अक्षर आकार:

तोटकस्तोत्रम्

Totakastotram

तोटकस्तोत्रम्

श्रीजगद्गुरु श‍ृङ्गेरी श्रीचन्द्रशेखरभारतीस्वामि अनुगृहीता स्मितनिर्जितकुन्दसुमं ह्यसमं मुखधूतसुधांशुमदं शमदम् । सुखरूपपरात्मरतं निरतं श्रितकल्पतरुं प्रणमामि गुरुम् ॥ १॥ जलबुद्बुदवत् क्षणभङ्गयुते मलमूत्रवसाहिते वपुषि । कुरुतेऽभिमतिं हृदयं हि मुधा लघु वारय देशिक तां दयया ॥ २॥ धृतदण्डकमण्डलुजापसरं सततं हृदये शशिखण्डधरम् । दधतं नमतां वृजिनौघहरं ददतं प्रतिभां प्रणमामि गुरुम् ॥ ३॥ करणानि समानि भवन्ति कदा तरणं नु कथं भववारिनिधेः । शरणं मम नास्ति गुरो त्वदृते निरुपाधिकृपाजलधेऽव जवात् ॥ ४॥ चरितं न मयेषदपीह शुभं भरितं जठरं बहुधाऽघचयात् । छुरितं हृदयं नितरां तमसा त्वरितं विमलं तनु तद्गुरुराट् ॥ ५॥ गलितेऽपघने पलितेऽपि शिर- स्यलितं मम देशिक नैव हृदा । तव पादपयोजयुगे नु कदा निरतं निरतं प्रलभेत मुदम् ॥ ६॥ शरीरपोषणार्थी सन् य आत्मानं दिदृक्षते । ग्राहं दारुधिया धृत्वा नदीं तर्तुं स इच्छति ॥ ७॥ करुणार्द्रविलोचन मोचय मां भवबन्धनतो बहुधा व्यथितम् । क्वथितं प्रतिघादिकृशानुवशात् करुणारससेचनतोऽव गुरो ॥ ७॥ शिव एव भवानिति मे धिषणा ह्युदपद्यत देशिक चेन्न तथा । सकलं जगदप्यवबुध्यति ते समतां सकलेष्वपि तत्तु कथम् ॥ ८॥ विषयेषु सदा रमते हृदयं विषतुल्यधियं दिश तत्र गुरो । लषितत्वदपाङ्गझरी प्रसरत्व- चिरान्मयि बन्धविनाशकरी ॥ ९॥ सदसन्मतिरेव न मेऽस्ति गुरो विरतिं प्रति सा करणं गदिता । विरतिः क्व नु मे विषयाशहृदः कथमाप्नुव एव विमुक्तिपथम् ॥ १०॥ ब्रुवते निगमा बहुवारमिदं जगदभ्रतलादिसदृक्षमिति । मम तादृशधीः समुदेति कदा वद देशिक मेऽङ्घ्रिजुषे कृपया ॥ ११॥ जननी जनकः सुतदारमुखाः स्वहिताय लषन्ति सदा मनुजम् । गुरुरेव लषत्यखिलस्य हितं तदहं तव पादयुगं श्रितवान् ॥ १२॥ मदमोहमुखान्तरशत्रुगृहं दमशान्तिविरक्तिसुहृद्रहितम् । कथमेनमवेर्भवसागरतः किमसाध्यमिदं वद देशिक ते ॥ १३॥ धुनुषेऽघचयं पदनन्तृनृणां तनुषे भविकं सकृदीक्षणतः । जनुषे सदसच्च यथा न भवेन् मम कर्म तथा कुरु देशिकराट् ॥ १४॥ समवाप्य सुदुर्लभविप्रजनु- र्यतितामपि को नु जनो मदृते । व्यवहारवशत्वमुपैति गुरो गतिरेव न मे तव पादमृते ॥ १५॥ उददीधर एव बहून्मनुजान् कृपया भवसागरमध्यगतान् । किमयं तव भारती लोकगुरो न हि भूभृदहेरणुरस्ति भरः ॥ १६॥ दमुना यमुनाजनकश्च विधु- र्मिलिताः शतशोऽपि न शक्नुवते । यदपाकरणे तदचित्तिमिरं त्वमपाकुरुषे वचसैव गुरो ॥ १७॥ गुरुशङ्करनिर्मितभाष्यसुधा सरिदीशनिमज्जनतृप्तमिमम् । प्रविधाय गुरो भववारिनिधे- र्लघु तारय मां करुणार्द्रदृशा ॥ १८॥ पदनम्रजनौघपुमर्थकरी प्रबलाघसमुद्रनिमग्नतरी । मयि देशिक ते श्रुतिमूर्धचरी प्रसरेन्नु कदा सुकटाक्षझरी ॥ १९॥ बहुजन्मशतार्जितपुण्यवशाद् भवदीयदया समवापि मया । भवबन्धनतो न बिभेमि गुरो करणीयमपीह न मेऽस्त्यपरम् ॥ २०॥ स्वरेवऽघगिरेर्भजतां दिविषत् तरवे प्रतिभाजितगोगुरवे । पुरवैरिपदाब्जनिविष्टहृदे करवै प्रणतिं जगतीगुरवे ॥ २१॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता तोटकस्तोत्रं सम्पूर्णम् ।