अक्षर आकार:

श्रीमज्जगद्गुरुशङ्कराचार्यपदावलम्बनस्तुती

shrImajjagadgurushaMkarAchAryapadAvalambanastutiH

श्रीमज्जगद्गुरुशङ्कराचार्यपदावलम्बनस्तुती

ओमित्यशेषविबुधाः शिरसा यदाज्ञां सम्बिभ्रते सुममयीमिव नव्यमालाम् । ओङ्कारजापरतलभ्यपदाब्ज स त्वं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ १॥ नम्रालिहृत्तिमिरचण्डमयूखमालिन् कम्रस्मितापहृतकुन्दसुधांशुदर्प । सम्राड्यदीयदयया प्रभवेद्दरिद्रः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ २॥ मस्ते दुरक्षरततिर्लिखिता विधात्रा जागर्तु साध्वसलवोऽपि न मेऽस्ति तस्याः । लुम्पामि ते करुणया करुणाम्बुधे तां श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ३॥ शम्पालतासदृशभास्वरदेहयुक्त सम्पादयाम्यखिलशास्त्रधियं कदा वा । शङ्कानिवारणपटो नमतां नराणां श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ४॥ कन्दर्पदर्पदलनं कितवैरगम्यं कारुण्यजन्मभवनं कृतसर्वरक्षम् । कीनाशभीतिहरणं श्रितवानहं त्वां श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ५॥ राकासुधाकरसमानमुखप्रसर्प- द्वेदांतवाक्यसुधया भवतापतप्तम् । संसिच्य मां करुणया गुरुराज शीघ्रं श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ६॥ यत्नं विना मधुसुधासुरदीर्घकाव- धीरिण्य आशु वृण(णु)ते स्वयमेव वाचः । तं त्वत्पदाब्जयुगलं बिभृते हृदा यः श्रीशङ्करार्य मम देहि पदावलम्बम् ॥ ७॥ श्रीशङ्करार्यकरुणावशतः प्रणीतं स्तोत्रं तदीयमनुवर्णयुतं तदङ्घ्र्योः । भक्त्या समर्पितमिदं पठतां नराणां विद्याविरक्तिमतुलां गुरुराट् तनोतु ॥ ८॥ इति श्रीचन्द्रशेखरभारतीमहास्वमिभिः विरचितम् आचार्यपदावलम्बनस्तुतिः सम्पूर्णं ।