अक्षर आकार:

श्रीश्रीपादराजस्तोत्रम्

Shri Shripadaraja Stotram

श्रीश्रीपादराजस्तोत्रम्

अश्वधाटी द्वैपायनोत्तम करोपगतां पवनरूपामितेक्षमहितां गोपाङ्गनेशतनुमापातमर्चयितुमापाद्य योहि यतिताम् । स्वापास्त भूपकृत शापासिघात निजतापारपाप निचयं श्रीपादराजवरशापायुदम्भजतसूपान्न लोलुपधियः ॥ १॥ कापालिकांश वरकोपातिवित्तयति भूपारकाङ्क्षिकुलभू भूपावनामित धियापावितातिशुभरूपाब्जनाभ सुयतेः । गोपायितान्वय सुदीपाभहेमसमरूपाख्य भिक्षु वरभूः श्रीपादराजयतिरापातुनः शुभकलापानपारमहिमा ॥ २॥ गोपालविठ्ठलतनूपार्थभल्लुकसुतोपासितेसमहिळे दीपाड्यवित्तभवनापालते कुरुकुलापाय भूनृपतिना । प्रापादिमादिशदथोपाक शिष्ययतये पादुकेतमनयोः श्रीपादराजयतिरापातुनो रचित भूपाल पीठवसतिः ॥ ३॥ योपागमत्स्वपुरतोपास्तबन्धुजनतापारिबर्ह सुहृदा- लापादिराग उरुभूपालवर्यजन गोपाङ्ग हापिततनुः । धूपायितान्तर इवापाटवीं निशितरोपाभमातृवचसा गोपायितात्मतनुभूपामरार्यजन गोपारवश्यकरभाः ॥ ४॥ हापाक आगत इहापाप सेव्यमभिरूपामरद्रुमितिमां श्रीपालयापित महीपारगामिसुरशापायुधोक्त तपसा । क्ष्मापाल पीठमथ गोपालसेव्यपदमापाग्र्यजन्मगुरुतां श्रीपादराजयतिरापारमत्पयमहापायतः सपदिनः ॥ ५॥ व्यात्तानवान्तक समत्तायुधोरुभुज वैत्तायनिध्वजिचमू- च्छेत्तानुजार्थमिव भेत्तास्वकावतमसोत्तानपर्वत ततेः । स्वात्तानिळागम महोत्तानतीक्ष्ण पविरौत्तानपाद यतिराट् वेत्ता हयाननतनूत्तारणस्य ममतोत्ताभवार्तिमतुळाम् ॥ ६॥ श्रीपादराजगुणवर्णन पद्यषट्कं श्रीव्यासराजयति शिष्यगणर्षभेण । श्रीवादिराजयतिना रचितं तु शश्वत् सेवादरेण पठतां प्रकरोत्यभीष्टम ॥ ७॥ इति श्रीवादिराजतीर्थविरचितं श्रीपादराज स्तोत्रं सम्पूर्णम् ।