अक्षर आकार:

श्रीशङ्कराचार्यस्तोत्रकदम्बम्

Shri Shankaracharyastotrakadambam

श्रीशङ्कराचार्यस्तोत्रकदम्बम्

(कालटिक्षेत्रे) चिन्मुद्रां दक्षहस्ते प्रणतजनमहाबोधदात्रीं दधानं वामे नम्रेष्टदानप्रकटनचतुरं चिह्नमप्यादधानम् । कारुण्यापारवार्धिं यतिवरवपुषं शङ्करं शङ्करांशं चन्द्राहङ्कारहुङ्कृत्स्मितलसितमुखं भावयाम्यन्तरङ्गे ॥ १॥ बीजमिदं मत्पादप्रपतनमखिलेप्सितार्थपूगस्य । इति बोधनाय धत्से चिन्मुद्रां किं यतीशान ॥ २॥ मायावशाज्जगदिदमनुक्षणं भिन्नभिन्नमाभाति । इति बोधनाय गुरुराडरूपमपि रक्तमम्बरं धत्से ॥ ३॥ यतिवेषधरणकाले त्यक्ता नागेश्वराः किं त्वाम् । अधुना मालाव्याजात्सेवन्ते शङ्कर ब्रूहि ॥ ४॥ गुरुवर पाहि सदा मां नतवरवरदानचण्ड धृतदण्ड । अकलङ्कक्षयहीनस्वयशश्चन्द्रप्रकाशिताशान्त ॥ ५॥ सोमसदृक्षमुखाब्जं कोमलपदयुग्मविजितकञ्जातम् । सीमविहीनकृपाब्धिं श्यामग्रीवावतारगुरुमीडे ॥ ६॥ शङ्करगुरुराड्गगनं हंसाद्यैः पक्षिभिः सदा सेव्यम् । करुणामारुतपूरितमनिशं ध्यायामि हृत्सरोजेऽहम् ॥ ७॥ अज्ञानाभिधवृत्रगर्वहरणं विज्ञानवज्रोल्लस- त्पाणिं काममुखासुरक्षयकरं स्वात्माभिधस्वर्गदं किञ्च प्रौढविवेकनामकजयन्तोद्यन्निजोत्सङ्गकं श्रीमच्छङ्करनामकं हृदि सदा कुर्वे यतीन्द्रं मुदा ॥ ८॥ शङ्करगुरुराट्तार्क्ष्यं पापोरगदर्पचर्वणधुरीणम् । लघ्वाऽऽकाशगतिप्रदमनिशं प्रणमामि नित्यवियदाप्त्यै ॥ ९॥ अज्ञोऽप्यश्रुतशास्त्राण्याशु किल व्याकरोति यत्कृपया । निखिलकलाधिपमनिशं तमहं प्रणमामि शङ्कराचार्यम् ॥ १०॥ विलोक्य त्वामब्जं शिरसि निदधानं हि सततं पयोजं चाप्यागाद्वहति कृपया मामपि गुरुः । अहं चाप्यब्जं खल्वत इति तदाशानुसरणा- त्पयोजं धत्से किं शिरसि वद नम्राय यतिराट् ॥ ११॥ आधारादिषडम्बुजानि गुरुणा योगेन भित्त्वा चिरा- च्छीर्षस्थं च सहस्रपत्रजलजं सम्प्राप्य सौख्यं परम् । यत्प्राप्स्यन्ति तदाशु मत्प्रणमनाद्भूयादिति ख्यापनं कर्तुं फुल्लसरोजसप्तकमहो धत्से गुरूणां गुरो ॥ १२॥ अष्टाङ्गयोगमचिराल्लभते मत्पादनम्रलोका इति । बोधयितुं धत्से किं कमलान्यष्टौ गुरो ब्रूहि ॥ १३॥ अणिमादिसिद्धिलक्ष्यो वरयन्त्यष्टापि सत्वरं भक्तम् । इति बोधनाय जगतां धत्से कमलाष्टकं गुरो ब्रूहि ॥ १४॥ फाले नेत्रं गरलगलतां चेदहं धारयामि स्युर्भीता मे नतजनवरा नैव सामीप्यमीयुः । इत्येतेषां भयहृतिकृते नेत्रयुग्मं सितां किं ग्रीवां धत्से यतिवर शिव ब्रूहि नम्राय मह्यम् ॥ १५॥ भासते हृदि सदा परमात्मा संवसन्ति निगमाश्च मुखाब्जे । यत्पदप्रणमनाज्जनताया- स्तं नमामि सततं यतिवीरम् ॥ १६॥ वाञ्छितं मम जवाद्वितरार्य प्राणदानचतुरोऽसि मृतस्य । अप्यसाध्यमिह तेऽस्ति जगत्यां किं वदाशु गुरुशङ्कर मह्यम् ॥ १७॥ जन्ममृत्युहरणीं तव वक्त्रा- म्भोजनिःसृतसुधां न पिबामि । भाष्यसंज्ञलसितां वितरारं देशिकेन्द्र मम पाण्यवलम्बम् ॥ १८॥ मायामयाशेषविशेषशून्य मानातिगस्वप्रभ चित्स्वरूप । देहेन्द्रियप्राणमनोविदूर श्रीशङ्कर त्वत्पदयोः पतामि ॥ १९॥ आसेतुशीताचलमध्यवर्तिजनान्निजाचारपरान्विरच्य । सौख्यं प्रयच्छाशु च सर्वकार्येष्वेषां कृपासागर शङ्करार्य ॥ २०॥ करोमि कायेन तवाङ्घ्रिसेवां ब्रवीमि वाचा तव पुण्यनाम । ध्यायामि मूर्तिं तव हृत्सरोजे प्रसीद शीघ्रं यतिराज मह्यम् ॥ २१॥ एकान्तवासादरमात्मनिष्टामनन्यदेवत्वमजामितां च । त्वत्काखिलग्रन्थविलोकने त्वं दत्त्वा यतीनां वर पाहि नम्रम् ॥ २२॥ कदापि कुत्रापि किमप्यकार्यं नाहं प्रकुर्यां बहु हिंसितोऽपि । यथा तथा मानसदार्ढ्यमाशु दत्त्वा गुरूणां वर पाह्यमुष्मै ॥ २३॥ घोरापस्मृतिमुख्यरोगनिचयाहङ्कारमाराज्जवा- त्कुर्वाणं नतलोकरक्षणचणं योगप्रदं सत्वरम् । देवप्रार्थनयाऽऽत्तभूतलगतिं धर्मैकसंस्थापन- व्यग्रं शङ्करदेशिकं हृदि सदा कुर्वे मनःशुद्धये ॥ २४॥ उद्यद्भानुसहस्रगर्वहरणप्राशस्त्ययुग्वस्त्रधृ- क्सङ्ख्याहीनशमादिसद्गुणगणैरत्यादरात्सेवित । श्रीमत्पद्मपदामरेशकरधात्र्याद्यैर्विनेयैर्युत श्रीमच्छङ्करदेशिकेन्द्र चरणालम्बं प्रयच्छाशु मे ॥ २५॥ मय्यप्रार्थितमेव ते प्रसरतु व्याजानपेक्षा कृपा पापानां श्वपचैर्भियापि परया तद्वज्जुगुप्सावशात् । त्यक्तानां सदनेऽपि तेन महती स्यात्ते समज्ञा प्रभो किं रात्रिन्दिवपुण्यकर्तृषु कृपाधानेन भूयाद्गुरो ॥ २६॥ शुद्धाद्वैतपथस्य पालनकृते पूर्वं त्वया स्थापित- स्थानेष्वन्यतमस्थशिष्यततिगस्तत्कार्यकृत्यक्षमः । अज्ञानां धुरि कीर्तनीयचरितो नाद्यापि विद्यालय- स्तस्मात्स्थानमिदं गुरूत्तम कृपावार्धे त्वमेवाश्रय ॥ यद्वा दुर्मतभेदपाटववतीं मेधां नवोन्मेषिणीं विद्यामश्रुतशास्त्रपाठनचणां दद्या द्रुतं चेद्गुरो । साहाय्यं च सुधन्वपार्थिवसदृग्राजावलेस्तर्ह्यहं त्वद्वीक्षाबलतो यते यतिपते तत्त्वाध्वसंवृद्धये ॥ २८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीशङ्कराचार्यस्तोत्रकदम्बं सम्पूर्णम् ।