अक्षर आकार:

श्रीशेषचन्द्रिकाचार्यस्तोत्रम्

Shri Sheshachandrikacharya Stotram

श्रीशेषचन्द्रिकाचार्यस्तोत्रम्

श्रीपूर्णबोधसमयाम्बुधिचन्दिराय विज्ञानभक्तिमुखसद्गुणमन्दिराय । हृन्नीरजान्तरवभासितसेन्दिराय कुर्वे नमांसि रघुनाथयतीश्वराय ॥ १॥ गोपालपाद सरसीरुहसक्तचित्तम् । द्वैपायनार्यसमयेनिशमप्रमत्तम् । पापाद्रिभेदकुलशायितभव्यवृत्तं भूपारिजातमनिशं स्मरशुद्धहृत्तम् ॥ २॥ लक्ष्मीनारायणाख्यव्रतिवरकरकञ्जात जातस्वधीत प्राज्ञप्रज्ञागमौघक्षितिसुरनिकराराधिताङ्घ्र्यब्जयुग्मः । सह्यक्ष्माभृद्दुहित्रास्फटिककपिललोः सङ्गमे जातवेदो मूर्धन्ये राजमानो वहतु मयि कृपां स्वीयदासानुदासे ॥ ३॥ वन्दमानजनसंसदपेक्ष्यं सादयाम्यहमिति स्थिरदीक्षम् । संसदि क्षणविदूतविपक्षं कंसभित्सुगुणसाधन दक्षम् ॥ ४॥ व्यासराजयतिवर्यमुखोद्यच्चन्द्रिकोर्वरितपूर्तिकृतं तम् । भावयामि सुरभूमिरुहङ्गामागतं क्षितिनु(सु)रार्थनयाहम् ॥ ५॥ घोरहृत्तिमिर सन्ततिसूर्यं धीरशेखरमपातकचर्यम् । नोनवीषि यदि मस्करिवर्यं भूसुरव्रजसि संसदि शौर्यम् ॥ ६॥ रेत्युक्त्वा लभते रघूद्वहकृपाङ्घ्रत्येदुक्त्वाक्षणात् स्यादेवैष घुधातुवाच्यकृतिमान् नाशब्दितोनाथवान्ग् । थस्योच्चारणतो लभेत तपसः सिद्धिं यदाख्याक्षरैः सर्व।ं चैतदवाप्नुतेकिमुत तन्नाम्नेखिलस्योक्तितः ॥ ७॥ रुक्मिणीशचरणाम्बुजसेवासादितानितरलभ्यविभूते । व्यासराजयतिशेखर विद्याविष्ठरेश करुणां मयि कुर्याः ॥ ८॥ पदवाक्यप्रमाणां भोनिधि पारीणताभृते । सर्वतन्त्रस्वतन्त्राय प्रणमामि मुहूर्मुहुः ॥ ९॥ श्रीशेषचन्द्रिकाचार्य पदपङ्कजसंस्क्रतिः । अतिशेते देवगवी चिन्तामणि सुरद्रुमान् ॥ १०॥ रघुनाथ यतीशानः पातु मां शरणागतम् । शरणागतवात्सल्यमात्मीयं दर्शयन्मयि ॥ ११॥ सर्वोत्तमो हरिरशेष जगन्नमिथ्या भेदश्च जीवनिकरोनुचरोचितस्य । नीचोच्चतास्य च मिथोनिजमोद लाभो- मुक्तिस्सभक्तितः उरुक्रमणेखिलेशे ॥ १२॥ अक्षादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः वृत्तिर्मुख्यतमा यतोस्यकमलानाथे स्वतन्त्रो हरिः । सर्वं चैतदधीनमित्यपि दृढं संसाधयित्वाखिळं दुर्वादं समखण्डयत्सदसि यो मेदां दिशेत्सोमलाम् ॥ १३॥ कण्ठे श्रीतुळसीस्रजं हृदि ददछ्रीवल्लभं कर्णयो- र्द्वन्दे श्रीतुळसीदळे करसरोजातद्वये पुस्तकम् । मुद्रोल्लासितमूर्ध्वपुण्ड्रनिकरं काये दधानोन्तिक भ्राजद्दण्डकमण्डलुर्गुरुवरः श्रेयोर्थिभिश्चिन्त्यतां ॥ १४॥ रघुनाथयतीश तावकीनाखिललक्ष्माण्यनुसन्दधन्निजानि । हरतेकुमतिर्यः आर्यवर्यद्रुहि तस्मिन्ननुकुलतांल न युयुः ॥ १५॥ व्यासराजमठोस्माकं मठ एवेति वादिनम् । शिक्षस्वगुरुवर्याशु यद्यस्त्यात्ममठे कृपा ॥ १६॥ रघुनाथ यतीशानस्त्वदीयान्स्मरकारुण्यदृशो विधेहि पात्रम् । गणयेर्भवदीयदासदासेष्टितयाचेर चिताञ्जलिः प्रणम्य ॥ १७॥ विद्यारत्नाकरोक्तां गुरुवरनुतिमादरेण यः पठति । तस्मिन्नामगिरीशो नरहरिरचितः प्रसीदति क्षिप्रम् ॥ १८॥ इति श्रीविद्यारत्नाकरतीर्थविरचितं श्रीशेषचन्द्रिकाचार्यस्तोत्रं सम्पूर्णम् ।