अक्षर आकार:

शास्तृशवर्णसहस्रनामस्तोत्रम्

ShastrishavarNa sahasranAmastotram

शास्तृशवर्णसहस्रनामस्तोत्रम्

॥ श्रीः ॥ अस्य श्रीशास्तृशवर्णसहस्रनामस्तोत्रमहामन्त्रस्य नैध्रुव ऋषिः, अनुष्टुप्छन्दः, शास्ता देवता । ॐ भूताधिपाय विद्महे इति बीजम् । ॐ महादेवाय धीमहि इति शक्तिः । ॐ तन्नः शास्ता प्रचोदयात् इति कीलकम् । साधकाभीष्टसाधने पूजने विनियोगः । ॐ ह्रां भूताधिपाय विद्महे अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं महादेवाय धीमहि तर्जनीभ्यां नमः । ॐ ह्रूं तन्नः शास्ता प्रचोदयात् मध्यमाभ्यां नमः । ॐ ह्रैं तन्नः शास्ता प्रचोदयात् अनामिकाभ्यां नमः । ॐ ह्रौं महादेवाय धीमहि कनिष्ठिकाभ्यां नमः । ॐ ह्रः भूताधिपाय विद्महे करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । ध्यानम् - श्रीशोमेशात्मपुत्रं श्रितजनवरदं श्लाघनीयापदानं क्लेशोद्भ्रान्तिप्रणाशं क्लिशितरिपुचयं क्लेदसङ्काशमात्रम् । कोशोच्चाश्वाधिरूढं परिगतमृगयाखेलनानन्दचित्तं पाशोच्चण्डास्त्रपाणिं वरदमभयदं स्तौमि शास्तारमीशम् ॥ ॐ शन्नो दाता शम्भृताङ्कः शन्तनुः शन्तनुस्तुतः । शंवाच्यः शङ्कृतिप्रीतः शन्दः शान्तनवस्तुतः ॥ १॥ शङ्करः शङ्करी शम्भुः शम्भूर्वै शम्भुवल्लभः । शंसः शंस्थापतिः शंस्यः शंसितः शङ्करप्रियः ॥ २॥ शंयुः शङ्खः शम्भवोऽपि शंसापात्रं शकेडितः । शकटघ्नार्चितः शक्तः शकारिपरिपूजितः ॥ ३॥ शकुनज्ञः शकुनदः शकुनीश्वरपालकः । शकुनारूढविनुतः शकटासुफल (प्रदः) प्रियः ॥ ४॥ शकुन्तेशात्मजस्तुत्यः शकलाक्षकयुग्रथः । शकृत्करिस्तोमपालः शक्वरीच्छन्दईडितः ॥ ५॥ शक्तिमान् शक्तिभृद्भक्तः शक्तिभृच्छक्तिहेतिकः । शक्तः शक्रस्तुतः शक्यः शक्रगोपतनुच्छविः ॥ ६॥ शक्रजायाभीष्टदाता शक्रसारथिरक्षकः । शक्राणीविनुतः शक्लः शक्रोत्सवसमातृकः ॥ ७॥ शक्वरध्वजसंप्राप्तबलैश्वर्यविराजितः । शक्रोत्थानक्रियारम्भबलिपूजाप्रमोदितः ॥ ८॥ शङ्कुः शङ्काविरहितः शङ्करीचित्तरञ्जकः । शङ्करावासधौरेयः शङ्करालयभोगदः ॥ ९॥ शङ्करालङ्कृतदरः शङ्खी शङ्खनिधीश्वरः । शङ्खध्मः शङ्खभृच्छङ्खनखः शङ्खजभूषणः ॥ १०॥ शङ्खास्यः शङ्खिनीलोलः शङ्खिकः शङ्खभृत्प्रियः । शचीविरहविध्वस्तः शचीपतिविनोददः ॥ ११॥ शटीगन्धः शटाजूटः शठमूलकृतादरः ॥ शठपुष्पधरः शस्ता शठात्मकनिबर्हणः ॥ १२॥ शणसूत्रधरः शाणी शाण्डिल्यादिमुनिस्तुतः । शतकीर्तिः शतधृतिः शतकुन्दसुमप्रियः ॥ १३॥ शतकुम्भाद्रिनिलयः शतक्रतुजयप्रदः । शतद्रुतटसञ्चारी शतकण्ठसमद्युतिः ॥ १४॥ शतवीर्यः शतबलः शताङ्गी शतवाहनः । शत्रुघ्नः शत्रुघ्ननुतः शत्रुजिच्छत्रुवञ्चकः ॥ १५॥ शलालुकन्धरधरः शनिपीडाहरः शिखी । शनिप्रदोषसञ्जातस्वभक्तभरणोत्सुकः ॥ १६॥ शन्यर्चितः शनित्राणः शन्यनुग्रहकारकः । शबराखेटनरतः शपथः शपथक्षणः ॥ १७॥ शब्दनिष्ठः शब्दवेदी शमी शमधनस्तुतः । शमीगर्भप्रियः शम्बः शम्बरारिसहोदरः ॥ १८॥ शयण्डविमुखः शण्डी शरणागतरक्षकः । शरजन्मप्राणसखः शरजन्मसहोदरः ॥ १९॥ शरजन्मानुसरणः शरजन्मचमूपतिः । शरजन्मामात्यवर्यः शरजन्मप्रियङ्करः ॥ २०॥ शरजन्मगणाधीशः शरजन्माश्रयाधरः । शरजन्माग्रसञ्चारी शरासनधरः शरी ॥ २१॥ शरारुघ्नः शर्कुरेष्टः शर्मदः शर्मविग्रहः । शर्यातिजयदः शस्त्री शशभृद्भूषनन्दनः ॥ २२॥ शश्वद्बलानुकूलोऽपि शष्कुलीभक्षणादरः । शस्तः शस्तवरः शस्तकेशकः शस्तविग्रहः ॥ २३॥ शस्त्राढ्यः शस्त्रभृद्देवः शस्त्रक्रीडाकुतूहलः । शस्यायुधः शार्ङ्गपाणिः शार्ङ्गिस्त्रीप्रियनन्दनः ॥ २४॥ शाकप्रियः शाकदेवः शाकटायनसंस्तुतः । शाक्तधर्मरतः शाक्तः शाक्तिकः शाक्तरञ्जकः ॥ २५॥ शाकिनीडाकिनीमुख्ययोगिनीपरिसेवितः । तथा शाड्वलनाथश्च शाठ्यकर्मरताहितः ॥ २६॥ शाण्डिल्यगोत्रवरदः शान्तात्मा शातपत्रकः । शातकुम्भसुमप्रीतः शातकुम्भजटाधरः ॥ २७॥ शातोदरप्रभः शाभः शाड्वलक्रीडनादरः । शानपादारसञ्चारी शात्रवान्वयमर्दनः ॥ २८॥ शान्तः शान्तनिधिः शान्तिः शान्तात्मा शान्तिसाधकः । शान्तिकृच्छान्तिकुशलः शान्तधीः शान्तविग्रहः ॥ २९॥ शान्तिकामः शान्तिपतिः शान्तीड्यः शान्तिवाचकः । शान्तस्तुतः शान्तनुतः शान्तेड्यः शान्तपूजितः ॥ ३०॥ शापास्त्रः शापकुशलः शापायुधसुपूजितः । शापघ्नः शापदीनेड्यः शापद्विट् शापनिग्रहः ॥ ३१॥ शापार्जितः शाकटिकवाहप्रीतश्च शामिनी । शाब्दिकः शाब्दिकनुतः शाब्दबोधप्रदायकः ॥ ३२॥ शाम्बरागमवेदी च शाम्बरः शाम्बरोत्सवः । शामिनीदिग्विहारोऽथ शामित्रगणपालकः ॥ ३३॥ शाम्भवः शाम्भवाराध्यः शामिलालेपनादरः । शाम्भवेष्टः शाम्भवाढ्यः शाम्भवी शम्भुपूजकः ॥ ३४॥ शारभ्रूः शारदः शारी शारदानिवहद्युतिः । शारदेड्यः शारदीष्टः शारिस्थः शारुकान्तकः ॥ ३५॥ शार्कुखादी शार्कुरेष्टः शारीरमलमोचकः । शार्ङ्गी शार्ङ्गिसुतः शार्ङ्गिप्रीतः शार्ङ्गिप्रियादरः ॥ ३६॥ शार्दूलाक्षः शार्वराभः शार्वरीप्रियशेखरः । शालङ्कीड्यः शालवाभः शालकामार्चकादरः ॥ ३७॥ शाश्वतः शाश्वतैश्वर्यः शासिता शासनादरः । शास्त्रज्ञः शास्रतत्त्वज्ञः शास्त्रदर्शी च शास्त्रवित् ॥ ३८॥ शास्त्रचक्षुः शास्त्रकर्षी (कुक्षी) शास्त्रकृच्छास्त्रचारणः । शास्त्री शास्त्रप्रतिष्ठाता शास्त्रार्थः शास्त्रपोषकः ॥ ३९॥ शास्त्रहेतुः शास्त्रसेतुः शास्त्रकेतुश्च शास्त्रभूः । शास्त्राश्रयः शास्त्रगेयः शास्त्रकारश्च शास्त्रदृक् ॥ ४०॥ शास्त्राङ्गः शास्त्रपूज्यश्च शास्त्रग्रथनलालसः । शास्त्रप्रसाधकः शास्त्रज्ञेयः शास्त्रार्थपण्डितः ॥ ४१॥ शास्त्रपारङ्गतः शास्त्रगुणविच्छास्त्रशोधकः । शास्त्रकृद्वरदाता च शास्त्रसन्दर्भबोधकः ॥ ४२॥ शास्त्रकृत्पूजितः शास्त्रकरः शास्त्रपरायणः । शास्त्रानुरक्तः शास्त्रात्मा शास्त्रसन्देहभञ्जकः ॥ ४३॥ शास्त्रनेता शास्त्रपूतः शास्त्रयोनिश्च शास्त्रहृत् । शास्त्रलोलः शास्त्रपालः शास्त्रकृत्परिरक्षकः ॥ ४४॥ शास्त्रधर्मः शास्त्रकर्मा शास्त्रशीलश्च शास्त्रनुत् । शास्त्रदृष्टिः शास्त्रपुष्टिः शास्त्रतुष्टिश्च शास्त्रचित् ॥ ४५॥ शास्त्रशुद्धिः शास्त्रबुद्धिः शास्त्रधीः शास्त्रवर्धनः । शास्त्रप्रज्ञः शास्त्रविज्ञः शास्त्रार्थी शास्त्रमण्डलः ॥ ४६॥ शास्त्रस्पृकू शास्त्रनिपुणः शास्त्रसृक् शास्त्रमङ्गलः । शास्त्रधीरः शास्त्रशूरः शास्त्रवीरश्च शास्त्रसत् ॥ ४७॥ शास्त्राधिपः शास्त्रदेवः शास्त्रक्रीडोऽथ शास्त्रराट् । शास्त्राढ्यः शास्त्रसारज्ञः शास्त्रं शास्त्रप्रदर्शकः ॥ ४८॥ शास्त्रप्रौढः शास्त्ररूढः शास्त्रगूढश्च शास्त्रपः । शास्त्रध्यानः शास्त्रगुणः शास्त्रेशानश्च शास्त्रभूः ॥ ४९॥ शास्त्रज्येष्ठः शास्त्रनिष्ठः शास्त्रश्रेष्ठश्च शास्त्ररुक् । शास्त्रत्राता शास्त्रभर्ता शास्त्रकर्ता च शास्त्रमुत् ॥ ५०॥ शास्त्रधन्यः शास्त्रपुण्यः शास्त्रगण्यश्च शास्त्रधीः । शास्त्रस्फूर्तिः शास्त्रमूर्तिः शास्त्रकीर्तिश्च शास्त्रभृत् ॥ ५१॥ शास्त्रप्रियः शास्त्रजायः शास्त्रोपायश्च शास्त्रगीः । शास्त्राधारः शास्त्रचरः शास्त्रसारश्च शास्त्रधुक् ॥ ५२॥ शास्त्रप्राणः शास्त्रगणः शास्त्रत्राणश्च शास्त्रभाक् । शास्त्रनाथः शास्त्ररथः शास्त्रसेनश्च शास्त्रदः ॥ ५३॥ शास्त्रस्वामी शास्त्रभूमा शास्त्रकामी च शास्त्रभुक् । शास्त्रप्रख्यः शास्त्रमुख्यः शास्त्रविख्योऽथ शास्त्रवान् ॥ ५४॥ शास्त्रवर्णः शास्त्रपूर्णः शास्त्रकर्णोऽथ शास्त्रपुट् । शास्त्रभोगः शास्त्रयोगः शास्त्रभागश्च शास्त्रयुक् ॥ ५५॥ शास्त्रोज्ज्वलः शास्त्रबालः शास्त्रनामा च शास्त्रभुक् । शास्त्रश्रीः शास्त्रसन्तुष्टः शास्त्रोक्तः शास्त्रदैवतम् ॥ ५६॥ शास्त्रमौलिः शास्त्रकेलिः शास्त्रपालिश्च शास्त्रमुक् । शास्त्रराज्यः शास्त्रभोज्यः शास्त्रेज्यः शास्त्रयाजकः ॥ ५७॥ शास्त्रसौख्यः शास्त्रविभुः शास्त्रप्रेष्ठश्च शास्त्रजुट् । शास्त्रवीर्यः शास्त्रकार्यः शास्त्रार्हः शास्त्रतत्परः ॥ ५८॥ शास्तग्राही शास्त्रवहः शास्त्राक्षः शास्त्रकारकः । शास्त्रश्रीदः शास्त्रदेहः शास्त्रशेषश्च शास्त्रत्विट् ॥ ५९॥ शास्त्रह्लादी शास्त्रकलः शास्त्ररश्मिश्च शास्त्रधीः । शास्त्रसिन्धुः शास्त्रबन्धुः शास्त्रयत्नश्च शास्त्रभित् ॥ ६०॥ शाखप्रदर्शी शास्त्रेष्टः शास्त्रभूषश्च शास्त्रगः । शास्त्रसङ्घः शास्त्रसखस्तथा शास्त्रविशारदः ॥ ६१॥ शास्त्रप्रीतः शास्त्रहितः शास्त्रपूतोऽथ शास्त्रकृत् । शास्त्रमाली शास्त्रयायी शास्त्रीयः शास्त्रपारदृक् ॥ ६२॥ शास्त्रस्थायी शास्त्रचारी शास्त्रगीः शास्त्रचिन्तनः । शास्त्रध्यानः शास्त्रगानः शास्त्राली शास्त्रमानदः ॥ ६३॥ शिक्यपालः शिक्यरक्षः शिखण्डी शिखरादरः । शिखरं शिखरीन्द्रस्थः शिखरीव्यूहपालकः ॥ ६४॥ शिखरावासनप्रीतः शिखावलवशादृतः । शिखावान्शिखिमित्रश्च शिखीड्यः शिखिलोचनः ॥ ६५॥ शिखायोगरतः शिग्रुप्रीतः शिग्रुजखादनः । शिग्रुजेक्षुरसानन्दः शिखिप्रीतिकृतादरः ॥ ६६॥ शितः शितिः शितिकण्ठादरश्च शितिवक्षरुक् । शिञ्जञ्चिकाहेमकान्तिवस्त्रः शिञ्जितमण्डितः ॥ ६७॥ शिथिलारिगणः शिञ्जी शिपिविष्टप्रियः शिफी । शिबिप्रियः शिबिनुतः शिबीड्यश्च शिबिस्तुतः ॥ ६८॥ शिबिकष्टहरः शिब्याश्रितश्च शिबिकाप्रियः । शिबिरी शिबिरत्राणः शिबिरालयवल्लभः ॥ ६९॥ शिबिवल्लभसत्प्रेमा शिराफलजलादरः । शिरजालङ्कृतशिराः शिरस्त्राणविभूषितः ॥ ७०॥ शिरोरत्नप्रतीकाशः शिरोवेष्टनशोभितः । शिलादसंस्तुतः शिल्पी शिवदश्च शिवङ्करः ॥ ७१॥ शिवः शिवात्मा शिवभूः शिवकृच्छिवशेखरः । शिवज्ञः शिवकर्मज्ञः शिवधर्मविचारकः ॥ ७२॥ शिवजन्मा शिवावासः शिवयोगी शिवास्पदः । शिवस्मृतिः शिवधृतिः शिवार्थः शिवमानसः ॥ ७३॥ शिवाढ्यः शिववर्यज्ञः शिवार्थः शिवकीर्तनः । शिवेश्वरः शिवाराध्यः शिवाध्यक्षः शिवप्रियः ॥ ७४॥ शिवनाथः शिवस्वामी शिवेशः शिवनायकः । शिवमूर्तिः शिवपतिः शिवकीर्तिः शिवादरः ॥ ७५॥ शिवप्राणः शिवत्राणः शिवत्राता शिवाज्ञकः । शिवपश्च शिवक्रीडः शिवदेवः शिवाधिपः ॥ ७६॥ शिवज्येष्ठः शिवश्रेष्ठः शिवप्रेष्ठः शिवाधिराट् । शिवराट् शिवगोप्ता च शिवाङ्गः शिवदैवतः ॥ ७७॥ शिवबन्धुः शिवसुहृच्छिवाधीशः शिवप्रदः । शिवाग्रणीः शिवेशानः शिवगीतः शिवोच्छ्रयः॥ ७८॥ शिवस्फूर्तिः शिवसुतः शिवप्रौढःशिवोद्यतः । शिवसेनः शिवचरः शिवभर्ता शिवप्रभुः ॥ ७९॥ शिवैकराट् शिवप्रज्ञः शिवसारः शिवस्पृहः । शिवग्रीवः शिवनामा शिवभूतिः शिवान्तरः ॥ ८०॥ शिवमुख्यः शिवप्रख्यः शिवविख्यः शिवाख्यगः । शिवध्याता शिवोद्गाता शिवदाता शिवस्थितिः ॥ ८१॥ शिवानन्दः शिवमतिः शिवार्हः शिवतत्परः । शिवभक्तः शिवासक्तः शिवशक्तः शिवात्मकः ॥ ८२॥ शिवदृक् शिवसम्पन्नः शिवहृच्छिवमण्डितः । शिवभाक् शिवसन्धाता शिवश्लाघी शिवोत्सुकः ॥ ८३॥ शिवशीलः शिवरसः शिवलोलः शिवोत्कटः । शिवलिङ्गः शिवपदः शिवसन्धः शिवोज्ज्वलः ॥ ८४॥ शिवश्रीदः शिवकलः शिवमान्यः शिवप्रदः । शिवव्रतः शिवहितः शिवप्रीतः शिवाशयः ॥ ८५॥ शिवनिष्ठः शिवजपः शिवसंज्ञः शिवोर्जितः । शिवमानः शिवस्थानः शिवगानः शिवोपमः ॥ ८६॥ शिवानुरक्तः शिवहृच्छिवहेतुः शिवार्चकः ॥ शिवकेलिः शिववटुः शिवचाटुः शिवास्त्रवित् ॥ ८७॥ शिवसङ्गः शिवधरः शिवभावः शिवार्थकृत् । शिवलीलः शिवस्वान्तः शिवेच्छः शिवदायकः ॥ ८८॥ शिवशिष्यः शिवोपायः शिवेष्टः शिवभावनः । शिवप्रधीः शिवविभुः शिवाभीष्टः शिवध्वजः ॥ ८९॥ शिववान् शिवसम्मोहः शिवर्धिः शिवसम्भ्रमः । शिवश्रीः शिवसङ्कल्पः शिवगात्रः शिवोक्तिदः ॥ ९०॥ शिववेषः शिवोत्कर्षः शिवभाषः शिवोत्सुकः । शिवमूलः शिवापालः शिवशूलः शिवाबलः ॥ ९१॥ शिवाचारः शिवाकारः शिवोदारः शिवाकरः । शिवहृष्टः शिवोद्दिष्टः शिवतुष्टः शिवेष्टदः ॥ ९२॥ शिवडिम्भः शिवारम्भः शिवोज्जृम्भः शिवाभरः । शिवमायः शिवचयः शिवदायः शिवोच्छ्रयः ॥ ९३॥ शिवव्यूहः शिवोत्साहः शिवस्नेहः शिवावहः । शिवलोकः शिवालोकः शिवौकाः शिवसूचकः ॥ ९४॥ शिवबुद्धिः शिवर्धिश्च शिवसिद्धिः शिवर्धिदः । शिवधीः शिवसंशुद्धिः शिवधीः शिवसिद्धिदः ॥ ९५॥ शिवनामा शिवप्रेमा शिवभूः शिववित्तमः । शिवाविष्टः शिवादिष्टः शिवाभीष्टः शिवेष्टकृत् ॥ ९६॥ शिवसेवी शिवकविः शिवख्यातः शिवच्छविः ॥ शिवलीनः शिवच्छन्नः शिवध्यानः शिवस्वनः ॥ ९७॥ शिवपालः शिवस्थूलः शिवजालः शिवालयः । शिवावेशः शिवोद्देशः शिवादेशः शिवोद्यतः ॥ ९८॥ शिवपक्षः शिवाध्यक्षः शिवरक्षः शिवेक्षणः । शिवपद्यः शिवोद्विद्यः शिवहृद्यः शिवाद्यकः ॥ ९९॥ शिवपाद्यः शिवस्वाद्यः शिवार्घ्यः शिवपाद्यकः । शिवार्हः शिवहार्दश्च शिवबिम्बः शिवार्भकः ॥ १००॥ शिवमण्डलमध्यस्थः शिवकेलिपरायणः ॥ शिवामित्रप्रमथनः शिवभक्तार्तिनाशनः ॥ १०१॥ शिवभक्तिप्रियरतः शिवप्रवणमानसः । शिववाल्लभ्यपुष्टाङ्गः शिवारिहरणोत्सुकः ॥ १०२॥ शिवानुग्रहसन्धाता शिवप्रणयतत्परः । शिवपादाब्जलोलम्बः शिवपूजापरायणः ॥ १०३॥ शिवकीर्तनसन्तुष्टः शिवोल्लासक्रियादरः । शिवापदानचतुरः शिवकार्यानुकूलदः ॥ १०४॥ शिवपुत्रप्रीतिकरः शिवाश्रितगणेष्टदः । शिवमूर्धाभिषिक्ताङ्गः शिवसैन्यपुरःसरः ॥ १०५॥ शिवविश्वाससम्पूर्णः शिवप्रमथसुन्दरः । शिवलीलाविनोदज्ञः शिवविष्णुमनोहरः ॥ १०६॥ शिवप्रेमार्द्रदिव्याङ्गः शिववागमृतार्थवित् । शिवपूजाग्रगण्यश्च शिवमङ्गलचेष्टितः ॥ १०७॥ शिवदूषकविध्वंसी शिवाज्ञापरिपालकः । शिवसंसारश‍ृङ्गारः शिवज्ञानप्रदायकः ॥ १०८॥ शिवस्थानधृतोद्दण्डः शिवयोगविशारदः । शिवप्रेमास्पदोच्चण्डदण्डनाडम्बरोद्भटः ॥ १०९॥ शिवार्चकपरित्राता शिवभक्तिप्रदायकः । शिवध्यानैकनिलयः शिवधर्मपरायणः ॥ ११०॥ शिवस्मरणसान्निध्यः शिवानन्दमहोदरः । शिवप्रसादसन्तुष्टः शिवकैवल्यमूलकः ॥ १११॥ शिवसङ्कीर्तनोल्लासः शिवकैलासभोगदः । शिवप्रदोषपूजात्तसर्वसौभाग्यसुन्दरः ॥ ११२॥ शिवलिङ्गार्चनासक्तः शिवनामस्मृतिप्रदः । शिवालयस्थापकश्च शिवाद्रिक्रीडनोत्सुकः ॥ ११३॥ शिवापदाननिपुणः शिववाक्परिपालकः । शिवानीप्रीतिकलशः शिवारातिविनाशकः ॥ ११४॥ शिवात्मकक्रियालोलः शिवसायुज्यसाधकः । शिशिरेष्टः शिशिरदः शिशिरर्तुप्रियः शिशुः ॥ ११५॥ शिशुप्रियः शिशुत्राता शिशुभाषी शिशूत्सवः । शिशुपालनतात्पर्यः शिशुपूज्यः शिशुक्षमः ॥ ११६॥ शिशुपालक्रोधहरः शिशुशक्तिधरस्तुतः । शिशुपालघ्नविनुतः शिशुपालनचेष्टितः ॥ ११७॥ शिशुचान्द्रायणप्रीतः शिशुभावावनप्रभुः । शीकरप्रणयः शीकराङ्गः शीघ्रश्च शीघ्रशः ॥ ११८॥ शीघ्रवेदी शीघ्रगामी शीघ्रयोद्धा च शीघ्रधीः । शीघ्रकप्रियकृच्छीघ्री शीघ्रदाता च शीघ्रभृत् ॥ ११९॥ शीतालङ्करणः शीतजलास्वादनतत्परः । शीतः शीतकरः शीतपुष्पधारी च शीतगुः ॥ १२०॥ शीतप्रियः शीतभानुः शीतरश्मिश्च शीतलः । शीताप्रभः शीतलाढ्यः शीतांशुः शीतवीर्यकः ॥ १२१॥ शीतलाङ्गः शीतसहः शीताद्रिनिलयप्रियः । शीत्पुटभ्रुः शीतनेत्रः शीर्णाङ्घ्रिभयनाशनः ॥ १२२॥ शीतात्मगिरिसञ्चारी शीर्णपर्णसुमोत्करः । शीभज्ञः शीर्षण्यधरः शीर्षरक्षोऽथ शीलवान् ॥ १२३॥ शीलज्ञः शीलदः शीलपालकः शीलवत्प्रभुः । शुकतुण्डनिभापाङ्गः शुकवाहनसोदरः ॥ १२४॥ शुकप्रियफलास्वादः शुकवाक्यप्रियः शुभी । शुकवाहप्रियः शुक्तिकाजहारः शुकप्रियः ॥ १२५॥ शुक्रः शुक्रभुगारूढभूतः शुक्रप्रपूजितः । शुक्रशिष्यान्तकः शुक्रवर्णः शुक्रकरः शुचिः ॥ १२६॥ शुक्लः शुक्लनुतः शुक्ली शुक्लपुष्पश्च शुक्लदः । शुक्लाङ्गः शुक्लकर्मा च शुचिभूमिनिवासकः ॥ १२७॥ शुचिप्रदः शुचिकरः शुचिकर्मा शुचिप्रियः । शुचिरोचिः शुचिमतिः शुण्ठीगुडजलादरः ॥ १२८॥ शुद्धः शुद्धफलाहारः शुद्धान्तपरिपालकः । शुद्धचेताः शुद्धकर्मा शुद्धभावोऽथ शुद्धिदः ॥ १२९॥ शुभः शुभाङ्गः शुभकृच्छुभेच्छः शुभमानसः । शुभभापी शुभनुतः शुभवर्षी शुभादरः ॥ १३०॥ शुभशीलः शुभप्रीतः शुभंयुः शुभपोषकः । शुभङ्करः शुभगणः शुभाचारः शुभोत्सवः ॥ १३१॥ शुभादरः शुभोदारः शुभाहारः शुभावहः । शुभान्वितः शुभहितः शुभवर्णः शुभाम्बरः ॥ १३२॥ शुभभक्तः शुभासक्तः शुभयुक्तः शुभेक्षणः । शुभ्रः शुभ्रगणः शुभ्रवस्त्रः शुभ्रविभूषणः ॥ १३३॥ शुभविध्वंसिनीभूतः शुल्कादाननिपातकः । शुष्मद्युतिः शुष्मिसखः शुश्रूषादूतशङ्करः ॥ १३४॥ शूरः शूराश्रितः शूरगणः शूरचमूपतिः । शूरप्रवरसन्दोहः शूरभक्तश्च शूरवान् ॥ १३५॥ शूरसेनः शूरनुतः शूरपालश्च शूरजित् । शूरदेवः शूरविभुः शूरनेता च शूरराट् ॥ १३६॥ शूलपाणियुतः शूली शूलयुद्धविशारदः । शूलिनीप्रियकृच्छूलवित्रस्तरिपुमण्डलः ॥ १३७॥ श‍ृङ्गारखेलः श‍ृङ्गारगात्रः श‍ृङ्गारशेखरः ॥ श‍ृङ्गारजटिलः श‍ृङ्गाटकसञ्चारकौतुकः ॥ १३८॥ श‍ृङ्गारभूषणः श‍ृङ्गारयोनिजननार्भकः । शेमुषीदुःखहन्ता च शेखरीकृतमूर्धजः ॥ १३९॥ शेषस्तुतः शेषपाणिः शेषभूषणनन्दनः । शेषाद्रिनिलयप्रीतः शेषोदरसहोदरः॥ १४०॥ शैलजाप्रियकृत्कर्मा शैलराजप्रपूजितः । शैलादिविनुतः शैवः शैवशास्त्रप्रचारकः ॥ १४१॥ शैवधीरः शैववीरः शैवशूरश्च शैवराट् । शैवत्राणः शैवगणः शैवप्राणश्च शैववित् ॥ १४२॥ शैवशास्त्रः शैवशास्त्राढ्यः शैवभृच्छैवपालकः । शैवदक्षः शैवपक्षः शैवरक्षोऽथ शैवहृत् ॥ १४३॥ शैवाङ्गः शैवमन्त्रज्ञः शैवतन्त्रश्च शैवदः । शैवमौनी शैवमतिः शैवयन्त्रविधायकः ॥ १४४॥ शैवव्रतः शैवनेता शैवज्ञः शैवसैन्यकः । शैवनन्द्यः शैवपूज्यः शैवराज्योऽथ शैवपः ॥ १४५॥ शोणापाङ्गः शोणनखः शोणरत्नविभूषितः । शोकघ्नः शोभनास्त्रश्च शोधकः शोभनप्रदः ॥ १४६॥ शोषितारिः शोषहारी शोषिताश्रितरक्षकः । शौरीड्यः शौरिवरदः शौरिद्विट्प्राणहारकः ॥ १४७॥ श्रद्धाधारश्च श्रद्धालुः श्रद्धावित्परिपालकः । श्रवणानन्दजनकः श्रवणाभरणोज्ज्वलः ॥ १४८॥ श्रीदः श्रीदप्रियः श्रीदस्तुतः श्रीदप्रपूजितः । श्रुतिज्ञः श्रुतिवित्पूज्यः श्रुतिसारः श्रुतिप्रदः ॥ १४९॥ श्रुतिमौलिनुतप्रेमडिम्भः श्रुतिविचारकः । श्लाघ्यः श्लाघापरः श्लाघ्यगणः श्लाघ्यगुणाकरः ॥ १५०॥ श्वेताङ्गश्च श्वेतगजरथः श्वेतसुमादरः । श्रीधृक् श्रीधरदाम्पत्यसार्थसम्मोहनाकृतिः ॥ १५१॥ श्रीकामाश्रितसन्दोहकैरवानन्दचन्द्रमाः । इतीदं शास्तृदेवस्य शिवविष्णुस्वरूपिणः ॥ १५२॥ नाम्नां सहस्रं दिव्यानां शादीनां संप्रकीर्तितम् । य इदं श‍ृणुयान्नित्यं प्रपठेच्च प्रयत्नतः । नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥ १५३॥ इति श्रीशास्तृशवर्णसहस्रनामस्तोत्रं सम्पूर्णम् ॥