अक्षर आकार:

शास्तृ पञ्चाक्षरस्तोत्रम्

shAstR^i pa~ncAxarastotraM

शास्तृ पञ्चाक्षरस्तोत्रम्

ॐ - ओङ्कारमूर्तिमार्तिघ्नं देवं हरिहरात्मजं । शबरीपीठनिलयं शास्तारं प्रणतोस्म्यहं ॥ १ न - नक्षत्रनाथवदनं नाथं त्रिभुवनावनं । नमिताशेषभुवनं शास्तारं प्रणतोस्म्यहं ॥ २ म - मन्मथायुतसौन्दर्यं महाभूतनिषेवितं । मृगयारसिकं शूरं शास्तारं प्रणतोस्म्यहं ॥ ३ शि - शिवप्रदायिनं भक्तदैवतं पाण्ड्यबालकं । शार्दूलदुग्धहर्तारं शास्तारं प्रणतोस्म्यहं ॥ ४ वा - वारणेन्द्र समारूढं विश्वत्राण परायणं । वेत्रोद्भासिकरांभोजं शास्तारं प्रणतोस्म्यहं ॥ ५ य - यक्षिण्यभिमतं पूर्णापुष्कला परिसेवितं । क्षिप्रप्रसादकं नित्यं शास्तारं प्रणतोस्म्यहं ॥ ६ श्री शास्तृ पञ्चाक्षरस्तोत्रं सम्पूर्णं ॥