श्रीशिर्डीसाईनाथमहिम्नस्तोत्रम्
सदा सत्स्वरूपं चिदानन्दकन्दं
जगत्सम्भवस्थानसंहारहेतुम् ।
स्वभक्तेच्छया मानुषं दर्शयन्तं
नमामीश्वरं सद्गुरुं साईनाथम् ॥ १॥
भवध्वान्तविध्वंसमार्ताण्डमीड्यं
मनोवागतीतं मुनिध्यानगम्यम् ।
जगद्व्यापकं निर्मलं निर्गुणं त्वां
नमामीश्वरं सद्गुरुं साईनाथम् ॥ २॥
भवाम्भोधिमग्नार्दितानां जनानां
स्वपादाश्रितानां स्वभक्तप्रियाणाम् ।
समुद्धारणार्थं कलौ सम्भवन्तं
नमामीश्वरं सद्गुरुं साईनाथम् ॥ ३॥
सदा निम्बवृक्षस्य मूलाधिवासं
सुधास्राविणं तिक्तमप्यप्रियं तम् ।
तरुं कल्पवृक्षाधिकं साधयन्तं
नमामीश्वरं सद्गुरुं साईनाथम् ॥ ४॥
सदा कल्पवृक्षस्य तस्याधिमूले
भवद्भावबुद्ध्या सपर्यादिसेवाम् ।
नृणां कुर्वतां भुक्तिमुक्तिप्रदं तं
नमामीश्वरं सद्गुरुं साईनाथम् ॥ ५॥
अनेकाश्रुता तर्कलीलाविलासैः
समाकर्षयन्तं सुभास्वत्प्रभावम् ।
अहम्भावहीनं प्रसन्नात्मभावं
नमामीश्वरं सद्गुरुं साईनाथम् ॥ ६॥
सतां विश्रमाराममेवाभिरामं
सदा सज्जनैः संस्तुतं सन्नमद्भिः ।
जनामोददं भक्तभद्रप्रदं तं
नमामीश्वरं सद्गुरुं साईनाथम् ॥ ७॥
अजन्माद्यमेकं परंब्रह्म साक्षात्
स्वयं सम्भवं राममेवावतीर्णम् ।
भवद्दर्शनात्सम्पुनीतः प्रभोऽहं
नमामीश्वरं सद्गुरुं साईनाथम् ॥ ८॥
श्रीसायीशकृपानिधेऽखिलनृणां सर्वार्थसिद्धिप्रद
युष्मत्पादरजःप्रभावमतुलं धातापि वक्ताक्षमः ।
सद्भक्त्या शरणं कृताञ्जलिपुटः संप्रापितोऽस्मि प्रभो
श्रीमत्साईपरेशपादकमलान्नान्यच्छरण्यं मम ॥ ९॥
साईरूपधरराघवोत्तमं
भक्तकामविबुधद्रुमप्रभुम् ।
माययोपहतचित्तशुद्धये
चिन्तयाम्यहमहर्निशं मुदा ॥ १०॥
शरत्सुधांशुप्रतिमप्रकाशं
कृपातपत्रं तव साईनाथ ।
त्वदीयपादाब्जसमाश्रितानां
स्वच्छाय सन्तापमपाकरोतु ॥ ११॥
उपासनी दैवतसाईनाथ
स्तवैर्मयोपासनिना स्तुतस्त्वम् ।
रमेन्मनो मे तव पादयुग्मे
भृङ्गो यथाब्जे मकरन्दलुब्धः ॥ १२॥
अनेकजन्मार्जितपापसंक्षयो
भवेद्भवत्पादसरोजदर्शनात् ।
क्षमस्व सर्वानपराधपुञ्जकान्
प्रसीद सायीश गुरो दयानिधे ॥ १३॥
श्रीसाईनाथचरणामृतापूतचित्ता-
स्तत्पादसेवनरतास्सततं च भक्त्या ।
संसारजन्यदुरितौघविनिर्गतास्ते
कैवल्यधाम परमं समवाप्नुवन्ति ॥ १४॥
स्तोत्रमेतत्पठेद्भक्त्या यो नरस्तन्मनाः सदा ।
सद्गुरोः साईनाथस्य कृपापात्रं भवेद्ध्रुवम् ॥ १५॥
इति श्रीउपासनीबाबा अथवा काशीनाथशास्त्री उपासनी विरचितं
श्रीशिर्डीसाईनाथमहिम्नस्तोत्रं समाप्तम् ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):