अक्षर आकार:

श्रीसमर्थाथर्वशीर्षम्

Shri Samarthatharvashirsham

श्रीसमर्थाथर्वशीर्षम्

अथ श्री अक्कलकोटीस्वामीसमर्थाथर्वशीर्षम् । अथ ध्यानम् । ॐ ध्यायेच्छान्तं प्रशान्तं कमलनयनं योगिराजं दयालुं स्वामी मुद्रासनस्थं विमलतनुयुतं मन्दहास्यं कृपालम् । दृष्टिक्षेपोहि यस्य हरति स्मरणात् पापजालौघ सङ्घं भक्तानां स्मर्तृगामी जयति सविदधत् केवलानन्द कन्दम् ॥ १॥ । हरिः ॐ । नमः श्रीस्वामीसमर्थाय परमहंसाय दिव्यरूपधारिणे । नमः श्रीपाद श्रियावल्लभावतारधारिणे । नमः श्रीमन्नरसिंह सरस्वत्यावतारधारिणे । नमः कर्दलीवनवासिने । नमोऽवधूताय स्वेच्छाचारिणे । नमः कैवल्यानन्दसच्चिदानन्दस्वरूपिणे ॥ २॥ त्वं परं तत्त्वमयः । तत्त्वमस्यादि महावाक्यैः सम्बोधितः । त्वं पृथिव्यादि पञ्चमहाभुतः स्वरूपः । त्वं अष्टधा प्रकृति पुरूषात्मकः । त्वं चराचरः साक्षीः । त्वं ज्ञप्तिमयस्त्वं पूर्णानन्दमयः । त्वं मूलाधारादि षट्चक्रस्थित दैवतात्मकः ॥ ३॥ सर्वं जगदेतत्त्वत्तो जायते । त्वयि विद्यते । त्वयि लीयते । त्वामहं ध्यायामि नित्यम् ॥ ४॥ पाहिमां त्वम् । प्राच्यां पाहि । प्रतीच्यां पाहि । दक्षिणातात् पाहि । उत्तरस्यां पाहि । उर्ध्वात् पाहि । अधस्तात् पाहि । सर्वतः पाहि पाहि माम् ॥ भयेभ्यःस्त्राहि माम् । संसारमहाभयात् मामुद्धर । शरणागतोऽस्मि त्वाम् ॥ ५॥ आजानुबाहुं गौराङ्गं दिव्यकौपिनधारिणम् । तुलसीबिल्वपुष्पादि गन्धद्रव्यैः सुपूजितम् । भक्तोद्धारैक ब्रीदं च स्मरणे भक्ततारकम् । ध्यायामि हृदयाकाशे सच्चिदानन्दरूपिणम् ॥ ६॥ ``स्वामी समर्थ'' इति महामन्त्रः । महाभय विनाशकः । नादानुसन्धाने स्वामीति जप्त्वा पापजालं प्रणश्यति । स्वस्वरूपानुसन्धाने स्वामीति जप्त्वा सच्चिदानन्दं प्राप्नोति । आत्मसाक्षात्कारो भवति ॥ ७॥ नमाम्यहं दिव्यरूपं जगदानन्ददायकम् । महायोगेश्वरं वन्दे ब्रह्माविष्णुमहेश्वरम् । शक्तिं गणपतिं चैव सर्वदेवमयं भजेत् । कृपालु भक्तवरदं वन्देऽहं सर्वसाक्षिणम् ॥ ८॥ दत्तात्रेयाय विद्महे । परमहंसाय धीमहि । तन्नो स्वामी प्रचोदयात् ॥ ॐ शान्तिः शान्तिः शान्तिः । सुशान्तिर्भवतु ॥ अवधूतचिन्तन श्रीगुरूदेवदत्त स्वामीसमर्थार्पणमस्तु । सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखमाप्नुयात् ॥ इति श्रीस्वामीसमर्थाथर्वशीर्षं सम्पूर्णम् ।