अक्षर आकार:

श्रीरामकृष्णस्तोत्र २

shrIHymn to Shri Ramakrishna (2)

श्रीरामकृष्णस्तोत्र २

आचण्डालाप्रतिहतरयो यस्य प्रेमप्रवाहः लोकातीतोऽप्यहह न जहौ लोककल्याणमार्गम् । त्रैलोक्येऽप्यप्रतिममहिमा जानकीप्राणबन्धो भक्त्या ज्ञानं वृतवरवपुः सीतया यो हि रामः ॥ १॥ नरदेव देव, जय जय नरदेव स्तब्धीकृत्य प्रलयकलितं वाहवोत्थं महांतम् हित्वा रात्रिं प्रकृतिसहजामन्धतामिस्रमिश्राम् गीतं शांतं मधुरमपि यः सिंहनादं जगर्ज सोऽयं जातः प्रथितपुरुषो रामकृष्णस्त्विदानीम् ॥ २॥ नरदेव देव, जय जय नरदेव शक्तिसमुद्रसमुत्थतरङ्गं दर्शितप्रेमविजृम्भितरङ्गम् । संशयराक्षसनाशमहास्त्रं यामि गुरुं शरणं भववैद्यम् ॥ ३॥ नरदेव देव, जय जय नरदेव अद्वयतत्त्वसमाहितचित्तं प्रोज्ज्वलभक्तिपटावृतवृत्तम् । कर्मकलेवरमद्भुतचेष्टं यामि गुरुं शरणं भववैद्यम् ॥ ४॥ नरदेव देव, जय जय नरदेव -- स्वामी विवेकानन्द Corrections by Swami Mahayogananda.