अक्षर आकार:

श्रीशङ्करार्यपदावलम्व सुवर्णमालास्तुतिः

Shri Shankararyapadavalamva Suvarnamalastutih

श्रीशङ्करार्यपदावलम्व सुवर्णमालास्तुतिः

(श्रीकालटिक्षेत्रे) ओङ्कारपङ्कजमधुव्रत वेदशीर्ष- कञ्जातबालदिननाथ कृपासमुद्र । वृन्दारकेन्द्रपदतौच्छ्यमनःप्रदायिन् श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १॥ नत्वा पदाम्बुजनियुग्ममहो यदायं वाचस्पतित्वमधिगच्छति जन्ममूकः । स त्वं कृपार्णव सरोरुहपत्रनेत्र श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ २॥ मत्तो मनःप्रभव एष पुरा यदीय- नेत्राग्निनाऽऽप तरसा भसितस्वभावम् । स त्वं विरक्तिमचलां प्रवितीर्य मह्यं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३॥ शङ्कानिवारणपटो प्रणतव्रजस्य यं कालकाल इति कुम्भभवो जगाद । स त्वं वितीर्य परमायुरभीष्टपूगं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ४॥ कन्येव रूपगुणशालिनमादरेण मर्त्यं प्रमोदभरतः स्वयमेव मुक्तिः । यद्वाक्सुधाप्रणयिनं वृणुते हि स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ५॥ राजाधिराजपेदवीं तरसा प्रयाति यत्पादपङ्कजयुगं सकृदेव नत्वा । दीनाग्रयाम्यपि विना कमपि प्रयत्नं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ६॥ यत्यग्रयायिजनतावनबद्धदीक्ष तत्त्वं प्रबोध्य तरसा बहुलैः स्वकीयैः । ग्रन्थैश्च पूर्णकरुणाभरितैः कटाक्षैः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ७॥ स्तोत्रं त्वदङ्घ्रिकमलालितमानसेन सूक्तं पठेद्य इह भक्तियुतान्तरङ्गः । पात्रं भवेत्स खलु सर्वसुखस्य सत्यं न द्वापरोऽत्र विषये मनसापि कार्यः ॥ ८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीशङ्करार्यपदावलम्बसुवर्णमालास्तुतिः सम्पूर्णा ।