अक्षर आकार:

शास्तृध्यानश्लोकानि

shAstRidhyAnashlokAni

शास्तृध्यानश्लोकानि

जीमूतश्यामधामा मणिमयविलसत्कुण्डलोल्लासिवक्त्रं हस्ताभ्यां दक्षमात्रोत्पलमितरभुजं वामजानूपरिस्थम् । बिभ्रत्पद्मासनस्थः परिकलिततनुर्योगपट्टेन जुष्टः श्रीपूर्णापुष्कलाभ्यां पुरहरमुरजित्पुत्रकः पातु शास्ता ॥ १॥ तेजोमण्डलमध्यगं त्रिनयनं दिव्याम्बरालङ्कृतं देवं पुष्पशरेक्षुचापविलसन्माणिक्यपात्राभयम् । बिभ्राणं करपङ्कजैर्मदगजस्कन्धाधिरूढं विभुं शास्तारं शरणं नमामि सततं त्रैलोक्यसम्मोहनम् ॥ २॥ तमालश्यामलं भद्रं पिङ्गलाकल्पसुन्दरम् । अधिज्यकार्मुकं वन्दे सत्यमव्यक्तयौवनम् ॥ ३॥ सुश्यामलकोमलविशालतनुं विचित्रं वासोवसानमरुणोत्पलदामहस्तम् । उत्तुङ्गरत्नमकुटं कुटिलाग्रकेशं शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ ४॥