अक्षर आकार:

श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम्

Shri Sadashivendrapancharatnastotram

श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रम्

यत्सदशनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य । तत्सदशनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥ १॥ योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्वीथ्याम् । भस्मच्छन्नानल इव जडाकृतिश्चरति तं नौमि ॥ २॥ यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम् । वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम् ॥ ३॥ पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम् । परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥ ४॥ उन्मत्तवत्सञ्चरतीह शिष्य- स्तवेति लोकस्य वचांसि श‍ृण्वन् । खिद्यन्नुवाचास्य गुरुः पुराहो ह्युन्मत्तता मे न हि तादृशीति ॥ ५॥ पञ्चकमतद्भक्त्या श्लोकानां विरचितं लोके । यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य ॥ ६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीसदाशिवेन्द्रपञ्चरत्नस्तोत्रं सम्पूर्णम् ।