अक्षर आकार:

सद्गुरुश्रीत्यागराजमङ्गलाष्टकम्

Sadgur Shri Tyagaraja Mangalashtakam

सद्गुरुश्रीत्यागराजमङ्गलाष्टकम्

ॐ श्रीरामजयम् । सद्गुरु श्रीत्यागराजस्वामिने नमो नमः । अथ सद्गुरुमङ्गलाष्टकम् । हिमगद्यप्रसन्नाय हिमगद्यालयाय च । हिमगद्यप्रसादाय गुरुदेवाय मङ्गलम् ॥ १॥ हिमोत्तुङ्गसुपुण्याय हिमसानुसुकीर्तये । हिमगङ्गासुवाग्गाय गुरुदेवाय मङ्गलम् ॥ २॥ हिममौनप्रशान्ताय हिमगङ्गासुपूतये । हिमशान्तिप्रदात्रे च गुरुदेवाय मङ्गलम् ॥ ३॥ चतुर्धामसुपुण्याय पुष्पामोदसुगीतये । नारायणसुगेयाय त्यागराजाय मङ्गलम् ॥ ४॥ देवदारुसुगीताय नामपक्षिस्वराय च । कृत्यामोदसमीराय गुरुदेवाय मङ्गलम् ॥ ५॥ तलकाचतटाकाय तालरागहिमाद्रये । गललीनसुगङ्गाय गुरुदेवाय मङ्गलम् ॥ ६॥ नीलाकाशविकाशाय शुद्धश्वेतघनाय च । बालालापप्रमोदाय गुरुदेवाय मङ्गलम् ॥ ७॥ हिमालयप्रभावाय बृहदुत्तमगीतये । सद्गुरुत्यागराजाय सर्वस्वाय सुमङ्गलम् ॥ ८॥ ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्मचरणयुगले समर्पितं सद्गुरुमङ्गलाष्टकं सम्पूर्णम् । ॐ शुभमस्तु Copyright Pushpa Srivatsan