अक्षर आकार:

शक्रस्तवः

Shakrastavah

शक्रस्तवः

सिद्धसेनदिवाकरसूरिविरचितः शक्रस्तवः । ध्यानम् । सर्वे जीवा उपादेया शक्तिरूपाः शिवात्मकाः । व्यक्तिरूपोल्लसन् मोक्षाः पञ्चभिः परमेष्ठिनः ॥ अथ शक्रस्तवः । ॐ नमोऽर्हते भगवते परमात्मने परमज्योतिषे परमपरमेष्ठिने परमवेधसे परमयोगिने परमेश्वराय तमसःपरस्तात् सदोदितादित्यवर्णाय समूलोन्मूलिता-नादि-सकल-क्लेशाय ॥ १॥ ॐ नमोऽर्हते भूभुर्वःस्वस्त्रयीनाथ-मौलि-मन्दारमालार्चित-क्रमाय सकल-पुरुषार्थ-योनि निरवद्य-विद्याप्रवर्तनैक-वीरायनमः स्वस्ति-स्वधास्वाहा-वषऽर्थै-कान्त-शान्त-मूर्त्तये भवद् भावि- भूत-भावावभासिने कालपाश-नाशिने सत्त्व-रजस्तमो-गुणातीताय अनन्तगुणाय वाङमनोऽगोचर-चरित्राय पवित्राय करण-कारणाय तरणतारणाय सात्त्विक-दैवताय तात्त्विक-जीविताय निर्ग्रन्थ-परम-ब्रह्म-हृदयाय योगीन्द्र प्राणनाथाय त्रिभुवन- भव्य-कुलनित्योत्सवाय विज्ञाना-नन्द-परब्रह्मै-कात्म्यसात्म्य-समाधये हरि-हर-हिरण्यगर्भादि-देवतापरिकलित-स्वरूपाय सम्यक्-श्रद्धेयाय सम्यक्-श्रद्धेयाय सम्यक् शरण्याय सुसमाहित-सम्यक् स्पृहणीयाय ॥ २॥ ॐ नमोऽर्हते भगवते आदिकराय तीर्थङ्कराय स्वयंसम्बुद्धाय पुरुषोत्तमाय पुरुषसिंहाय पुरुषवरपुण्डरीकाय पुरुषवर-गन्धहस्तिने लोकोत्तमाय लोकनाथाय लोकहिताय लोक प्रदीपाय लोकप्रद्योतकारिणे अभयदाय दृष्टिदाय मुक्तिदाय मार्गदाय बोधिदाय जीवदाय शरणदाय धर्मदाय धर्मदेशकाय धर्मनायकाय धर्मसारथये धर्म-वर-चातुरन्तचक्रवर्तिने व्यावृत्त-च्छद्मने अप्रतिहत-सम्यग्ज्ञान-दर्शन-सद्मने ॥ ३॥ ॐ नमोऽर्हते जिनाय जापकाय तीर्णाय तारकाय बुद्धाय बोधकाय मुक्ताय मोचकाय त्रिकालविदे पारङ्गताय कर्माष्टक-निषूदनाय अधीश्वराय शम्भवे जगत्प्रभवे स्वयम्भुवे जिनेश्वराय स्याद्वादवादिने सार्वाय सर्वज्ञाय सर्वदर्शिने सर्वतीर्थो-पनिषदे सर्वपाषण्डमोचिने सर्वयज्ञफलात्मने सर्वज्ञकलात्मने सर्वयोगरहस्याय केवलिने देवादिदेवाय वीतरागाय ॥ ४॥ ॐ नमोऽर्हते परमात्मने परमाप्ताय परमकारुणिकाय सुगताय तथागताय महाहंसाय हंसराजाय महासत्त्वाय महाशिवाय महाबोधाय महामैत्राय सुनिश्चिताय विगत-द्वन्द्वाय गुणाब्धये लोकनाथाय जित-मार-बलाय ॥ ५॥ ॐ नमोऽर्हते सनातनाय उत्तम-श्लोकाय मुकुन्दाय गोविन्दाय विष्णवे जिष्णवे अनन्ताय अच्युताय श्रीपतये विश्वरूपाय हृषीकेशाय जगन्नाथाय भूर्भुवः -स्वः समुत्ताराय मानञ्जराय कालञ्जराय ध्रुवाय अजाय अजेयाय अजराय अचलाय अव्ययाय विभवे अचिन्त्याय असङ्ख्येयाय आदि-सङ्ख्याय आदि-केशवाय आदि-शिवाय महाब्रह्मणे परमशिवाय एका-नेकानन्त-स्वरूपिणे भावा-भाव-विवर्जिताय अस्ति-नास्ति-द्वयातीताय पुण्य-पाप-विरहिताय सुख-दुःख-विविक्ताय व्यक्ता-व्यक्त-स्वरूपाय अनादि-मध्य-निधनाय नमोऽस्तु मुक्तीश्वराय मुक्ति-स्वरूपाय ॥ ६॥ ॐ नमोऽर्हते निरातङ्काय निःसङ्गाय निःशङ्काय निर्मलाय निर्द्वन्द्वाय निस्तरङ्गाय निरुर्मये निरामयाय निष्कलङ्काय परमदैवताय सदाशिवाय महादेवाय शङ्कराय महेश्वराय महाव्रतिने महायोगिने महात्मने पञ्चमुखाय मृत्युञ्जयाय अष्टमूर्तये भूतनाथाय जगदानन्दाय जगत्पितामहाय जगत्देवाधिदेवाय जगदीश्वराय जगदादिकन्दाय जगद्भास्वते जगत्-कर्मसाक्षिणे जगच्चक्षुषे त्रयीतनवे अमृतकराय शीतकराय ज्योतिश्चक्र-चक्रिणे महाज्योति-र्द्योतिताय महातमः पारेसुप्रतिष्ठिताय स्वयङ्कर्त्रे स्वयंहर्त्रे स्वयम्पालकाय आत्मेश्वराय नमो विश्वात्मने ॥ ७॥ ॐ नमोऽर्हते सर्वदेवमयाय सर्व ध्यानमयाय सर्वज्ञानमयाय सर्वतेजोमयाय सर्वमन्त्रमयाय सर्वरहस्यमयाय सर्व-भावाभाव-जीवाजीवेश्वराय अरहस्य-रहस्याय अस्पृह-स्पृहणीयाय अचिन्त्य-चिन्तनीयाय अकामकामधेनवे असङ्कल्पित-कल्पद्रुमाय अचिन्त्य-चिन्तामणये चतुर्दश-रज्ज्वात्मक जीवलोक-चूडामणये चतुरशीति-लक्ष-जीवयोनि-प्राणिनाथाय पुरुषार्थ नाथाय परमार्थनाथाय। अनाथनाथाय जीवनाथाय देव-दानव-मानव-सिद्धसेनाधि-नाथाय ॥ ८॥ ॐ नमोऽर्हते निरञ्जनाय अनन्त-कल्याण निकेतन-कीर्तनाय सुगृहीत-नामधेयाय महिमामयाय धीरोदात्त-धीरोद्धत-धीरशान्त- धीरललित-पुरुषोत्तम-पुण्यश्लोक-शत-सहस्र-लक्ष-कोटि- वन्दितपादार-विन्दाय सर्वगताय ॥ ९॥ ॐ नमोऽर्हते सर्वसमर्थाय सर्वप्रदाय सर्वहिताय सर्वाधिनाथाय कस्मैचन क्षेत्राय पात्राय तीर्थाय पावनाय पवित्राय अनुत्तराय उत्तराय योगाचार्याय संप्रक्षालनाय प्रवराय आग्नेयाय वाचस्पतये माङ्गल्याय सर्वात्मनीनाय सर्वार्थाय अमृताय सदोदिताय ब्रह्मचारिणे तायिने दक्षिणीयाय निर्विकाराय वजर्षभ-नाराच-मूर्त्तये तत्त्वदर्शिने पारदर्शिने परमदर्शिने निरुपमज्ञान-बल-वीर्यतेजः-शक्त्यैश्वर्य मयाय आदिपुरुषाय आदि-परमेष्ठिने आदिमहेशाय महाज्योतिःसत्त्वाय महार्चिर्धनेश्वराय महा-मोह-संहारिणे महासत्त्वाय महाज्ञामहेन्द्राय महालयाय महाशान्ताय महायोगीन्द्राय अयोगिने महामहीयसे महाहंसाय हंसराजाय महासिद्धाय शिव-मचल-मरुज-मनन्त-मक्षय-मव्याबाध-मपुनरावृत्ति- महानन्दं महोदयं सर्वदुःखक्षयं कैवल्यममृतं निर्वाणमक्षरं परब्रह्म निः श्रेयसमपुनर्भवं सिद्धिगति-नामधेयं-स्थानसंप्रान्तवते चराचर-मवते नमोऽस्तु श्रीमहावीराय त्रिजगत्स्वामिने श्रीवर्धमानाय ॥ १०॥ ॐ नमोऽर्हते केवलिने परमयोगिने (भक्तिमार्गयोगिने) विशाल-शासनाय सर्वलब्धि सम्पन्नाय निर्विकल्पाय कल्पनातीताय कला कलाप-कलिताय विस्फुर-दुरु-शज्ज-ध्यानाग्नि-निर्दग्धकर्मबीजाय प्राजानन्त-चतुलयाय सौम्याय शान्ताय मङ्गल-वरदाय अष्टादशदोष-रहिताय संसृत-विश्व-समीहिताय स्वाहा ॥ ११॥ ॥ ॐ ह्रीँ श्रीँ अर्हँ नमः ॥ लोकोत्तमो वन्दना - लोकोत्तमो निष्पतिमस्त्वमेव, त्वं शाश्वतं मङ्गलमप्यधीश त्वामेकमर्हन् ! शरणप्रपद्ये, सिद्धर्षिसद्धर्ममयस्त्वमेव ॥ १॥ त्वं मे माता पिता नेता देवो धर्मो गुरुः परः प्राणाः स्वर्गोऽपवर्गश्च सत्त्वं तत्त्वं गतिर्मतिः ॥ २॥ जिनो दाता जिनो भोक्ता, जिनः सर्वमिदं जगत् । जिनोजयतिसर्वत्र, योजिनःसोऽहमेव च ॥ ३॥ यत्किश्चित्कुर्महे देवः सदासुकृतदुकृतम् । तन्मे निजपदस्थस्य, हुं क्षः क्षपय त्वं जिन ! ॥ ४॥ गुह्यातिगुह्य गोप्ता त्वं, गहाणास्मत्कुतं जपम् । सिद्धिः श्रयति मां येन, त्वत्प्रसादात्त्वयि स्थितम् ॥ ५॥ फलश्रुति इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग् दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, चराचरेऽपि जीवलोके सद्वस्तु तन्नास्ति यत्करतलप्रणयि न च भवतीति । किं च ॥ १॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग् दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकवासिनो देवाः सदा प्रसीदन्ति व्याधयो विलीयन्ते ॥ २॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यगदृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं, भवान्तरकृता-ऽसङ्ख्य-पुण्य-प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, पृथिव्यप्-तेजोवायु-गगनानि भवन्त्यनुकुलानि ॥ ३॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादशमन्त्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यक्-दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं, भवान्तरकृता-ऽसङ्ख्य पुण्यप्यसम्यगजपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, सर्वसम्पदा मूलं जायते जिनानुरागः ॥ ४॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रद, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यगदृष्टि-भद्रक-देवताशत-सहस्र-शुश्रूषितं, भवान्तरकृताऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, साधवः सौमनस्येनानुग्रहपरां जायन्ते ॥ ५॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषद्गर्भं, अष्ट्यहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेकन्मम्यगदृतिभद्रक-देवतान्यात-सस्म-शुमूवितं, भवान्तरकृतह्णऽसङ्ख्यपुण्यप्राप्यसम्यत्जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, खलाः क्षीयन्ते ॥ ६॥ इतीमं पूर्वोक्तमिन्द्रस्तयैकादश मन्त्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणंः सर्वपुण्यकारणं, सर्वक्षेषह्म, सर्वगुणाकरं, महाप्रभावं, अनेकन्मम्ययष्टिःभद्रक-देवतक्ष्यशत-सहस्रन्दामूषितं, भवान्तरकृता-ऽसङ्ख्यपुण्यप्राप्यसम्यगजपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, जल-स्थल-गगनचराः क्रूरजन्तवोऽपि मैत्रीमया जायन्ते ॥ ७॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मत्रराजोपनिषदार्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, नेकन्मम्यणतिभद्रकब्देवतक्ष्यशत-सहस्र-शुभूवितं) भवान्तरकृता-ऽसङ्ख्यपुण्यप्राप्यसम्यगजपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, अधमवस्तून्यपि उत्तमवस्तुभाव प्रपद्यन्ते ॥ ८॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग् दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, धर्मार्थकामा गुणाभिरामा जायन्ते ॥ ९॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग् दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, ऐहिक्यःसर्वाअपिशुद्धगोत्र-कलत्रत्यव्र-मित्र-थन-थान्य- जीवित-यौवन-रूपाऽऽरोग्य-यशः-पुरस्मराः सर्वजनानां सम्पदः परभाव-जीवित-शालिन्यः सदुदर्काः सुसम्मुखी भवन्ति । किं बहुना? ॥ १०॥ इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मन्त्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग् दृष्टि-भद्रक-देवता-शत-सहस्र-शुश्रूषितं भवान्तरकृता-ऽसङ्ख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श‍ृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, आमुष्मिक्यः सर्वमहिमास्वर्गापवर्गश्रियोऽपि क्रमेण यथेष्ठं (च्छ) स्वयं स्वयंवरणोत्सव समुत्सुका भवन्तीति । सिद्धिः ( दः) श्रेयः समुदयः ॥ ११॥ यथेन्द्रेण प्रसन्नेन, समादिष्टोऽर्हतां स्तवः । तथाज्यं सिद्धसेनेन, प्रपेदे सम्पदां पदम् ॥ १॥ ॥ इति श्रीसिद्धसेनदिवाकरसूरि विरचितः वर्धमान शक्रस्तवः सम्पूर्णः ॥ ॥ नमुत्थुणं सूत्र ॥ नमुत्थुणं, अरिहन्ताणं, भगवन्ताणं १ आइगराणं, तित्थयराणं, सयंसम्बुद्धाणं २ पुरिसुत्तमाणं, पुरिस सीहाणं, पुरिसवर पुण्डरीआणं, पुरिसवर गन्धहत्थीणं ३ लोगुत्तमाणं, लोग नाहाणं, लोग हिआणं, लोग पईवाणं, लोग पज्जो अगराणं ४ अभयदयाणं, चक्खुदयाणं, मग्गदयाणं, सरणदयाणं, बोहिदयाणं ५ धम्मदयाणं, धम्मदेसयाणं, धम्मनायगाणं, धम्मसारहीणं, धम्म-वर-चाउरन्त-चक्कवट्टीणं ६ अप्पडिहय वरनाण दंसणधराणं, वियट्ट छौमाणं ७ जिणाणं, जावयाणं, तिन्नाणं, तारयाणं, बुद्धाणं, बोहयाणं, मुत्ताणं, मोअगाणं ८ सव्वन्नूणं, सव्व-दरिसीणं, सिव-मयल-मरुअ-मणन्त- मक्खय-मव्वाबाह-मपुणरावित्ति सिद्धिगै-नामधेयं ठाणं सम्पत्ताणं, नमो जिणाणं, जिअ-भयाणं ९ जे अ अईया सिद्धा, जे अ भविस्सन्ति-णागए काले सम्पै अ वट्टमाणा, सव्वे ति-विहेण वन्दामि १० ॥ इति नमुत्थुणं सूत्र सम्पूर्ण ॥