अक्षर आकार:

सर्पसूक्तम्

Sarpa Suktam

सर्पसूक्तम्

नमोऽस्तु सर्पेभ्यो ये के च पृथिविमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ १॥ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषामप्सूषदः कृतं तेभ्यः सर्पेभ्यो नमः ॥ २॥ या इषवो यातुधानानां ये वा वनस्पतीम्+ रनु । ये वाऽवटेषु शेरते तेभ्यः सर्पेभ्यो नमः ॥ ३॥ स्वप्नस्स्वप्नाधिकरणे सर्वं निष्वापया जनम् । आ सूर्यमन्यांस्त्वापयाव्युषं जाग्रियामहम् ॥ ४॥ अजगरोनाम सर्पः सर्पिरविषो महान् । तस्मिन्हि सर्पस्सुधितस्तेनत्वा स्वापयामसि ॥ ५॥ सर्पस्सर्पो अजगरसर्पिरविषो महान् । तस्य सर्पात्सिन्धवस्तस्य गाधमशीमहि ॥ ६॥ कालिको नाम सर्पो नवनागसहस्रबलः । यमुनाह्रदेहसो जातो यो नारायण वाहनः ॥ ७॥ यदि कालिकदूतस्य यदि काः कालिकात् भयात् । जन्मभूमिमतिक्रान्तो निर्विषो याति कालिकः ॥ ८॥ आयाहीन्द्र पथिभिरीलितेभिर्यज्ञमिमन्नो भागदेयञ्जुषस्व । तृप्तां जुहुर्मातुलस्ये वयोषा भागस्थे पैतृष्वसेयीवपामिव ॥ ९॥ यशस्करं बलवन्तं प्रभुत्वं तमेव राजाधिपतिर्बभूव । सङ्कीर्णनागाश्वपतिर्नराणां सुमङ्गल्यं सततं दीर्घमायुः ॥ १०॥ कर्कोटको नाम सर्पो योद्वष्टी विष उच्यते । तस्य सर्पस्य सर्पत्वं तस्मै सर्प नमोऽस्तुते ॥ ११॥ सर्पगायत्री - भुजङ्गेशाय विद्महे सर्पराजाय धीमहि । तन्नो नागः प्रचोदयात् ॥ १२॥ नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वीमनु॑ । ये अ॒न्तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ या इष॑वो यातु॒धाना॑नां॒ ये वा॒ वन॒स्पती॒ꣳ॒रनु॑ । ये वा॑ व॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ॥ ४। २। ८॥ First three are from Taittiriya Samhita 4.2.8 Source of other verses is not known.