अक्षर आकार:

सद्गुरुश्रीत्यागराजाष्टकम्

Sadguru Sri Tyagarajashtakam

सद्गुरुश्रीत्यागराजाष्टकम्

ॐ श्रीरामजयम् । श्रीः ॐ सद्गुरुश्रीत्यागराजस्वमिने नमो नमः । त्यागराजाय विद्महे । नादहिम्याय धीमहि । तन्नस्सद्गुरुः प्रचोदयात् ॥ अथ सद्गुरुश्रीत्यागराजाष्टकम् । सद्गुरुत्यागराजाय हिमशैलस्मृताय च । शैलोत्तुङ्गसुगुण्याय महात्मने नमो नमः ॥ १॥ नामगङ्गासुधाराय ज्ञानहिम्याचलाय च । प्राणसंस्फूर्तिकाराय पावनाय नमो नमः ॥ २॥ हिमगद्यप्रचोदाय गङ्गास्तोत्रप्रभूतये । गद्यपद्यप्रमोदाय गुरुदेवाय ते नमः ॥ ३॥ ध्यानगङ्गानिमग्नाय गानगङ्गाप्रसारिणे । ज्ञानगङ्गाप्रभावाय नमो मत्प्राणशक्तये ॥ ४॥ नारायणाप्तकामाय नागशायिसुगायिने । नादमण्डलवृत्ताय नादसद्गुरवे नमः ॥ ५॥ सप्तस्वराधिवासाय सद्गङ्गासदनाय च । सीतारामाभिरामाय सद्गुरुस्वामिने नमः ॥ ६॥ सत्यवाक्सत्यरूपाय सत्त्वातीतैकशक्तये । सत्यश्रीरामनिष्ठाय त्यागराजाय ते नमः ॥ ७॥ नमो मद्गुरुदेवाय नमो मङ्गलमूर्तये । नमो नादावताराय पुष्पार्चिताय ते नमः ॥ ८॥ ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्मचरणयुगले समर्पितं सद्गुरुश्रीत्यागराजाष्टकं सम्पूर्णम् । ॐ शुभमस्तु Copyright Pushpa Srivatsan