अक्षर आकार:

श्रीशास्तास्तुतिदशकं

shrI shAstAstutidashakaM

श्रीशास्तास्तुतिदशकं

आशानुरूपफलदं चरणारविन्द- भाजामपारकरुणार्णवपूर्णचन्द्रम् । नाशाय सर्वविपदामपि नौमि नित्य- मीशानकेशवभवं भुवनैकनाथम् ॥ १ पिञ्छावली वलयिताकलितप्रसून- सञ्जातकान्तिभरभासुरकेशभारम् । शिञ्जानमञ्जुमणिभूषणरञ्जिताङ्गं चन्द्रावतंसहरिनन्दनमाश्रयामि ॥ २ आलोलनीलललिताळकहाररम्य- माकम्रनासमरुणाधरमायताक्षम् । आलम्बनं त्रिजगतां प्रमथाधिनाथ- मानम्रलोकहरिनन्दनमाश्रयामि ॥ ३ कर्णावलम्बिमणिकुण्डलभासमान- गण्डस्थलं समुदिताननपुण्डरीकम् । अर्णोजनाभहरयोरिव मूर्तिमन्तं पुण्यातिरेकमिव भूतपतिं नमामि ॥ ४ उद्दण्डचारुभुजदण्डयुगाग्रसंस्थं कोदण्डबाणमहितान्तमतान्तवीर्यम् । उद्यत्प्रभापटलदीप्रमदभ्रसारं नित्यं प्रभापतिमहं प्रणतो भवामि ॥ ५ मालेयपङ्कसमलङ्कृतभासमान- दोरन्तराळतरळामलहारजालम् । नीलातिनिर्मलदुकूलधरं मुकुन्द- कालान्तकप्रतिनिधिं प्रणतोऽस्मि नित्यम् ॥ ६ यत्पादपङ्कजयुगं मुनयोऽप्यजस्रं भक्त्या भजन्ति भवरोगनिवारणाय । पुत्रं पुरान्तकमुरान्तकयोरुदारं नित्यं नमाम्यहममित्रकुलान्तकं तम् ॥ ७ कान्तं कळायकुसुमद्युतिलोभनीय- कान्तिप्रवाहविलसत्कमनीयरूपम् । कान्तातनूजसहितं निखिलामयौघ- शान्तिप्रदं प्रमथयूथपतिं नमामि ॥ ८ भूतेश भूरिकरुणामृतपूरपूर्ण- वारान्निधे, वरद, भक्तजनैकबन्धो । परमभक्त पायाद्भवान् प्रणतमेनमपारघोर- संसारभीतमिह मामखिलामयेभ्यः ॥ ९ हे भूतनाथ भगवन्, भवदीयचारु- पादाम्बुजे भवतु भक्तिरचञ्चला मे । नाथाय सर्वजगतां भजतां भवाब्धि- पोताय नित्यमखिलाङ्गभुवे नमस्ते ॥ १० इति श्री शङ्करभगवद्पाद विरचितं श्री शास्तास्तुति दशकं सम्पूर्णम् ॥