अक्षर आकार:

श्रीमज्जगद्गुरुश्रीरोहिणीप्रपन्नाचार्यप्रपत्तिः

shrImajjagadgurushrIrohiNIprapannAchAryaprapattiH

श्रीमज्जगद्गुरुश्रीरोहिणीप्रपन्नाचार्यप्रपत्तिः

श्रीकाश्यपे गोत्रकुलारविन्दं जगन्नाथपादेषु सदानुरक्तम् । रामदेशिके कार्यसदाभिलाषी श्रीरोहिणीपादं समाश्रयामि ॥ १॥ नीराजने भगवतः कृतकार्यभारं श्रीजानकीनाथपदाम्बुजस्य । सत्कारसम्यक्कृतं तिथिना तदीयं श्रीरोहिणीप्रपन्नवरदेशिकमाश्रयामि ॥ २॥ नित्यं प्रसन्नमनसा मनसां मुनीनां सम्मोहनार्थधृतचारुचरित्रगात्रम् । सर्वान् सुसज्जितगुणान् गुरुपादपीठे श्रीरोहिणीप्रपन्नवरदेशिकमाश्रयामि ॥ ३॥ श्रीरामदेशिककृतबहुधर्ममूलं संवर्धनाय बहुमेव कृतं प्रयासम् । सञ्चालनाय पाठकानपि पाठयन्तं रोहिणीप्रपन्नवरदेशिकमाश्रयामि ॥ ४॥ दीनेऽनाथवपुषे चक्षुधार्ति हेतो भिक्षावनेन भ्रमणेन च शिष्यगेहे । निर्हेतुकेन करुणातिथिपूजयन्तं रोहिणीप्रपन्नवरदेशिकमाश्रयामि ॥ ५॥ आचार्यवृत्तिविकसनसुयशोमयूखैः विद्धतविचक्षणविलक्षणभावपूर्णम् । स्वामिन् कृतकृत्य कितये जगदाश्रयन्तं रोहिणीप्रपन्नवरदेशिकमाश्रयामि ॥ ६॥ रोहिणीप्रपन्नमुखमण्डलदर्शनेन संसारतारकदयाद्रि दृगञ्चचलेन श्रीवैष्णवैः सततसेव्यपदाम्बुजेन रोहिणीप्रपन्नवरदेशिकमाश्रयामि ॥ ७॥ वेदान्तदेशिकजयध्वजदण्डहस्ते श्रीवैष्णवैस्सहयामुनदिव्यघोषैः । देशेषु भक्तिविमुखान् हरिपादपद्मे रोहिणीप्रपन्नवरदेशिकमाश्रयामि ॥ ८॥ वैदेहीसंस्थापित वामभागे श्रीरामसव्ये सहलक्षणेन । यतीन्द्रपरकाल श्रीदेशिकाय तं पूजितं रोहिणी मताश्रयामि ॥ ९॥ रामानुजाचार्य अहोविलाद्यै वालमुकुन्देन सुपूजितेन स्वमिन्घनश्याम विराजयन्तं पूजितं रोहिणी मताश्रयामि ॥ १०॥ वेदान्तनारायणयोगिवर्यमठप्रधानै पुरुषोत्तमधेयोपूजितं देशिकरामपूर्वं ते पूजितरोहिणिमाश्रयामि ॥ ११॥ श्रीचित्रकूटे गिरियोगपीठे वेदान्तगुरुपीठ अलङ्कृतेन परमार्थमूर्धन्यविभूषितेन जगद्गुरोः घोषसुमति तेन । ये मानवाः पठन्ति भक्तिसमादरेण भागवतकृतेन प्रपत्तिमूलम्, संसारसागरविमुक्तविकुण्ठभागी गुरुपादसेवनरतिं च भवं तरन्ति ॥ १२॥ ॥ वत्सगोत्रसमुद्भूतभागवताचार्यस्वामिनाभराम- देशिकमुदेकार्षिश्दिंवैष्णव हेतवे ॥ इति श्रीजगद्गुरु श्रीरोहिणीप्रपन्नाचार्य प्रपत्तिः ॥