अक्षर आकार:

श्रीशिर्डीसाईबाबाष्टकम्

Shri Shirdi Saibaba Ashtakam

श्रीशिर्डीसाईबाबाष्टकम्

पत्रग्रामसमुद्भूतं द्वारकामाई वासिनम् । भक्ताभीष्टप्रदं देवं साईनाथं नमाम्यहम् ॥ १॥ महोन्नतकुले जातं क्षीराम्बुधिसमे शुभे । द्विजराजं तमोघ्नं तं साईनाथं नमाम्यहम् ॥ २॥ जगदुद्धारणार्थं यो नररूपधरो विभुः । योगिनं च महात्मानां साईनाथं नमामि तम् ॥ ३॥ साक्षात्कारं जयो लाभे स्वात्मारामो गुरोर्मुखात् । निर्मलं ममताघ्नं तं साईनाथं नमाम्यहम् ॥ ४॥ यस्य दर्शनमात्रेण नश्यन्ति व्याधिकोटयः । सर्वे पापाः प्राणश्यन्ति साईनाथं नमामि तम् ॥ ५॥ नरसिंहादि शिष्याणां ददौ योऽनुग्रहं गुरुः । भवबन्धनहर्तारं साईनाधं नमामि तम् ॥ ६॥ धनवन्तं दरिद्रं च, समदृष्ट्यैव पश्यति । करुणसागरं देवं साईनाथं नमामि तम् ॥ ७॥ समाधिस्थोऽपि यो भक्त्या समदृष्ट्यार्थदश्च यः । अचिन्त्यमहिमानं तं साईनाथं नमाम्यहम् ॥ ८॥ इति श्रीशिर्डीसाईबाबाष्टकं सम्पूर्णम् । अखिलाण्डकोटि ब्रह्माण्डनायक राजाधिराज योगिराज परब्रह्म श्रीसच्चिदानन्द सद्गुरु साईनाथमहाराज की जै । ॐ साईनाथाय नमः ।