अक्षर आकार:

शास्तृ पञ्चकं

shAstR^i pa~ncakaM

शास्तृ पञ्चकं

पादारविन्द भक्तलोकपालनैकलोलुपं सदारपार्श्वमात्मजाति मोदकं सुराधिपम् । उदारमादि भूतनाथमद्भुतात्मवैभवं सदा रवीन्दुकुण्डलं नमामि भाग्यसंभवम् ॥ १ कृपाकटाक्षवीक्षणं विभूति वेत्रभूषणं सपावनं सनातनादि सत्यधर्म पोषणं अपारशक्तियुक्तमात्मलक्षणं सुलक्षणं प्रभामनोहरं हरीशभाग्यसंभवं भजे ॥ २ मृगासनं वरासनं शरासनं महैजसं जगधितं समस्तभक्त चित्तरंगसंस्थितम् । नगाधिराजराजयोगपीठमध्यवर्तिनं मृगाङ्कशेखरं हरीशभाग्यसंभवं भजे ॥ समस्तलोक चिन्तितप्रदं सदा सुखप्रदं समुथितापदन्धकारकृन्तनं प्रभाकरम् । अमर्त्य नृत्तगीतवाद्यलालसं मदालसं नमस्करोमि भूतनाथमादिधर्मपादुकम् ॥ ४ चराचरान्तर स्थित प्रभामनोहर प्रभो सुरासुरार्चितांघ्रि पद्मयुग्म भूतनायक । विराजमानवक्त्र भक्तमित्र वेत्रशोभित हरीशभाग्यजात साधुपारिजात पाहि माम् ॥ इति श्री शास्तृ पञ्चकं सम्पूर्णम् ॥