अक्षर आकार:

श्रीशङ्करार्यपदावलम्बस्तवः

Shri Shankararyapadavalambastavah

श्रीशङ्करार्यपदावलम्बस्तवः

(कालटिक्षेत्रे )॥ नाकादिलोकविरतिः प्रभवेद्दृढा य- द्वाक्यामृतश्रवणतोऽप्यतिकामुकस्य । स त्वं विरक्तिद जवात्पदनम्रपङ्क्त्यै श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १॥ अन्नासुचित्तमुखकोशविवेचनेन तत्त्वं परं द्रुततरं प्रतिबोधयंस्त्वम् । मोक्षप्रदायक पदाम्बुजसन्नतेभ्यः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २॥ क्लेशान्निवार्य कृपया तरसास्मितादीन् पञ्चापि साधनचतुष्टयमाशु दत्त्वा । बुद्धिं विचारपरमां प्रविधाय सम्यक् श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३॥ बद्‍ध्वा त्वदङ्घ्रिसरसीरुहभक्तिरज्ज्वा चेतःकपिं विषयकण्टकपादपेषु । छायाफलादिरहितेषु वृथा चरन्तं श्रीशङ्करार्य मम देहि पदावत्ठम्बम् ॥ ४॥ प्राणैर्विहीनतनयं तरसा समीप- मानीय रोदनकरौ पितरौ समीक्ष्य । यः प्रातनोदसुयुतं तनयं हि स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ५॥ भट्टादिभास्करसितेतरकण्ठमुख्यान् वादे विजित्य कुतुकाद्विदुषां वरेण्यान् । अद्वैतमार्गपरिरक्षणजागरूक श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ६॥ श्रीमत्प्रणीतशुकतातमुनीन्द्रसूत्र- भाष्यादिपाठनविधावधिकं पटुत्वम् । दत्वापि शून्यपरिमाणजडत्ववार्धेः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ७॥ भाष्याख्यपुष्परसपूर्णमुखारविन्द- नम्रान्तरङ्गमधुकृत्परितुष्टिदक्ष । रुद्राक्षकण्ठ निजनीलगलत्वसिद्‍ध्यै श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ८॥ आस्तिक्यरत्नमिह पुण्यचयेन लभ्यं कल्यम्बुधौ निपतितं तरसाऽऽर्यपाद । उद्धृत्य तेन परिपालय लोकमेनं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ९॥ योगप्रदायक जवान्नतमस्करिभ्यो भोगप्रदाथ गृहिणामविरक्तिभाजाम् । कालस्मयापह विपापजनेड्यपाद श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १०॥ छिन्नेऽपि शस्त्रनिचयैर्बहुधा शरीरे खेदं न कञ्चिदपि याति यथा मनो मे । तद्वत्स्थिरां कुरु मतिं सुखचित्स्वरूपे श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ११॥ अन्यैर्भिषग्भिरनिवार्यमहाऽऽमयं मे यस्मात्त्वमाद्यभिषगस्यचिरान्निवार्य । अज्ञानसंज्ञमतिनिश्चलबोधदाना- च्छ्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १२॥ वातावधूतवरुणालयभङ्गगर्व- भङ्गप्रचण्डवचसः प्रभवन्ति यत्ते । मूका अपि प्रणमनात्पदयोः सकृत्त- च्छ्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १३॥ लीनं तथा कुरु मनः परमार्थवस्तु- न्यैक्यावबोधनवशान्मम निःसरेन्न । यद्वत्पुनः परमकारुणिकाग्रगण्य श्रीशङ्करार्य मम देहि पदावद्‍ध्यबम् ॥ १४॥ संन्यासिनां हि विषवद्विषयेषु बुद्धिं तन्वस्तथा च गृहिणां शुभकर्मवाञ्छाम् । सर्वान्क्रमेण च परं पदमापयंस्त्वं श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ १५॥ यत्पादपङ्कजनतेरपि जातु मूक- लोकोऽपि दिव्यकवितामयते हि तूर्णम् । स त्वं तव स्तुतिकृते कवितां वितीर्य श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १६॥ आकर्ण्य दीनगृहिणीवचनं कृपार्द्रः स्वर्णात्मकामलकसन्ततिमासमन्तात् । गेहस्य योऽतितरसा हि ववर्ष स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १७॥ आनेष्ट दूरगनदीं जननीहिताय यो बाल्य एव जगतां हितकृत्स्वभावः स त्वं समस्तजनरक्षणबद्धदीक्ष श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १८॥ मोहाद्वृथा विरसगन्धविहीनशब्द- स्पर्शाख्यपुष्पचलनादतिखेदभाजम् । हृद्भृङ्गमात्मपदपद्मगतं विधाय श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १९॥ सर्वान्स्वकीयमततत्त्वपरीक्षणेच्छूं- स्तत्तन्मतार्थकथनेन विजित्य मोदम् । सर्वज्ञपीठमधिरुह्य य आप स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २०॥ शान्त्यादिसाधनवता पुरुषोत्तमेन सम्प्राप्य सद्गुरुमतः श्रवणादि कृत्वा । यः प्राप्यते विमलबोधतनुर्हि स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २१॥ श्रीनाथशम्भुविधिशुद्धपरात्मरूप काशान्तचञ्चलहृदां पदसन्नतानाम् । पाषाणनिश्चलमनस्त्वनिधानदक्ष श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २२॥ राजीवपादमुखलभ्यमनन्तपुण्यै राजाधिराजनिचयार्थितमन्वहं च । निर्व्याजपूर्णकृपयास्य वराकराजः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २३॥ वाचोऽपि चित्तसहिता न हि यत्र गन्तुं शक्ष्यन्ति तद्विषयतां कथमेति वस्तु । त्यक्त्वा कृपां गुरुवरस्य हि चित्स्वरूप श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २४॥ जाड्याम्बुधौ निरवधौ दृढमग्नमग्न- मत्यन्तविस्मृतचिदात्मसुखस्वरूपम् । उद्धृत्य धीरशनया तरसा कृपाब्धे श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २५॥ हस्ताम्बुजं शिरसि हेतुविहीनपूर्ण- कारुण्यतोऽतितरसा विनिधाय मत्के । स्वाराज्यमाशुवितरात्मपदेऽभिषिच्य श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २६॥ माता पिता च भगिनी तनुजश्च जाया नैवाश्रयाय पुरुषस्य भवन्ति काले । एकं विना गुरुवराङ्घ्रिपयःप्रभूतं श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ २७॥ सम्प्राप्तयोगसरणिं सदसद्विवेक- दक्षं दमादिगुणसम्भृतमानसं च । कृत्वा सरोजभवचित्तपयोजभानो श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ २८॥ श्रीशङ्करेति सततं परिकीर्तयन्ति पादाम्बुजं परगुरोर्हृदि चिन्तयन्ति । ये वै त एव सुखिनः पुरुषा हि लोके श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २९॥ मात्सर्यमुख्यभयहेतुमृगावर्कार्णे सङ्कल्पनामकमहाजवपक्षियुक्ते । स्वान्ताख्यघोरविपिने चरतः कृपाब्धे श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३०॥ वर्णाश्रमादिपरिपालनसक्तिमाशु दत्त्वा दृढां नृपततेरपि भूयसीं च । श्रद्धां श्रुतिस्मृतिततिष्वचलां च लक्ष्मीं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३१॥ आदौ तु साधनचतुष्टयहेतुभूतं पश्चाच्छ्रुतार्थपरिचिन्तनसाधनं च । अन्ते च दृश्यरहितात्मसुखप्रदं ते श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३२॥ विद्यानिधे विशदितानतचित्तपद्म विद्याप्रदाननिरताङ्घ्रिसरोजपूज । विष्ण्वीशभेदमतिवारणपञ्चवक्त्र श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३३॥ दक्षेण पाणिकमलेन विबोधमुद्रा- मन्येन नम्रवरदानसमर्थचिह्नम् । बिभ्राणपद्मनिभनेत्र कृपाम्बुराशे श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३४॥ श्रीकालटीधरणिभूषणभूतजन्मन् जन्मादिदुःखविनिवारणबद्धदीक्ष । कारुण्यपूर्णनयनावनिदेवभाग्य श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३५॥ वेदाविरुद्धमतसाधनबद्धदीक्ष वादे विजित्य तरसा क्षितिमण्डलं यः । अद्वैतरक्षणमहो कृतवांश्च स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३६॥ त्तत्त्वार्थबोधनविहीनहृदम्बुजस्य रागादिदोषपरिपूरितचेतसो मे । तत्त्वं विबोध्य विनिवार्य च रागरोगं श्रीशङ्करार्य मम देहि पदाबलम्बम् ॥ ३७॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीशङ्करार्यपदावलम्बस्तवः सम्पूर्णः ।