अक्षर आकार:

श्रीश्रीपादराजपञ्चकम्०

Shri Shripadaraja Panchakam

श्रीश्रीपादराजपञ्चकम्०

वन्दे श्रीपादराजं रुचितमहृदयं पूजितश्रीसहायं निर्धूताशेषहेयं निभृतशुभचयं भूमिदेवाभिगेयम् । विप्रेभ्यो दत्तदेयं निजजनसदयं खण्डिताशेषमायं निष्टप्तस्वर्णकायं बहुगुणनिलयं वादिसङ्घैरजेयम् ॥ १॥ क्षुभ्यद्वादिकरीन्द्रवादपटलीकुम्भच्छटाभेदन- प्रौढप्राभवतर्कसङ्घनिकरश्रेणीविलासोज्वलः । गोपीनाथमहीद्रशेखरलसत्पादस्थलावासकृत् पायान्मां भवघोरकुञ्जरभयाच्छ्रीपादराट् केसरी ॥ २॥ बिभ्राणं क्षौमवासः करधृतवलयं हारकेयूरकाञ्ची- ग्रैवेयस्वर्णमालामणिगणखचितानेकभूषाप्रकर्षम् । भुञ्जानं षष्टिशाकान् दहयगजशिबिकानर्घ्यशय्यारथाढ्यम्ग् वन्दे श्रीपादराजं त्रि भुवनविदितं घोरदारिद्र्यशान्त्यै ॥ ३॥ यद्वृन्दावनसेवया सुविमलां विद्यां पशून् सन्ततिं ध्यानात् ज्ञानमनल्पकीर्तिनिवहं प्राप्नोति शीघ्रं जनः । तं वन्दे नरसिंहतीर्थनिलयं श्रीव्यासराट् पूजितं ध्यायन्तं मनसा नृसिंहचरणं श्रीपादराजं गुरुम् ॥ ४॥ काशीकेदारमायाकरिगिरिमधुराद्वारकावेङ्कटाद्रि- श्रीमुष्णक्षेत्रपूर्वत्रिभुवनविलसत्पुण्यभूमीनिवासः । गुल्मादिव्याधिहर्ता गुरुगुणनिलयो भूतभेतालभेदी भूयाच्छ्रीपादराजो निखिलशुभततिप्राप्तये सन्ततं नः ॥ ५॥ इति श्रीव्यासराजयतिकृत श्रीपादराजपञ्चकं सम्पूर्णम् ।