स्त्रीगुरु ध्यानस्तुतीकवचं गीता विविध तन्त्रे
॥ अथ स्त्रीगुरुध्यानं गुप्तसाधनतन्त्रे द्वितीयपटले ॥ पार्वत्युवाच ॥ गुरुध्यानं श्रुतं नाथ ! सर्वतन्त्रेषु गोपितम् । स्त्रिया दीक्षा शुभा प्रोक्ता सर्वकामफलप्रदा ॥ १॥ बहुजन्मार्जितात् पुण्यात् बहुभग्यवशाद् यदि । स्त्रीगुरुर्लभ्यते नाथ ! तस्या ध्यानन्तु कीदृशम् ॥ २॥ कुत्र वा सा गुरुर्ध्येया श्रोतुमिच्छामि साम्प्रतम् । कथयस्व महादेव ! यद्यहं तव वल्लभा ॥ ३॥ शिव उवाच ॥ शृणु पार्वति ! वक्ष्यामि तव स्नेहपरिप्लुतः । रहस्यं स्त्रीगुरोर्ध्यानं यथा ध्येया च सा गुरुः ॥ ४॥ सहस्रारे महापद्मे किञ्जल्कगणशोभिते । प्रफुल्लपद्मपत्राक्षी घनपीनपयोधरा ॥ ५॥ प्रसन्नवदना क्षीणमध्या ध्यायेच्छिवां गुरुम् । पद्मरागसमाभासां रक्तवस्त्रसुशोभनाम् ॥ ६॥ रक्तकङ्कणपाणिञ्च रक्तनूपुरशोभिताम् । शरदिन्दुप्रतीकाशां रक्तोद्भासितकुण्डलाम् ॥ ७॥ स्वनाथवामभागस्थां वराभयकराम्बुजाम् । इति ते कथितं देवि ! स्त्रीगुरोर्ध्यानमुत्तमम् । गोपनीयं प्रयत्नेन न प्रकाश्यं कदाचन ॥ ८॥अथ स्तुतिः ॥ मातृकाभेदतन्त्रे सप्तपटले ॥ देव्युवाच ॥ स्तुतिञ्च कवचं नाथ ! श्रोतुमिच्छामि साम्प्रतम् । श्रीगुरोः कवचं प्रोक्तं त्वया नाथ ! पुरा प्रभो ! ॥ १॥ इदानीं स्त्रीगुरोः स्त्रोत्रं कवचं मयि कथ्यताम् । यस्य विज्ञानमात्रेण पुनर्जन्म न जायते ॥ २॥ श्रीशिव उवाच ॥ शृणु देवि ! प्रवक्ष्यामि स्तोत्रं परमगोपनम् । यस्य श्रवणमात्रेण संसारान्मुच्यते नरः ॥ १॥ नमस्ते देवदेवेशि ! नमस्ते हरपूजिते ! । ब्रह्मविद्यास्वरूपायै तस्यै नित्यं नमो नमः ॥ २॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । यया चक्षुरुन्मीलितं तस्यै नित्यं नमो नमः ॥ ३॥ भवबन्धनपारस्य तारिणी जननी परा । ज्ञानदा मोक्षदा नित्यं तस्यै नित्यं नमो नमः ॥ ४॥ श्रीनाथवामभागस्था सदया सुरपूजिता । सदा विज्ञानदात्री च तस्यै नित्यं नमो नमः ॥ ५॥ सहस्रारे महापद्मे सदानन्दस्वरूपिणी । महामोक्षप्रदा देवी तस्यै नित्यं नमो नमः ॥ ६॥ ब्रह्मविष्णुस्वरूपा च महारुद्रस्वरूपिणी । त्रिगुणात्मस्वरूपा च तस्यै नित्यं नमो नमः ॥ ७॥ चन्द्रसूर्य्याग्निरूपा च मदाघूर्णितलोचना । स्वनाथञ्च समालिङ्ग्य तस्यै नित्यं नमो नमः ॥ ८॥ ब्रह्मविष्णुशिवत्वादिजीवन्मुक्तिप्रदायिनी । ज्ञानविज्ञानयोर्दात्री तस्यै श्रीगुरवे नमः ॥ ९॥ इदं स्तोत्रं महेशानि ! यः पठेद्भक्तिसंयुतः । स सिद्धिं लभते नित्यं सत्यं सत्यं न संशयः ॥ १०॥ प्रातःकाले पठेद् यस्तु गुरुपूजापुरःसरम् । स एव धन्यो लोकेशो देवीपुत्र इव क्षितौ । इति मातृकाभेदतन्त्रे स्त्रीगुरोः स्तोत्रं सम्पूर्णम् ॥ ११॥
स्तोत्रं समाप्तं देवेशि ! कवचं शृणु सादरम् । यस्य स्मरणमात्रेण वागीशसमतां व्रजेत् । ॥स्त्रीगुरुकवचम् ॥ विनियोगः - स्त्रीगुरोः कवचस्यास्य सदाशिव ऋषिः स्मृतः । ताराख्या देवता ख्याता चतुर्वर्गफलप्रदा ॥ १॥ क्लीं बीजं चक्षुषोर्मध्ये सर्वाङ्गं मे सदावतु । ऐं बीजं मे मुखं पातु ह्रीं जिह्वां परिरक्षतु ॥ २॥ श्रीं बीजं स्कन्धदेशं मे हसखफ्रें भुजद्वयम् । हकारः कण्ठदेशं मे सकारः षोडशं दलम् ॥ ३॥ क्षवर्णस्तदधः पातु लकारो हृदयं मम । वकारः पृष्ठदेशञ्च रकारो दक्षपार्श्वकम् ॥ ४॥ यूङ्कारो वामपार्श्वञ्च सकारो मेरुमेव च । हकारो मे दक्षभुजं क्षकारो वामहस्तकम् ॥ ५॥ मकारश्चाङ्गुलीं पातु लकारो मे नखं वतु । वकारो मे नितम्बञ्च रकारो जठरं वतु ॥ ६॥ षीङ्कारः पादयुगलं हेसौः सर्वाङ्गं मेऽवतु । हेसौर्लिङ्गञ्च लोमानि केशञ्च परिरक्षतु ॥ ७॥ ऐं बीजं पातु पूर्वे मे ह्रीं बीजं दक्षिणेऽवतु । श्रीं बीजं पश्चिमे पातु उत्तरे भूतसम्भवम् ॥ ८॥ श्रीं पातु चाग्निकोणे च वेदाख्या नैऋतेऽवतु । देवाम्बा पातु वायव्यां शम्भौ श्रीपादुकां तथा ॥ ९॥ पूजयामि तथा चोर्द्ध्वं नमश्चाधः सदाऽवतु । इति ते कथितं कान्ते ! कवचं परमाद्भुतम् ॥ १०॥ गुरुमन्त्रं जपित्वा तु कवचं प्रफठेद्यदि । ससिद्धः सगणः सोऽपि शिव एव न संशयः ॥ ११॥ पूजाकाले पठेद् यस्तु कवचं मन्त्रविग्रहम् । पूजाफलं भवेत्तस्य सत्यं सत्यं सुरेश्वरि ! ॥ १२॥ त्रिसन्ध्यं यः पठेद्देवि ! स सिद्धो नात्र संशयः । भूर्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद् यदि ॥ १३॥ तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः । विवादे जयमाप्नोति रणे च निरृतेः समः ॥ १४॥ सभायां जयमाप्नोति मम तुल्यो न संशयः । सहस्रारे भावयन् यस्त्रिसन्ध्यं प्रपठेद् यदि ॥ १५॥ स एव सिद्धो लोकेशो निर्वाणपदमीयते । समस्तमङ्गलं नाम कवचं परमाद्भुतम् ॥ १६॥ यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन । देयं शिष्याय शान्ताय चान्यथा पतनं भवेत् ॥ १७॥ अभक्तेभ्यश्च देवेशि ! पुत्रेभ्योऽपि न दर्शयेत् । इदं कवचमज्ञात्वा दशविद्याश्च यो जपेत् ॥ १८॥ स नाप्नोति फलं तस्य चान्ते च नरकं व्रजेत् । समाप्तं कवचं देवि ! किमन्यत् श्रोतुमिच्छसि । तव स्नेहानुबन्धेन किं मया न प्रकाशितम् ॥ १९॥ ॥ इति मातृकाभेदतन्त्रे स्त्रीगुरुकवचं समाप्तम् ॥
॥ अथ स्त्रीगुरुगीता । कङ्कालमालिनीतन्त्रे द्वितीयपटले ॥ पार्वत्युवाच ॥ लोकेश ! कथ्यतां देव ! गुरुगीता मयि प्रभो ! । श्रीभगवानुवाच ॥ शृणु तारिणि ! वक्ष्यामि गीतां ब्रह्ममयीं पराम् । गुरुस्त्वं सर्वशास्त्राणामहमेव प्रकाशकः ॥ १॥ त्वमेव गुरुरूपेण लोकानां त्राणकारिणी । गया गङ्गा काशिका च त्वमेव सकलं जगत् ॥ २॥ कावेरी यमुना रेवा करतोया सरस्वती । गोमती चन्द्रभागा च त्वमेव कुलपालिके ! ॥ ३॥ ब्रह्माण्डं सकलं देवि ! कोटिब्रह्माण्डमेव च । न हि ते वक्तुमर्हामि क्रियाजालं महेश्वरि ! ॥ ४॥ उक्त्वा चोक्त्वा भावयित्वा भिक्षुकोऽहं नगात्मजे ! । कथं त्वं जननी भूत्वा बधूस्त्वं मम देहिनाम् ॥ ५॥ तव चक्रं महेशानि ! अतीतं परमात्मनि । इति ते कथिता गीता गुरुदेवस्य ब्रह्मणः ॥ ६॥ सङ्क्षेपेण महेशानि ! प्रभुरेव गुरुः स्वयम् । जगत् समस्तमास्थाय गुरुस्त्वेको हि केवलम् ॥ ७॥ इति तं तोषयित्वा च नुतिभिः स्तुतिभिस्तथा । नानाविधद्रव्यदानैः सिद्धः स्यात् साधकोत्तमः ॥ ८॥ ॥ इति स्त्रीगुरुगीता समाप्ता ॥ http://muktalib5.org