अक्षर आकार:

शुकस्तुतिः

Shukastutih

शुकस्तुतिः

यं प्रव्रजन्तमनुपेयमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवोऽभिनेदु- स्तं सर्वभूत-हृदयं मुनिमानतोऽस्मि ॥ १॥ स्व-सुख-निभृतचेतास्तद् व्युदस्तान्यभावो- ऽप्यजित-रुचिर-लीला-ऽऽकृष्टसारस्तदीयम् । व्यतनुत कृपया यस्तत्त्वदीपं पुराणं तमखिल-वृजिनघ्नं व्यास-सूनुं नतोऽस्मि ॥ २॥ इति शुकस्तुतिः समाप्ता ।