अक्षर आकार:

शङ्कराचार्यसुवर्णमालास्तवः

Shankaracharyasuvarnamalastavah

शङ्कराचार्यसुवर्णमालास्तवः

ओमिति दिविषत्प्रवराः शीर्षे कुर्वन्ति शासनं यस्य । ओङ्कारपद्मभृङ्गं तमहं प्रणमामि शङ्कराचार्यम् ॥ १॥ नत्वा यत्पदयुग्मं वाचस्पतिगर्वहारिवाक्ततयः । प्रभवन्ति हि भुवि मूकास्तमहं प्रणमामि शङ्कराचार्यम् ॥ २॥ मन्मथमातङ्गजये कण्ठीरवतां प्रयाति जनसङ्घः । यत्पादाम्बुजनत्या तमहं प्रणमामि शङ्कराचार्यम् ॥ ३॥ शम्पा प्राप पुरात्तैः पुण्यैर्नूनं यदीयतनुसाम्यम् । शङ्कादुर्द्रुमपरशुं तमहं प्रणमामि शङ्कराचार्यम् ॥ ४॥ कम्बुस्तपञ्जलान्तर्न प्राप तुला यदीयकण्ठस्य । काङ्क्षितदानधुरीणं तमहं प्रणमामि शङ्कराचार्यम् ॥ ५॥ राजाधिराजपदवीं सद्यः प्राप्नोति दीनधौरेयः । यस्यापाङ्गालोकात्तमहं प्रणमामि शङ्कराचार्यम् ॥ ६॥ यमनियमाद्यङ्गयुतो योगः सुलभो यदीयपदभाजाम् । यमभीतिभञ्जनकरं तमहं प्रणमामि शङ्कराचार्यम् ॥ ७॥ स्तवराजं गुरुकृपया कृतवान् श्रीसच्चिदानन्दः । अवनौ भक्त्या पठतां शं तनुताच्छङ्कराचार्यः ॥ ८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीशङ्करचार्यसुवर्णमालास्तवः सम्पूर्णः ।