अक्षर आकार:

श्रीतारानन्दगुर्वष्टकम्

Shri Tarananda Gurvashtakam

श्रीतारानन्दगुर्वष्टकम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ श्रीतारानन्दगुर्वष्टकम् । गङ्गातीरसुवासं तं गङ्गालीनतपस्विनम् । श्रीदयानन्दशिष्यार्यं तारानन्दगुरुं भजे ॥ १॥ ब्रह्मसूत्रप्रबोधं तं ब्रह्मत्वतत्त्वबोधकम् । ब्रह्मप्रकाशरूपं तं तारानन्दगुरुं भजे ॥ २॥ ब्रह्मविद्यासुबोधं तं तारकज्ञानमार्गिणम् । ब्रह्मज्ञानस्वलीनं तं तारानन्दगुरुं भजे ॥ ३॥ ब्रह्मनिष्ठापरं शान्तं संयतं यतभाषिणम् । ब्रह्मलीनं तपस्तीर्थं तारानन्दगुरुं भजे ॥ ४॥ एकान्तं एकसद्ध्यानं एकान्तध्यानसुव्रतम् । एकवस्तुसदालीनं तारानन्दगुरुं भजे ॥ ५॥ मातृप्रेमपरीवाहं बुभुक्षाहरमातरम् । आत्मतृष्णाप्रशामं तं तारानन्दगुरुं भजे ॥ ६॥ स्वागतस्मेरवक्त्रं तं हितभाषश्रमापहम् । श्रुतश्लोकप्रमोदं तं तारानन्दगुरुं भजे ॥ ७॥ हिमगद्यरसानन्दं गङ्गासहस्रमोदितम् । आशीर्वाददयापूरं तारानन्दगुरुं भजे ॥ ८॥ त्यागराजगुरुस्वामिशिष्यापुष्पानुतिस्थिरम् । तारानन्दगुरुं वन्दे स्तोत्रमेतत्तदर्पणम् ॥ ॐ शुभमस्तु इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीतारानन्दगुर्वष्टकं गुरौ समर्पितम् । ॐ शुभमस्तु । Footnotes Verse 5 सदालीनं सत् आलीनं Verse 7 श्रुतश्लोकप्रमोदं तं Refer author's books (click on the link translation) Verse 8 हिमगद्यरसानन्दं Refer author's book Himalayagadyam Verse 9 गङ्गासहस्रमोदितम् Refer author's book DaShri Gangasahasram Copyright Pushpa Srivatsan