शास्तृ भुजङ्गस्तोत्रम्
श्रितानन्दचिन्तामणिश्रीनिवासं
सदा सच्चिदानन्द पूर्णप्रकाशम् ।
उदारं सदारं सुराधारमीशं
परंज्योतिरूपं भजे भूतनाथम् ॥ १॥
विभुं वेदवेदान्तवेद्यं वरिष्टं
विभूतिप्रदं विश्रुतं ब्रह्मनिष्टम् ।
विभास्वत् प्रभावप्रभं पुष्कलेषुं
परंज्योतिरूपं भजे भूतनाथम् ॥ २॥
परित्राणदक्षं परब्रह्मसूत्रं
स्फंरचारुगात्रं भवध्वान्तमित्रम् ।
परं प्रेमपात्रं पवित्रं विचित्रं
परंज्योतिरूपं भजे भूतनाथम् ॥ ३॥
परेशं प्रभुं पूर्णकारुण्यरूपं
गिरीशाधिपीठोज्वलः चारुदीपम् ।
सुरेशादि संसेवितं सुप्रतापं
परंज्योतिरूपं भजे भूतनाथम् ॥ ४॥
गुरुं पूर्णलावण्य पादादिकेशं
गरिषुं महाकोटिसूर्यप्रकाशम् ।
करांभोरुहन्यस्तवेत्रं सुरेशं
परंज्योतिरूपं भजे भूतनाथम् ॥ ५॥
हरीशान संयुक्त शक्त्येकवीरं
किरातावतारं कृपापाङ्गपूरम् ।
किरीटावतंसोज्वलत्पिञ्चबारं
परंज्योतिरूपं भजे भूतनाथम् ॥ ६॥
महायोगपीठे ज्वलन्तं महान्तं
महावाक्यसारोपदेशं सुशान्तम् ।
महर्षिप्रहर्षप्रदं ज्ञानकन्दं
परंज्योतिरूपं भजे भूतनाथम् ॥ ७॥
महारण्यमन्मानसान्तर् निवासा-
नहङ्कार दुर्वारहिम्स्रान् मृगादीन् ।
निहन्तुं किरातावतारं चरन्तं
परंज्योतिरूपं भजे भूतनाथम् ॥ ८॥
पृथिव्यादि भूत प्रपञ्चान्तरस्थं
पृतग् भूतचैतन्यजन्यं प्रशस्तम् ।
प्रधानं प्रमाणं पुराणं प्रसिद्धं
परंज्योतिरूपं भजे भूतनाथम् ॥ ९॥
जगज्जीवनं पावनं भावनीयं
जगद्व्यापकं दीपकं मोहनीयम् ।
सुखाधारमाधारभूतं तुरीयं
परंज्योतिरूपं भजे भूतनाथम् ॥ १०॥
इहामुत्रसत्सौख्य सम्पन्निधानं
महद्योनिमव्याहृतात्माभिधानम् ।
अहः पुण्डरीकाननं दीप्यमानं
परंज्योतिरूपं भजे भूतनाथम् ॥ ११॥
त्रिकालस्थितं सुस्थिरं ज्ञानसम्स्थं
त्रिधामत्रिमूर्त्यात्मकं ब्रह्मसम्स्थम् ।
त्रयीमूर्तिमार्तिः छिदं शक्तियुक्तं
परंज्योतिरूपं भजे भूतनाथम् ॥ १२॥
इडां पिंगळां सत्सुषुम्नां विशन्तं
स्फुटं ब्रह्मरन्ध्र स्वतन्त्रं सुशान्तम् ।
दृढं नित्य निर्वाणमुद्भासयन्तं
परंज्योतिरूपं भजे भूतनाथम् ॥ १३॥
अनुब्रह्मपर्यन्तजीवैक्यबिम्बं
गुणाकारमत्यन्त भक्तानुकंपम् ।
अनर्घं शुभोदर्कमात्मावलम्बं
परंज्योतिरूपं भजे भूतनाथम् ॥ १४॥
इति शास्तृ भुजङ्गस्तोत्रं सम्पूर्णम् ॥
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):