अक्षर आकार:

श्रीगुरुस्तुती

shrIgurustutiH

श्रीगुरुस्तुती

यो बभाणाभणन्नेव मुनिभ्यो ब्रह्म निर्द्वयम् । दक्षिणामूर्तये तस्मै प्रज्ञानगुरवे नमः ॥ १॥ स्थापितं ब्रह्मनिष्ठेन येनाद्वैतमतं भुवि । तस्मै शङ्करसंज्ञाय विज्ञानगुरवे नमः ॥ २॥ अंशावतारः स्कन्दस्य विश्वाचार्यो विदां वरः । प्रणम्यते महाभागो रमणो भगवानृषिः ॥ ३॥ दक्षिणामूर्तिसारम्भां शङ्कराचार्यमध्यमाम् । रमणाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ४॥ तिमिराणि न केवलं वचोभिः करुणापाङ्गविलोकितैश्च नॄणाम् । हृदये प्रसरन्ति मर्दयन्तं भगवन्तं रमणं गुरुं नमामि ॥ ५॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतेः कृतिः श्रीगुरुस्तुतिः समाप्ता ॥ अनुष्टुब्वृत्तम् (१-४) । सुबोधितावृत्तम् (५)