अक्षर आकार:

श्रीरामकृष्णस्तोत्र १

shrIHymn to Shri Ramakrishna (1)

श्रीरामकृष्णस्तोत्र १

ॐ ह्रीं ऋतं त्वमचलो गुणजिद्गुणेड्यो नक्तं दिवं सकरुणं तव पादपद्मम् । मोहङ्कषं बहुकृतं न भजे यतोऽहं तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ १॥ भक्तिर्भगश्च भजनं भवभेदकारि गच्छंत्यलं सुविपुलं गमनाय तत्त्वम् । वक्त्रोद्धृतंतु हृदि मे न च भाति किंचित् var वक्त्रोद्धृतोऽपि हृदये न मे तस्मात्त्वमेव शरणं मम दीन बन्धो ॥ २॥ तेजस्तरंति तरसा त्वयि तृप्ततृष्णाः var त्वरितं त्वयि रागे कृते ऋतपथे त्वयि रामकृष्णे । मर्त्यामृतं तव पदं मरणोर्मिनाशं तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ ३॥ कृत्यं करोति कलुषं कुहकांतकारि ष्णांतं शिवं सुविमलं तव नाम नाथ । यस्मादहं त्वशरणो जगदेकगम्य तस्मात्त्वमेव शरणं मम दीनबन्धो ॥ ४॥ ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे । अवतारवरिष्ठाय रामकृष्णाय ते नमः ॥ -- स्वामी विवेकानन्द Corrections by Swami Mahayogananda.