अक्षर आकार:

श्रीशङ्कराचार्याष्टकम्

ShrI Shankaracharyashtakam

श्रीशङ्कराचार्याष्टकम्

श्रीगणेशाय नमः । अथ श्रीशङ्कराचार्याष्टकम् । धर्मो ब्रह्मेत्युभयविषयं ज्ञापयत्येव वेदो नायं लोके पुरुषमतिजः काव्यकल्पानुकल्पः । प्रामाण्यं च स्वयमिह भवेदित्यनूद्दिष्टवन्तं भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ १॥ धर्मो नित्यं विधिविषयतो ज्ञापयत्येष वेद- स्तस्मिन्निष्ठा द्विविधमुदिता कामजाकामजाभ्याम् । काम्यं कर्म त्रिदिवभुवनायेत्यनूद्दिष्टवन्तं भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ २॥ कामापेतं भवति मनसः शोधनायात्र लोके तस्मान्नूनं विविदिषति ना साधनैः संयुतः सन् । तस्माद्धर्मं चरत मनुजा इत्यनूद्दिष्टवनतं भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ ३॥ वेदो यस्मिन् विधिमुखभिदा षड्विधः शास्त्रसिद्धो वैधो भेदो दशहतशतं पूर्वतन्त्रे प्रसिद्धः । धर्माद्यर्थः प्रमितिपुरतश्चेत्यनूद्दिष्टवन्तं भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ ४॥ अद्वैतार्थग्रहणपटुतां पूर्वतन्त्रानुकूलं शास्त्राज्ज्ञात्वा कुरुत सुधियो धर्मचर्यां यथार्थम् । नोचेत्कष्टं नरकगमनं चेत्यनूद्दिष्टवन्तं भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ ५॥ द्वैतं मिथ्या यदि भवति चेत्प्राप्यतेऽद्वैतसिद्धि- स्तस्याः प्राप्त्यै प्रथममधुना साध्यते द्वैतनिष्ठम् । मिथ्यात्वं यच्छ्रुतिशतगतं चेत्यनूद्दिष्टवन्तं भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ ६॥ नाना नेहेत्युपदिशति वाग्द्वैतमिथ्यात्वसिद्ध्यै द्वैतं मिथ्या परिमितिगतेर्दृश्यतः स्वप्नवत्स्यात् । एवंरूपा ह्यनुमितिमितिशेत्यनूद्दिष्टवन्तं भाष्याचार्यं प्रणमत सदा शङ्करं न्यासिवर्यम् ॥ ७॥ एवं मिथ्या जगदिदमिति ज्ञायतां निश्चयेन ब्रह्माहं चेत्यलमनुभवः प्राप्यतां वेदवाक्यात् । शान्तो भूयात् तदनु च सुखं चेत्यनूद्दिष्टवन्तं शान्त्यानन्दः प्रणमति यतिः शङ्कराचार्यमूर्तिम् ॥ ८॥ शान्त्यानन्दसरस्वत्या कृतं शाङ्करमष्टकम् । यः पठेद्भक्तिसंयुक्तः स सर्वां सिद्धिमाप्नुयात् ॥ ९॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीशान्त्यानन्दसरस्वतिविरचितं श्रीशङ्कराचार्याष्टकं समाप्तम् ॥