अक्षर आकार:

श्रीशास्तृ(अय्यप्प) सुप्रभातम्

Shri Shastri(Ayyappa) Suprabhatam

श्रीशास्तृ(अय्यप्प) सुप्रभातम्

मोहिनीसुप्रजा शास्तः पूर्वासन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥ १॥ उत्तिष्ठोत्तिष्ठ शबरीश उत्तिष्ठ व्याघ्र/गजवाहन । श्रीपूर्णपुष्कलाकान्त त्रैलोक्यं मङ्गलं कुरु ॥ २॥ शास्तः समस्तजगतां महिषीनिहन्तः श्रितहृद्विहारि मनोहरदिव्यमूर्ते । श्रीस्वामिन् श्रितजनप्रिय दानशील श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ३॥ तव सुप्रभातमरविन्दलोचन भव सुप्रसन्नमुखचन्द्रमण्डल । ऋषिसिद्धदेवप्रमुखैः समर्चित शबरिशैलनाथ शरणं दयानिधे ॥ ४॥ प्रातः प्रबुद्धऋषयस्समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्नाः श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ५॥ अब्जानन हरिहरोद्भव सुन्दराङ्ग त्वद्विक्रमादिचरितं विबुधाः स्तुवन्ति । भाषापतिः पठति वासरशुद्धिमारात् श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ६॥ ईषत्प्रफुल्लसरसीरुहनारिकेल- पूगद्रुमादि सुमनोहरपालिकानाम् । आवाति मन्दमनिलः सहदिव्यगन्धैः श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ७॥ उन्मील्य नेत्रयुगमुत्तमपञ्जरस्थाः पात्रावशिष्टकदलीफलपायसानि । भुक्त्वा सलीलमथ केलिशुकाः पठन्ति श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ८॥ भृङ्गावली च मकरन्दरसानुविद्ध- झङ्कारगीतनिनदैः सह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्यः श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ९॥ पद्मेशमित्रशतपत्रगतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्या । भेरीनिनादमिव भिभ्रति तीव्रनादं श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १०॥ श्रीमन्नभीष्टवरदाखिललोकबन्धो श्रीधर्मशास्त(:) जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तरदिव्यमूर्ते श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ ११॥ सेवापरा ऋषिसुरेशकृशानुधर्म- रक्षोऽम्बुनाथपवमानधनाधिनाथाः । बद्धाञ्जलिप्रविलसन्निजशीर्षदेशाः श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १२॥ सूर्येन्दुभौमबुधवाक्पतिकाव्यसौरि- स्वर्भानुकेतुदिविषत्परिषत्प्रधानाः । त्वत्पाददर्शनायात्युत्सुकाः प्रतीक्षन् श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १३॥ त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गाः स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गाः । कल्पागमाकलनयाऽऽकुलतां लभन्ते श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १४॥ त्वद्गोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्गपदवीं परमां श्रयन्तः । मर्त्या मनुष्यभुवने मतिमाश्रयन्ते श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १५॥ श्रीशबरिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन् नृदैवतगणादिभिरर्चिताङ्घ्रे श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १६॥ श्रीशबरिनाथ पुरुषोत्तम देवदेव श्रीभूतनाथ शिवपुत्रक दीनबन्धो । मृगयाप्रिय शरणागतपारिजात श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १७॥ कन्दर्पदर्पहरसुन्दर दिव्यमूर्ते कान्तारवास विपुलाक्ष दयाऽऽर्द्रचित्त । कल्याणनिर्मलगुणाकर दिव्यकीर्ते श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ १८॥ एलालवङ्गघनसारसुगन्धितीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाद्य वैदिकशिखामणयः प्रहृष्टाः तिष्ठन्ति शत्रुदमन तव सुप्रभातम् ॥ १९॥ भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः । त्वत्प्रियजनाः सततमर्थितमङ्गलास्ते धामाश्रयन्ति तव शुभङ्कर सुप्रभातम् ॥ २०॥ शबरीनिवास निरवद्यगुणैकसिन्धो संसारसागरसमुत्तरणैकसेतो । वेदान्तवेद्यनिजवैभवभक्तभोग्य श्रीशबरिनाथगुरवे तव सुप्रभातम् ॥ २१॥ इत्थं शबरिशैलपतेरिह सुप्रभातं ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ २२॥ इति श्रीशास्तृ(अय्यप्प)सुप्रभातं सम्पूर्णम् ॥