचारित्रदिव्यसङ्गीतवर्णनम् ।
गुरुप्रेरणसङ्गीतं गुरुदेवपदार्पणम् ॥ ५४३॥
कृताञ्जल्यश्रुपूर्णाक्षशिष्यापुष्पासमर्पितम् ।
त्यागराजगुरुस्वामिपूर्णानुग्रहकारकम् ॥ ५४४॥
गुरुस्फूर्तिस्फुटस्तोत्रं गुरुसम्पूर्णवासनम् ।
मननं गायनं भक्त्या शुभधेयं सुमङ्गलम् ॥ ५४५॥
मयेति कीर्तितस्वामिन् तवास्त्येतत्सहस्रकम् ।
न जानामि क्वचिल्लेखां त्वयैव रचितं शुभम् ॥ ५४६॥
मदाश्रयसदाचार्य देहि मे तव दर्शनम् ।
मदन्तःसततावास अग्रयागच्छ मद्गुरो ॥ ५४७॥
देवगान्धर्वगानं ते श्रोतुमिच्छामि मत्प्रभो ।
रागभक्तिलयज्ञानभिक्षां देहि मम प्रभो ॥ ५४८॥
रागानुरागसद्गानपूजावरं प्रदेहि मे ।
नादोपासनभाग्यं च कुरु मे कर्ममोचनम् ॥ ५४९॥
त्वां विना मे गतिर्नास्ति रक्ष माम् शरणागताम् ।
ममापराधसञ्चायं सर्वं क्षमस्व मद्गुरो ॥ ५५०॥
मत्सर्वस्व गुरुस्वामिन् तवास्म्यहं तवास्म्यहम् ।
सदाध्यातमदाचार्य त्वयि लीनं कुरु प्रभो ॥ ५५१॥
मङ्गलं ते मदाचार्य मङ्गलं मार्गदर्शक ।
मङ्गलं मम सर्वस्व मङ्गलं मङ्गलप्रभो ॥ ५५२॥
मङ्गलं त्यागराजाय मङ्गलं नादयोगिने ।
मङ्गलं रामगेयाय मङ्गलं सर्वसिद्धये ॥ ५५३॥
शरणागतरक्षाय सर्वमङ्गलदायिने ।
अनन्यभाक्सवासाय सीतारामाय मङ्गलम् ॥ ५५४॥
मङ्गलं रागरूपाय त्यागराजार्चिताय च ।
मङ्गलं नादलोलाय सीतारामाय मङ्गलम् ॥ ५५५॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
सद्गुरुश्रीत्यागब्रह्मसहस्रकं गुरुचरणयुगले समर्पितम् ।
ॐ शुभमस्तु ।
footnotes with (shloka number)
1 (८) सदालीनो सत् + आलीनो always one with Rama Brahmam
2 (८) रामकृष्णानन्दा who gave Him Ramamantropadesam
3 (२१) The One for whom these thoughts are the offerred flowers
4 (४९) the Himalayan Ganga
5 (४९) leading to singular Bliss
6 (६४) BahuvrihiH सः अच्युत
7 (६८) Bahuvrihi
8 (७७) ref. to नौकाचरित्रम्
9 (८५) यस्य सङ्गीतं वल्लुरम् सः
10 (११९) ref. to Sadguru Saranagati Stotram and
Gurvashtakam in Trotaka meter by author
11 (१८३) नाजीवाधार
12 (३८१) कः + एकः आसमन्तात् शीकरः or कः एका His one consort
13 (४४८) आनन्दमानन्द
14 (४४८) चेतुलार
15 (४८९) मुरिपेमु
16 (५३०) रघुनायक
Copyright Pushpa Srivatsan
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):