अक्षर आकार:

श्रीशङ्कराचार्यसुवर्णमाला स्तवराजः

Shri Shankaracharyasuvarnamala Stavarajah

श्रीशङ्कराचार्यसुवर्णमाला स्तवराजः

आकारार्थविबोधनचतुरं करुणार्द्रनयनकञ्जातम् । माण्डूक्यकारिकाम्बुजबालरविं नौमि शङ्कराचार्यम् ॥ १॥ नयनजितपङ्कजातं नतनयनाम्भोधिपूर्णचद्रमसम् । नवनीततुल्यहृदयं नौमि सदा शङ्कराचार्यम् ॥ २॥ मथितमदमानमारप्रभृतिबलिष्ठारिसर्वगर्वमहम् । मनसा स्मरामि सततं विरतिप्रदमाशु शङ्कराचार्यम् ॥ ३॥ शङ्करपरावतारं किङ्करपापौघपाटनपटिष्ठम् । पङ्कजपादमुखेड्यं तं कलये शङ्कराचार्यम् ॥ ४॥ कमलोद्भवरूपान्तरमण्डनमिश्रान्तरङ्गशुद्धिचणम् । शितिकण्ठापररूपं शिरसा प्रणतोऽस्मि शङ्कराचार्यम् ॥ ५॥ रामादिविषयविमुखीकरणसमर्थात्मवाक्ततिश्रवणम् । भूमानन्दप्रदपदनमनं प्रणमामि शङ्कराचार्यम् ॥ ६॥ यतिपतिपूजितपादं नतिमात्रप्रापितात्मदृढबुद्धिम् । श्रीशेशांशप्रभवं श्रीमन्तं नौमि शङ्कराचार्यम् ॥ ७॥ शङ्करगुरुवरकरुणालेशास्पदतास्वरूपयोग्येन । रचिता स्तुतिर्गुरूणां प्रीत्यै भूयाद्यतिब्रुवेणेयम् ॥ ८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीशङ्कराचार्यसुवर्णमालास्तवराजः सम्पूर्णः ।