अक्षर आकार:

श्रीमज्जगद्गुरुशङ्करभगवत्पूज्यपादाचार्यस्तवः

shrImajjagadgurusha~NkarabhagavatpUjyapAdAchAryastavaH

श्रीमज्जगद्गुरुशङ्करभगवत्पूज्यपादाचार्यस्तवः

ॐ श्री गुरुभ्यो नमः । मुदा करेण पुस्तकं दधानमीशरूपिणं तथाऽपरेण मुद्रिकां नमत्तमोविनाशिनीम् । कुसुम्भवाससावृतं विभूतिभासिफालकं नताघनाशने रतं नमामि शङ्करं गुरुम् ॥ १॥ पराशरात्मजप्रियं पवित्रितक्षमातलं पुराणसारवेदिनं सनन्दनादिसेवितम् । प्रसन्नवक्त्रपङ्कजं प्रपन्नलोकरक्षकं प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकम् ॥ २॥ सुधांशुशेखारार्चकं सुधीन्द्रसेव्यपादुकं सुतादिमोहनाशकं सुशान्तिदान्तिदायकम् । समस्तवेदपारगं सहस्रसूर्यभासुरं समाहिताखिलेन्द्रियं सदा भजामि शङ्करम् ॥ ३॥ यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकम् । यमेव मुक्तिकाङ्क्षया समाश्रयन्ति सज्जना नमाम्यहं सदा गुरुं तमेव शङ्कराभिधम् ॥ ४॥ स्वबाल्य एव निर्भरं य आत्मनो दयालुतां दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन् । प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत् समान् जनान् स एव शङ्करः सदा जगद्गुरुर्गतिर्मम ॥ ५॥ यदीयपुण्यजन्मना प्रसिद्धिमाप कालटी यदीयशिष्यतां व्रजन् स तोटकोऽपि पप्रथे । य एव सर्वदेहिनां विमुक्तिमार्गदर्शको नराकृतिं सदाशिवं तमाश्रयामि सद्गुरुम् ॥ ६॥ सनातनस्य वर्त्मनः सदैव पालनाय यः चतुर्दिशासु सन्मठान् चकार लोकविश्रुतान् । विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान् तमेव लोकशङ्करं नमामि शङ्करं गुरुम् ॥ ७॥ यदीयहस्तवारिजातसुप्रतिष्ठिता सती प्रसिद्धश‍ृङ्गभूधरे सदा प्रशान्तिभासुरे । स्वभक्तपालनव्रता विराजते हि शारदा स शङ्करः कृपानिधिः करोतु मामनेनसम् ॥ ८॥ इमं स्तवं जगद्गुरोर्गुणानुवर्णनात्मकं समादरेण यः पठेदनन्यभक्तिसंयुतः । समाप्नुयात् समीहितं मनोरथं नरोऽचिरात् दयानिधेः स शङ्करस्य सद्गुरोः प्रसादतः ॥ ९॥ इति श्रीभारतीतीर्थमहास्वामिभिः विरचितम् शङ्करभगवत्पूज्यपादाचार्यस्तवः सम्पूर्णम् ॥