अक्षर आकार:

श्रीसुन्दरमूर्त्यष्टोत्तरशतनामावलिः

shrIsundaramUrtyaShTottarashatanAmAvaliH

श्रीसुन्दरमूर्त्यष्टोत्तरशतनामावलिः

(Sundaramoorthy Nayanar, a devotee of Lord Tyagaraja, Tiruvarur) ॐ श्रीगणेशाय नमः ॥ ॐ सुन्दरमूर्तये नमः । ॐ सुन्दरेश्वरप्रियाय नमः । ॐ सुषुम्नानाडीशोधकाय नमः । ॐ सुवर्णकल्पकलेबराय नमः । ॐ सुवर्णाभरणभूषिताय नमः । ॐ सुवर्णमाल्याम्बरधारिणे नमः । ॐ शिवभक्ताग्रगण्याय नमः । ॐ शिवार्चनधुरन्धराय नमः । ॐ शिवनामपरायणाय नमः । ॐ शिवध्यानप्रियमानसाय नमः । १० ॐ शिवानन्दपरिपूर्णाय नमः । ॐ शिवनामाङ्गितरसनाय नमः । ॐ शिवराजयोगधारिणे नमः । ॐ शिवमन्त्रजपप्रियाय नमः । ॐ शिवाप्रियाय नमः । ॐ शिवभक्तपरिपालकाय नमः । ॐ शिवभक्तसमावृताय नमः । ॐ शिवभक्तप्रियमानसाय नमः । ॐ शिवभक्तपरिपोषकाय नमः । ॐ शिवसायुज्यसम्पन्नाय नमः । २० ॐ शिवदत्तनामाङ्किताय नमः । ॐ शिवागमप्रवीणाय नमः । ॐ शिवानन्दपरितृप्तमानसाय नमः । ॐ पञ्चक्लेशनिवर्तकाय नमः । ॐ परवागीतसन्तुष्टाय नमः । ॐ परवानाट्यकौतुकाय नमः । ॐ परवाश‍ृङ्गारदर्शकाय नमः । ॐ परवाभोगनिरताय नमः । ॐ परवाऽऽलिङ्गनतत्पराय नमः । ॐ परवालोकनसुन्दराय नमः । ३० ॐ परब्रह्मस्वरूपध्यात्रे नमः । ॐ परोपकारकलेबराय नमः । ॐ परमशिवभक्तिप्रियाय नमः । ॐ परमशिवालोकनपात्रगात्राय नमः । ॐ परमशिवलोचनगोचराय नमः । ॐ परिशुद्धमानसाय नमः । ॐ पादव्यत्यासताण्डवप्रियाय नमः । ॐ पार्वतीप्रियनन्दनाय नमः । ॐ पार्वतीपादसेवकाय नमः । ॐ पार्वतीदत्तविद्याविशेषज्ञाय नमः । ४० ॐ पार्वतीभक्तिपरिपूर्णाय नमः । ॐ आदिशैवकुलोद्भवाय नमः । ॐ आदर्शसम्भूताय नमः । ॐ आश्रितवत्सलाय नमः । ॐ आनन्दपरिपूर्णाय नमः । ॐ आहिताग्निप्रियमानसाय नमः । ॐ आदिशैवोत्तमाय नमः । ॐ आश्रितरक्षकाय नमः । ॐ महाकैलासनिलयाय नमः । ॐ महाभोगसमन्विताय नमः । ५० ॐ महामायानिवर्तकाय नमः । ॐ महातेजस्विने नमः । ॐ महायशस्विने नमः । ॐ महाबुद्धिमते नमः । ॐ महामन्त्रजपपराय नमः । ॐ महायोगनिलयाय नमः । ॐ महागुणसम्पन्नाय नमः । ॐ महापण्डितपराय नमः । ॐ महादेवपूजासमुत्सुकाय नमः । ॐ महाशास्त्रपण्डिताय नमः । ६० ॐ द्राविडविद्याविनयसम्पन्नाय नमः । ॐ द्राविडव्याकरणगुरवे नमः । ॐ द्राविडसम्प्रदायकरणाय नमः । ॐ द्राविडलोकवन्दिताय नमः । ॐ द्राविडविद्यापालकाय नमः । ॐ द्राविडस्तोत्रपरायणाय नमः । ॐ चन्द्रचूडदत्तैरावणाय नमः । ॐ सत्त्वगुणाकराय नमः । ॐ सत्सेविताय नमः । ॐ समयाचारदेशिकाय नमः । ७० ॐ सम्प्राप्तदिव्यदेहाय नमः । ॐ विशेषक्षेत्रदर्शकाय नमः । ॐ विश्ववन्द्याय नमः । ॐ विदेहकैवल्यकलनाय नमः । ॐ विद्याविद्यास्वरूपदर्शकाय नमः । ॐ विनायकप्रियाय नमः । ॐ विमलाङ्गविराजिताय नमः । ॐ विद्वज्जनसमन्विताय नमः । ॐ सर्वविद्यापारङ्गताय नमः । ॐ तपोनिष्ठाय नमः । ८० ॐ तपोनिष्ठाग्रगण्याय नमः । ॐ तपस्विने नमः । ॐ तडित्प्रभाय नमः । ॐ तापत्रयोल्लङ्घिने नमः । ॐ देवदेवसेवकाय नमः । ॐ देवादिलोकसञ्चारिणे नमः । ॐ नित्यकर्मनिरताय नमः । ॐ नित्यकर्मसमाश्रिताय नमः । ॐ शैवशास्त्रविशारदाय नमः । ॐ शैवाचारसम्पन्नाय नमः । ९० ॐ वीतशोकाय नमः । ॐ वीतरागाय नमः । ॐ कलुषारण्यदहनाय नमः । ॐ कल्याणगुणसम्पन्नाय नमः । ॐ हेयोपादेयविग्रहदर्शकाय नमः । ॐ श्रीमत्त्यागराजप्रियभक्ताय नमः । ॐ श्रीमत्त्यागराजनर्तनसेविताय नमः । ॐ नर्तनादिविशेषज्ञाय नमः । ॐ लीलाताण्डवदर्शकाय नमः । ॐ अजपाताण्डवसंसेविताय नमः । १०० ॐ नटनविद्याविदुषे नमः । ॐ नटनादिविद्यापारङ्गताय नमः । ॐ श‍ृङ्गारनटननायकाय नमः । ॐ वेदशास्त्रविशारदाय नमः । ॐ वैदिकाचारसम्पन्नाय नमः । ॐ ब्राह्मणकर्मपरिपालकाय नमः । ॐ दुरूहशिवभक्तिपरवशाय नमः । ॐ दूरीकृतदुर्जनाय नमः । ॐ सदाचारसम्पन्नाय नमः । ॐ मूलाधारक्षेत्रवासिने नमः । ११० ॐ ग्राहग्रस्तबालजीवितप्रदाय नमः । ॐ सोमयाजिवरप्रदाय नमः । ॐ ऐरावणारूढकैलासगमनाय नमः । ॐ परवासहितसुन्दरमूर्तये नमः । इति श्रीसुन्दरमूर्त्यष्टोत्तरशतनामावलिः समाप्ता । Text provided by Dr. Thiagarajan R, Head of the P.G and Research Dept of Sanskrit, Presidency College, Chennai