अक्षर आकार:

सर्पसूक्तम् २

Sarpa Suktam 2

सर्पसूक्तम् २

ब्रह्मलोकेषु ये सर्पाः शेषनाग परोगमाः । नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ १॥ इन्द्रलोकेषु ये सर्पा वासुकि प्रमुखादयः । नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ २॥ कद्रवेयश्च ये सर्पाः मातृभक्तिपरायणाः । नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ३॥ इन्द्रलोकेषु ये सर्पाः तक्षकाः प्रमुखादयः । नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ४॥ सत्यलोकेषु ये सर्पा वासुकीना च रक्षिताः । नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ५॥ मलये चैव ये सर्पाः कर्कोटक प्रमुखादयः । नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ६॥ पृथिव्यां चैव ये सर्पा ये साकेत वासिताः । नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ७॥ सर्वग्रामेषु ये सर्पा वसन्तिषु सञ्च्छिताः । नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ८॥ ग्रामे वा यदि वाऽरण्ये ये सर्पाः प्रचरन्ति च । नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ९॥ समुद्रतीरे ये सर्पा ये सर्पा जलवासिनः । नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ १०॥ रसातलेषु ये सर्पा अनन्तादि महाबलाः । नमोऽस्तु तेभ्यः सर्पेभ्यः सुप्रीतो मम सर्वदा ॥ ११॥ इति सर्पसूक्तं सम्पूर्णम् ।