अक्षर आकार:

श्रीश्रीपादराजाष्टकम् २

Shri Shripadaraja Ashtakam 2

श्रीश्रीपादराजाष्टकम् २

श्रीमत्या जाम्बवत्या यदुपतिनगरे पूजितः फल्गुणेन प्राप्रस्तेनार्चिताम्फ्रिस्सकल सुखकरे पाण्डुरङ्गेतरङ्गे । भूमौक्षेत्रेथ गुप्तस्सकल बुधगुरोर्यस्यलब्धोवतान्मां स्वप्ने श्रीमान् रमेशः प्रभुवरतनया सत्यभामा समेतः ॥ १॥ श्रीमत् श्रीपादराज प्रमुख यतिवरानादराधीत शास्त्रा- नाहूयाति प्रमोदा प्रवदत भवतां तावदेवाद्य शिष्यः । यावत्सामर्थ्यमस्तीत्युदितवति गुरौ प्रागुपन्यस्तवान्यः श्रीमानाद्यन्तयुक्तां बुधसदसि सुधां सोवतान्मां यतीन्द्रः ॥ २॥ सायङ्काले कदाचित् गुणगणभरिते स्पर्णवर्णे यतीन्द्रे दूरेग्रामः पुरस्तात्कियति कथय मे बालकेति ब्रुवाणे । सूर्यं मां स्थैरभां स्वं सकल बुधमणे पश्य किं त्पां ब्रुवेहं यो वादीत्स्वर्णवर्णं गुरुमिति सहसा सोवतान्मां यतीन्द्रः ॥ ३॥ जित्वानीशं नृपेण प्रबल गजपतिं कङ्कणद्वन्द्वमेकं यस्मै दत्तं मनोज्ञं तदनु नरपते भोगनार्यो निशायाम् । यद्रूपः श्रीरमेशः परिजनसहिते जागरूके द्वितीयं दत्तं भूपाळमौळौ पुनरपि ददतासोवतान्मां यतीन्द्रः ॥ ४॥ पातुः श्रीपादराज सखिवर रघुनाथार्ययुक्तः कदाचित् गङ्गास्नानाय गच्छन् पतिनृपसदनं प्राप्य भैक्षं ययाचे । पादप्रक्षाळनार्थं स्थितवति यतिपे भर्त्सनादस्य कोपात् गेहे दग्धेति नम्रं पदयुगळगतं यो ररक्षावनीशम् ॥ ५॥ यच्छिष्यो व्यासराजः प्रतिभटजनता सर्वगर्वापहर्ता कर्ता ग्रन्थत्रयस्य प्रतिभट विजय प्रोच्चशास्त्रोत्तमस्य । प्रख्याता यत्प्रशिष्या जगति च विजयीन्द्राख्य योगीन्द्रचन्द्रा श्रीमत् श्रीवादिराज प्रमुख यतिवरा सोवतान्मां यतीन्द्रः ॥ ६॥ यद्वाग्वज्राभिदोच्छ प्रबलतम महाग्रन्थ वज्रेण हृष्य दुर्वादिक्ष्माधराणां यतिवरसुरपच्छेदयामास पक्षान् । यस्य श्रीवादिराज प्रमुख यतिवरैर्वणितु नैव शक्यं माहात्म्यं तापसेन्द्रः स भवतु नितरां भूयसे श्रेयसे मे ॥ ७॥ नीलापार्थार्चिताङ्घ्रिः कलुषय च हरे भीमरथ्यास्सुतीरे रङ्गक्षेत्रेथ गुप्तः सकल सुरपतिर्वेणुगोपालकृष्ण । स्वष्ने लब्धोयमस्या द्विजवर गुरवे व्यासराजाय येना- दायी श्रीपादराजः स भवतु नितरा भूयसे श्रेयसे मे ॥ ८॥ इति श्रीनिधियतिविरचितं श्रीपादराजाष्टकं सम्पूर्णम् ।