अक्षर आकार:

रमणसहस्रनामस्तोत्रम्

Shri Ramanamaharshi Sahasranama Stotra

रमणसहस्रनामस्तोत्रम्

॥ श्रीः ॥ ॥ श्रीरमणसहस्रनामस्तोत्रप्रारम्भः ॥ देव्युवाच । भगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर । अरुणेशस्य माहात्म्यं त्वत्तो विस्तरशः श्रुतम् ॥ १॥ तन्नाम्नामपि साहस्रं सर्वपापहरं नृणाम् । अरुणेशावतारस्य रमणस्य महात्मनः ॥ २॥ इदानीं श्रोतुमिच्छामि तस्य नामसहस्रकम् । यस्य सङ्कीर्तनान्मर्त्यो विमुक्तिं विन्दते ध्रुवम् ॥ ३॥ त्वन्तु सर्वं विजानासि नान्यस्त्वत्तोऽस्य वेदिता । तस्मात्कारुण्यतो मह्यं भक्तिमत्यै विशेषतः ॥ ४॥ नाम्नां सहस्रं दिव्यानां रमणस्य मुनीशितुः । रहस्यमपि वक्तव्यं त्वया गौतम सुव्रत ॥ ५॥ गौतम उवाच । साधु साधु महाभागे प्रश्न एष जगद्धितः । वक्ष्ये तच्छ्रद्धयोपेता सावधानमनाः श‍ृणु ॥ ६॥ ज्ञानं वेदान्तसञ्जातं साक्षान्मोक्षस्य साधनम् । कर्मोपास्त्यादि तद्भिन्नं ज्ञानद्वारैव मुक्तिदम् ॥ ७॥ निष्कामकर्मशुद्धानां विवेकादिमतां नृणाम् । जायते तच्च विज्ञानं प्रसादादेव सद्गुरोः ॥ ८॥ ज्ञानसाधननिष्ठत्वं ज्ञानाभ्यासं विदुर्बुधाः । तारतम्येन भिद्यन्ते ज्ञानाभ्यासाधिकारिणः ॥ ९॥ विचारमात्रनिष्ठस्य मुख्या ज्ञानाधिकारिता । विचारी दुर्लभो लोके विचारो दुष्करो यतः ॥ १०॥ ममुक्षवो नरास्सर्वे ज्ञानाभ्यासेऽधिकारिणः । स्त्रीशूद्राणां तथान्येषां नाधिकारोविगर्हितः ॥ ११॥ देशभाषान्तरेणापि तेषां सोप्युपकारकः । ज्ञानस्य च विचारोऽयं सन्निकृष्टं हि साधनम् ॥ १२॥ विचारभिन्नमार्गश्च न साक्षाज्ज्ञानसिद्धये । विचारजननद्वारेत्याहुर्वेदान्तवेदिनः ॥ १३॥ योगोपास्त्यादयोप्यन्ये सन्ति विज्ञानहेतवः । तदालम्बो भवत्येव विचारानधिकारिणाम् ॥ १४॥ योगोपास्त्याद्यशक्तानां जपस्त्युत्यादिकीर्तनम् । ज्ञानोपायोभवत्येव जिज्ञासानुष्ठितं यदि ॥ १५॥ तस्मादयत्नतोज्ञानं सर्वेषां येन हेतुना । तादृशं नामसाहस्रं रमणस्य महात्मनः ॥ १६॥ त्वय प्रीत्यैव वक्ष्यामि हिताय जगतां श‍ृणु । नाभक्ताय प्रदातव्यमिदं मोक्षसुखप्रदम् ॥ १७॥ अस्य श्रीरमणदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । गौतमो ऋषिः । अनुष्टुप्छन्दः । श्रीरमणपरमात्मादेवता । ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकम् । ``श्री रमणाय नमः'' इति मन्त्रप्रत्येकवर्णेन हृदयादि न्यासः । ॐ भूर्भुवस्स्वरोमिति दिग्बन्धः । ध्यानम् । ध्यायेच्छारदचन्द्रसुन्दरमुखं ताम्रारविन्देक्षणं भक्ताभीष्टवराभयप्रदकरं कौपीनमात्रोज्ज्वलम् । स्वात्मानन्दरसानुभूतिविवशं सर्वानवद्याङ्गकं श्रीमन्तं रमणेश्वरं गुरुवरं योगासनाध्यासितम् ॥ अरुणजलजनेत्रं मुग्धमन्दस्मितास्यं तरुणतपनभासं पूर्णबोधप्रसादम् । अरुणशिखरिसानुप्राङ्गणे सञ्चरन्तं रमणमरुणमूर्तिं चिन्तयेदिष्टसिद्ध्यै ॥ ॥ ॐ ॥ अरुणेशमहाशक्तिनिपातप्रतिबोधितः । अचिन्त्यपरनिर्वाणस्थितिरव्यक्तशक्तिकः ॥ १॥ अनभ्यासश्रमावाप्तसमस्तनिगमागमः । अरुणाचलनाथीयपञ्चरत्नप्रकाशकः ॥ २॥ अनाहतान्यहृदयस्थानबोधनपण्डितः । अकारादिक्षकारान्तमातृकामन्त्रमालिकः ॥ ३॥ अन्तर्गतमहाशक्तिरणिमादिगुणान्वितः । अभ्यासातिशयज्ञात अत्याश्चर्यचरित्रकः ॥ ४॥ अतिवर्णाश्रमाचारोऽचिन्त्यशक्तिरमोघदृक् । अङ्गावन्त्यादिदेशीयमुमुक्षुजनताश्रयः ॥ ५॥ अन्तर्मुखोऽन्तराराम अन्तर्याम्यहमर्थदृक् । अहमर्थैकलक्ष्यार्थ अरुणाद्रिमयोऽरुणः ॥ ६॥ अपीताम्बाङ्गनिर्माल्यपयःपानैकजीवितः । अध्यात्मयोगनिलय अदीनात्माऽघमर्षणः ॥ ७॥ अकायो भक्ताकायस्थः कालचक्रप्रवर्तकः । अक्षिपेयामृताम्भोधिराहूयैश्वर्यदायकः ॥ ८॥ आजानुबाहुरक्षोभ्य आत्मवाननसूयकः । आवर्तक्षेत्रसञ्जात आर्तरक्षणतत्परः ॥ ९॥ इतिहासपुराणज्ञ इष्टापूर्तफलप्रदः । इडापिङ्गलिकामध्य-सुषुम्नाग्रन्थिभेदकः ॥ १०॥ इडापिङ्गलिकामध्य-सुषुम्नामध्यभासुरः । इष्टार्थदाननिपुण इन्द्रभोगविरक्तधीः ॥ ११॥ ईशान ईषणाहीनः ईतिबाधाभयापहः । उपास्यमूर्तिरुत्साहसम्पन्न उरुविक्रमः ॥ १२॥ उदासीनवदासीन उत्तमज्ञानदेशिकः । नाम ५० ऊर्ध्वरेता ऊर्ध्वगति रुटजस्थ उदारधीः ॥ १३॥ ऋषीऋषिगणस्तुत्यो ऋजुबुद्धी ऋजुप्रियः । ऋतम्भर ऋतप्रज्ञो ऋजुमार्गप्रदर्शकः ॥ १४॥ एवमित्यविनिर्णेयः एनःकूटविनाशनः । ऐश्वर्यदाननिपुण औदार्यगुणमण्डितः ॥ १५॥ ओङ्कारपदलक्ष्यार्थ औपम्यपरिवर्जितः । कटाक्षस्यन्दिकरुणः कटिबद्धालमल्लकः ॥ १६॥ कमनीयचरित्राढ्यः कर्मवित्कविपुङ्गवः । कर्माकर्मविभागज्ञः कर्मलेपविवर्जितः ॥ १७॥ कलिदोषहरः कम्रः कर्मयोगप्रवर्तकः । कर्मन्दिप्रवरः कल्यः कल्याणगुणमण्डितः ॥ १८॥ कान्तिपत्तनसन्दृष्टारुणज्योतिःप्रहर्षितः । कामहन्ताकान्तमूर्तिः कालात्माकालसूत्रहृत् ॥ १९॥ काङ्क्षाहीनः कालकाङ्क्षी काशीवासफलप्रदः । काश्मीरदेश्यसेव्याङ्घ्रिर्नेपालीयसमर्चितः ॥ २०॥ कामकारनिराकर्ता कृतकृत्यत्वकारकः । काव्यकण्ठसुधीदृष्टकार्तिकेयस्वरूपधृक् ॥ २१॥ किङ्करीकृतभूपालः कीर्तिमान्कीर्तिवर्द्धनः । कुमारः कुतलामोदः कुकुटुम्बी कुलोद्गतः ॥ २२॥ नाम १०० कुष्ठापस्माररोगघ्नः कुसुमारामनिष्ठितः । कृपालुः कृपणालम्बः कृशानुसदृशः कृशः ॥ २३॥ केरलान्ध्रादिभाषाज्ञः केरलान्ध्रजनेडितः । कैवल्यपदनिश्श्रेणिः कैवल्यसुखदायकः ॥ २४॥ कोऽहं नाहं सोऽहमिति स्वात्मान्वेषणमार्गदृक् । कोऽहंविमर्शब्रह्मास्त्र-नाशिताशेषविभ्रमः ॥ २५॥ कोशालयप्रतिष्ठाता कोशवान्कोशवीक्षिता । क्षमावान्क्षिप्रसन्तुष्टः क्षपिताशेषकल्मषः ॥ २६॥ क्षतकर्मा क्षताविद्यः क्षीणभक्तजनावनः । क्षामनाशी क्षुधाहीनः क्षुद्रघ्नः क्षितिमण्डनम् ॥ २७॥ क्षेत्रज्ञः क्षेमदः क्षेमः क्षेमार्थिजनवन्दितः । क्षेत्राटनपरिश्रान्तभक्तक्षिप्रप्रसादनः ॥ २८॥ क्ष्म्रौंमन्त्रबीजतत्त्वज्ञः क्षेत्राजीवफलप्रदः । गम्भीरो गर्वितोगर्वविहीनो गर्वनाशनः ॥ २९॥ गद्यपद्यप्रियोगम्यो गायत्रीमन्त्रबोधितः । गिरिशो गीष्पतिर्गुण्यो गुणातीतो गुणाकरः ॥ ३०॥ गृहीगृहविनिर्मुक्तो ग्रहातिग्रहसञ्जयी । गीतोपदेशसारादिग्रन्थकृद् ग्रन्थिभेदकः ॥ ३१॥ नाम १५० गुरुमूर्ततपोनिष्ठः नैसर्गिकसुहृद्वरः । गृहिमुक्त्यधिकारित्व व्यवस्थापनतत्परः ॥ ३२॥ गोविन्दो गोकुलत्राता गोष्ठीवान्गोधनान्वितः । चराचरहितश्चक्षुरुत्सवश्चतुरश्चलः ॥ ३३॥ चतुर्वर्गचतुर्भद्रप्रदश्चरमदेहभृत् । चाण्डालचटकश्वाऽहि-किटिकीशहितङ्करः ॥ ३४॥ चित्तानुवर्ती चिन्मुद्री चिन्मयश्चित्तनाशकः । चिरन्तनश्चिदाकाशश्चिन्ताहीनश्चिदूर्जितः ॥ ३५॥ चोरहा चोरदृक् चोरचपेटाघातनन्दितः । छलच्छद्मवचोहीनश्शत्रुजिच्छत्रुतापनः ॥ ३६॥ छन्नाकारश्छान्दसेड्यञ्छिन्नकर्मादि बन्धनः । छिन्नद्वैधश्छिन्नमोहश्छिन्नहृच्छिन्नकल्मषः ॥ ३७॥ जगद्गुरुर्जगत्प्राणो जगदीशो जगत्प्रियः । जयन्तीजोजन्महीनो जयदो जनमोहनः ॥ ३८॥ जाग्रत्स्वप्नसुषुप्त्यादिसाक्षी जाड्यविनाशकः । जातिवर्णभिदाशून्यो जितात्मा जितभूतकः ॥ ३९॥ जितेन्द्रियो जितप्राणो जितान्तश्शत्रुसञ्चयः । नाम २०० जीवब्रह्मैक्यविज्जीवन्मुक्तो जीवत्वनाशकः ॥ ४०॥ ज्योतिर्लिङ्गमयज्योतिस्समलोष्टाश्मकाञ्चनः । जेता ज्यायाज्ज्ञानमूर्तिर्ज्ञानी ज्ञानमहानिधिः ॥ ४१॥ ज्ञानज्ञातृज्ञेयरूपत्रिपुटीभावनोज्झितः । ज्ञातसर्वागमो ज्ञानगम्यो ज्ञातेयसन्नुतः ॥ ४२॥ ज्ञानविज्ञानतृप्तात्मा ज्ञानसञ्छिन्नसंशयः । ज्ञानाग्निदग्धकर्मा च ज्ञानोपायप्रदर्शकः ॥ ४३॥ ज्ञानयज्ञविधिप्रीतो ज्ञानावस्थितमानसः । ज्ञाताऽज्ञातान्यचिन्मात्रो ज्ञानवृद्धोपलालितः ॥ ४४॥ तत्त्वज्ञस्तत्त्वविन्नेता तत्त्वमस्यादिलक्षितः । तत्त्वभाषणसन्तुष्टस्तत्त्वबोधकदेशिकः ॥ ४५॥ तत्पदार्थैकसंलीनस्तत्त्वान्वेषण तत्परः । तपनस्तपनीयाङ्गस्तमस्सन्तापचन्द्रमाः ॥ ४६॥ तपस्वी तापसाराध्यस्तपः क्लिष्टतनूद्वहः । तपस्तत्त्वार्थसारज्ञस्तपोमूर्तिस्तपोमयः ॥ ४७॥ तपोबलसमाकृष्टभक्तसङ्घसमावृतः । तापत्रयाग्निसन्तप्तजनसञ्जीवनामृतम् ॥ ४८॥ तातादेशाप्तशोणाद्रिस्तातारुणमहेश्वरः । तातान्तिकसमागन्ता तातान्वेषणतत्परः ॥ ४९॥ तितिक्षुस्तीर्थवित्तीर्थं तुरीयस्तुष्टमानसः । नाम २५० तुल्यनिन्दास्तुतिस्तूष्णींशीलस्तृष्णाविवर्जितः ॥ ५०॥ तेजस्वीत्यक्तविषयस्त्रयीभावार्थकोविदः । त्रिदिवेशमुखोपास्यस्त्रिवर्गस्त्रिगुणात्मकः ॥ ५१॥ त्रैलोक्यबुधसम्पूज्यस्त्रैलोक्यग्रासबृंहितः । त्रैलोक्यसृष्टिस्थितिकृत् त्रैगुण्यविषयोज्झितः ॥ ५२॥ त्रैगुण्यविषवेगघ्नो दक्षो दग्धवपुर्धरः । दर्शनीयो दयामूर्तिर्दक्षिणास्यो दमान्वितः ॥ ५३॥ दण्डधृक् दण्डनीतिस्थो दक्षिणो दम्भवर्जितः । दहराकाशमध्यस्थ चिदाकाशप्रतिष्ठितः ॥ ५४॥ दशदिक्पालसम्पूज्यो दशदिग्व्यापिसद्यशाः । दक्षिणद्वीपविख्यातो दाक्षिणात्यकलाकविः ॥ ५५॥ दारिद्र्यध्वंसको दान्तो दारितक्लेशसन्ततिः । दासीदासभरो दिव्यो दिष्ट्याबुद्धो दिगम्बरः ॥ ५६॥ दीर्घदर्शी दीप्यमानो दीनबन्धुर्दृगात्मकः । दुर्विगाह्यो दुराधर्षो दुराचारनिवर्तकः ॥ ५७॥ दृग्दृश्यभेदधीशून्यो दर्शनं दृप्तखण्डकः । देववन्द्यो देवतेशो दोषज्ञो दोषनाशनः ॥ ५८॥ नाम ३०० द्वादशार्णमनुध्येयो द्वादशान्तस्थलस्थितः । दैविको द्राविडो द्वीपान्तरविख्यातवैभवः ॥ ५९॥ द्वितीयातिथिसम्भूतो द्वैतभावविमुक्तधीः । द्वैताद्वैतमतातीतो द्वैतसन्तमसापहः ॥ ६०॥ धनदो धर्मसूक्ष्मज्ञो धर्मराट् धार्मिकप्रियः । धाता धातृसमश्रीको धातुशुद्धिविधायकः ॥ ६१॥ धारणाशक्तिमान्धीरो धुरीणो धृतिवर्द्धनः । धीरोदात्तगुणोपेतो ध्याननिष्ठो ध्रुवस्मृतिः ॥ ६२॥ नमज्जनोद्धारणकृन्नरवाहनसन्निभः । नवनीतसमस्वान्तो नतसाधुजनाश्रयः ॥ ६३॥ नरनारीगणोपेतो नगसानुकृताश्रमः । नममेत्यव्यययुतो नवीनो नष्टमानसः ॥ ६४॥ नयनानन्ददो नम्यो नामोच्चारणमुक्तिदः । नागस्वाम्यनुजो नागसुन्दरज्येष्ठतां गतः ॥ ६५॥ नादबिन्दुकलाभिज्ञो नादब्रह्मप्रतिष्ठितः । नादप्रियो नारदादिपूज्यो नामविवर्जितः ॥ ६६॥ नामी नामजपप्रीतो नास्तिकत्वविघातकृत् । नासाग्रण्यस्तदृङ् नामब्रह्मातीतो निरञ्जनः ॥ ६७॥ निरञ्जनाश्रयो नित्यतृप्तो निश्श्रेयसप्रदः । नाम ३५० निर्यत्नसिद्धनित्य श्रीर्नित्यसिद्धस्वरूपदृक् ॥ ६८॥ निर्ममो निरहङ्कारो निरवद्यो निराश्रयः । नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः ॥ ६९॥ निर्मलो निश्चलो नित्यो निर्मोहो निरुपाधिकः । निस्सङ्गो निगमस्तुत्यो निरीहो निरुपप्लवः ॥ ७०॥ नित्यशुद्धो नित्यबुद्धो नित्यमुक्तो निरन्तरः । निर्विकारो निर्गुणात्मा निष्पापो निष्परिग्रहः ॥ ७१॥ निर्भवो निस्तुलो निघ्नो निजानन्दैकनिर्भरः । निग्रहानुग्रहसमो निकृतिज्ञो निदानवित् ॥ ७२॥ निर्ग्रन्थो निर्नमस्कारो निस्तुलिर्निरयापहः । निर्वासनो निर्व्यसनो निर्योगक्षेमचिन्तनः ॥ ७३॥ निर्बीजध्यानसंवेद्यो निर्वादो निश्शिरोरुहः । पञ्चाक्षरमनुध्येयः पञ्चपातकनाशनः ॥ ७४॥ पञ्चस्कन्धीमताभिज्ञः पञ्चकोशविलक्षणः । पञ्चाग्निविद्यामार्गज्ञः पञ्चकृत्यपरायणः ॥ ७५॥ नाम ४०० पञ्चवक्त्रः पञ्चतपाः पञ्चताकारणोद्धरः । पञ्चोपचारसम्पूज्यः पञ्चभूतविमर्दनः ॥ ७६॥ पञ्चविंशतितत्त्वात्मा महापञ्चदशाक्षरः । पराशरकुलोद्भूतः पण्डितः पण्डितप्रियः ॥ ७७॥ परमेष्ठी परेशानः परिपूर्णः परात्परः । परंज्योतिः परंधाम परमात्मा परायणम् ॥ ७८॥ पतिव्रताभीष्टदायी पर्यङ्कस्थः परार्थवित् । पवित्रपादः पापारिः परार्थैकप्रयोजनः ॥ ७९॥ पालीतीर्थतटोल्लासी पाश्चात्यद्वीपविश्रुतः । पिता पितृहितः पित्तनाशकः पितृमोचकः ॥ ८०॥ पितृव्यान्वेषित पीनः पातालेशालयस्थितः । पुनर्वसूदितः पुण्यः पुण्यकृत्पुरुषोत्तमः ॥ ८१॥ पुन्नागतरुवत्क्षेत्री पुण्यापुण्यविवर्जितः ॥। पूतात्मा पृथुकप्रीतः पृथुदश्च पुरोहितः ॥ ८२॥ प्रतिमाकृतसान्निध्यः प्रतिग्रहपराङ्मुखः । प्रमादिवत्सरोद्भूतः प्रकृतिस्थः प्रमाणवित् ॥ ८३॥ प्रतीकोपास्तिविषयः प्रत्युत्तरविचक्षणः । नाम ४५० प्रत्यक् प्रशान्तः प्रत्यक्षः प्रश्रितः प्रतिभानवान् ॥ ८४॥ प्रदक्षिणाप्रीतमनाः प्रवालाद्रिसमाश्रयः । प्राच्यप्रतीच्यदेशीय विबुधाग्रण्यवन्दितः ॥ ८५॥ प्रस्थानभेदसम्बोद्ध्यः प्रांशुः प्राणनिरोधकः । प्रसूतिदिनवृद्धस्त्री दर्शितज्योतिराकृतिः ॥ ८६॥ प्रार्थितार्थप्रदः प्राज्ञः प्रावारकनिगूहितः । प्रातस्स्मर्तव्यचारित्रः प्राप्तप्राप्तव्यनिर्वृतः ॥ ८७॥ प्रयाणस्मृतिसम्प्राप्यः प्रियहीनः प्रियंवदः । प्रेक्षावान्प्रेष्यरहितः फलभूतः फलप्रदः ॥ ८८॥ बहुश्रुतो बहुमतो बहुपाकी बहुप्रदः । बलवान्बन्धुमान्बालरूपो बाल्यविचेष्टितः ॥ ८९॥ बालभानुप्रतीकाशो बालसन्न्यासिशब्दितः । ब्रह्मचर्यतपोयोगश्रुतप्रज्ञासमन्वितः ॥ ९०॥ ब्रह्मण्यो ब्रह्मविद्ब्रह्म ब्रह्मसायुज्यदायकः । ब्रह्मार्पितमनोबुद्धिर्ब्राह्मणस्वामिनामकः ॥ ९१॥ ब्रह्मासनस्थितो ब्रह्मसूत्रविद्भगवान्भवः । भयकृद्भयसंहर्ता भवादो भक्तभावितः ॥ ९२॥ नाम ५०० भारूपो भावनाग्राह्यो भावज्ञो भाग्यवर्द्धनः । भारतीयमहाभाग्यं भारतख्यातिपोषकः ॥ ९३॥ भारतोद्यद्ज्ञानदीपो भावनाभेदकृन्तनः । भिदाशून्यो भिदाध्वंसी भावुको भिक्षुकेश्वरः ॥ ९४॥ भूतिदो भूतिकृद्भूमि नाथपूर्णांशसम्भवः । भौमब्रह्म भ्रमध्वंसी भूहृत्क्षेत्रलक्षितः ॥ ९५॥ भूतिभूषितसर्वाङ्गो मङ्गलो मङ्गलप्रदः । मनोबुद्धिरहङ्कारः प्रकृतिश्च परः पुमान् ॥ ९६॥ महाशक्तिर्महासिद्धिर्महोदारो महाद्युतिः । महाकर्ता महाभोक्ता महायोगी महामतिः ॥ ९७॥ महामान्यो महाभागो महासेनमहोंशजः । मर्यादाकृन्महादेवो महारूपी महायशाः ॥ ९८॥ महोद्यमो महोत्साहो ममताग्रहपीडनः । महामन्त्रो महायन्त्रो महावाक्योपदेशकः ॥ ९९॥ महावाक्यार्थतत्त्वज्ञो महामोहनिवारकः । मायावी मानदो मानी मातृमुक्तिविधायकः ॥ १००॥ नाम ५५० मानावमानसाम्यात्मा मालूराधस्तपस्स्थितः । मधूकद्रुतलस्थायी मातृमान्मातृभक्तिमान् ॥ १०१॥ मात्रालयप्रतिष्ठाता मार्गितो मार्गबान्धवः । मार्गणीयो मार्गदर्शी मार्गशीर्षकृतोदयः ॥ १०२॥ मार्गितात्मा मार्गशून्यो मितभुङ्मितसञ्चरः । मितस्वप्नावबोधश्च मिथ्याबाह्यनिरीक्षकः ॥ १०३॥ मुनिर्मुक्तो मुक्तिदायी मेधावी मेध्यभोजनः । मौनव्याख्यानकृन्मौनी मौनभाषाविशारदः ॥ १०४॥ मौनामौनद्वयातीतो मौनदो मौनिषु प्रियः । यज्ञकृद्यज्ञभुग्यज्ञो यजमानो यथार्थवित् ॥ १०५॥ यतात्मा यतिसम्पूज्यो यतिप्राप्यो यशस्करः । यमाद्यष्टाङ्गयोगज्ञो यजुश्शाखी यतीश्वरः ॥ १०६॥ यवनानुग्रहकरो यक्षो यमनिषूदनः । यात्राविरहितो यानाऽनारूढो याज्ञिकप्रियः ॥ १०७॥ यातनानाशनो याञ्चहीनो याचितदायकः । नाम ६०० युक्तकृद्युक्तभुग्युक्त स्वप्नबोधो युगादिकृत् ॥ १०८॥ योगीशो योगपुरुषो योगतत्त्वविवेचकः । योगासनो योगभूमि समारोहणसाधकः ॥ १०९॥ योगिगम्यो योगफलं योगभ्रष्टशुभप्रदः । योगप्रशंसी योगस्थो योगक्षेमधुरन्धरः ॥ ११०॥ रक्षको रमणो रम्यो रमणीयाङ्गसंहतिः । रमेशक्लेशसन्दृष्टज्योतिरक्लेशदर्शनः ॥ १११॥ रजोपहो रजोमूर्ती रसिको रसशेवधिः । रहस्यो रञ्जनो रस्यो रत्नगर्भो रसोदयः ॥ ११२॥ राजविद्यागुरू राज विद्याविद्राजमानितः । राजसाहारनिर्मुक्तो राजसज्ञानदूरगः ॥ ११३॥ रागद्वेषविनिर्मुक्तो रसालाश्रमकोकिलः । रामाभिरामो राजश्रीः राजा राज्यहितङ्करः ॥ ११४॥ राजभोगप्रदो राष्ट्रभाषाविद्राजवल्लभः । रुदितद्वेषणो रुद्रो लक्ष्मीवान्लक्ष्मिवर्द्धनः ॥ ११५॥ लज्जालुर्ललितो लब्धलब्धव्यो लघुसिद्धिदः । नाम ६५० लयविल्लब्धकामौघो लाभालाभसमाशयः ॥ ११६॥ लयाधिष्ठानतत्त्वज्ञो लयपूर्वसमाधिमान् । लास्यप्रियो लिङ्गरूपी लिङ्गोत्थो लिङ्गवर्जितः ॥ ११७॥ लिपिलेखचणो लोकशिक्षको लोकरक्षकः । लोकायतमताभिज्ञो लोकवार्ताविवर्जितः ॥ ११८॥ लोकोदासीनभावस्थो लोकोत्तरगुणोत्तरः । लोकाध्यक्षो लोकपूज्यो लोकासारत्वबोधकः ॥ ११९॥ लोकाकर्षणशक्तात्मशक्तिमत्कान्तपर्वतः । लोकानुत्सादको लोकप्रमाणं लोकसङ्ग्रही ॥ १२०॥ लोकबोधप्रकाशार्थ शोणोद्यज्ज्ञानभास्करः । वरिष्ठो वरदो वक्ता वङ्गदेश्यजनाश्रयः ॥ १२१॥ वन्दारुजनमन्दारो वर्तमानैककालवित् । वनवासरसाभिज्ञो वलित्रयविभूषितः ॥ १२२॥ वसुमान्वस्तुतत्त्वज्ञो वन्द्यो वत्सतरीप्रियः । वर्णाश्रमपरित्राता वर्णाश्रममतातिगः ॥ १२३॥ वाक्यज्ञो वाक्यकुशलो वाङ्मनोबुद्ध्यगोचरः । वाद्यगीतप्रियो वाजश्रवा वापीप्रतिष्ठकः ॥ १२४॥ वाहनागारनिष्ठावान्वाजिमेधफलप्रदः । वक्षोदक्षिणभागस्थ हृदयस्थानदर्शकः ॥ १२५॥ नाम ७०० वचद्भूमन्त्रसंसेव्यो विचारैकोपदेशकृत् । विचारमात्रनिरतो विवेकिजनतादृतः ॥ १२६॥ विदितात्मा विधेयात्मा विस्मितेशादिवीक्षितः । विरूपाक्षगुहावासी विश्वात्मा विश्वभुग्विभुः ॥ १२७॥ विविक्तसेवी विघ्नेशचैत्यप्राकारसंस्थितः । विध्यदृष्टमहोदर्शी विज्ञानानन्दसुन्दरः ॥ १२८॥ विघसाशी विशुद्धात्मा विपर्यासनिरासकः । विभूतिसितफालाढ्यो विरोधोक्तिविनाकृतः ॥ १२९॥ विश्वम्भरो विश्ववैद्यो विश्वास्यो विस्मयान्वितः । वीणागेयो वीतमायो वीर्यवान्वीतसंशयः ॥ १३०॥ वृद्धिह्रासविनाभूतो वृद्धो वृत्तिनिरोधकः । वृत्तिदो वृत्तिबोधेद्धो वेणुवाद्यवशंवदः ॥ १३१॥ वेदवेदान्ततत्त्वज्ञो वेषदोषप्रकाशकः । व्यक्ताव्यक्तस्वरूपज्ञो व्यङ्ग्यवाक्यप्रयोगवित् ॥ १३२॥ व्याप्ताखिलो व्यवस्थाकृद्व्यवसायविबोधकः । वैज्ञानिकाग्रणीर्वैश्वानरो व्याघ्राजिनस्थितः ॥ १३३॥ शरण्यश्शर्मदश्शक्ति पातबुद्धश्शमान्वितः । शरीरिवद्भासमानश्शर्मण्यजनवन्दितः ॥ १३४॥ नाम ७५० शास्त्रजालमहारण्य वृथाटननिषेधकः । शास्त्राभ्यासफलीभूत ज्ञानविज्ञानतत्परः ॥ १३५॥ शास्त्रोल्लङ्घनविद्वेषी शास्त्रमार्गाविलङ्घनः । शान्तात्मा शान्तिदश्शान्तिधनश्शान्तोपदेशकः ॥ १३६॥ शाण्डिल्योपास्तिलक्ष्यार्थश्शास्त्रयोनिः प्रजापतिः । शिवङ्करश्शिवतमश्शिष्टेष्टश्शिष्टपूजितः ॥ १३७॥ शिवप्रकाशसन्तुष्टश्शिवाद्वैतप्रतिष्ठितः । शिवगङ्गातडाकस्थश्शिवज्ञानप्रदायकः ॥ १३८॥ शीताचलप्रान्त्यपूज्यश्शीप्रातीरजनाश्रयः । शुभाशुभपरित्यागी शुभाशुभविमत्सरः ॥ १३९॥ शुक्लकृष्णगतिज्ञानी शुभंयुश्शिशिरात्मकः । शुकवज्जन्मसंसिद्धश्शेषाद्रिस्वामिवत्सलः ॥ १४०॥ शैववैष्णवशाक्तादि विरोधप्रतिरोधकः । श‍ृङ्गारादिरसालम्बो श‍ृङ्गाररसविप्रियः ॥ १४१॥ श्रवणाध्यर्थतत्त्वज्ञश्श्रवणानन्दभाषितः । शोणेशालयसञ्चारी शोणेशः शोणतीर्थवित् ॥ १४२॥ शोकमोहाद्यसंस्पृष्टश्शोणक्षेत्राधिदैवतम् । श्रीदः श्रीशः श्रीनिवासः श्रीकण्ठमततत्त्ववित् ॥ १४३॥ श्रीविद्यामन्त्रतत्त्वज्ञः श्रीवैष्णवमतप्रियः । श्रुतितात्पर्यनिर्वक्ता श्रुतमात्रावधारणः ॥ १४४॥ श्रुतश्रोतव्यसन्तुष्टः श्रौतमार्गसमर्थकः । षडध्वध्वान्तविध्वंसी षडूर्मिभयभञ्जनः ॥ १४५॥ नाम ८०० षट्ग्रन्थिभेदचतुरष्षट्गुणी षट्प्रमाणवान् । षट्कोणमध्यनिलयष्षडरिघ्नष्षडाश्रयः ॥ १४६॥ षण्डत्वघ्नष्षडाधारनिर्ध्यातष्षडनादिवित् । सर्वज्ञस्सर्ववित्सर्वस्सार्वस्सर्वमनस्स्थितः ॥ १४७॥ सदसन्निर्णयज्ञानी सर्वभूतसमाशयः । सर्वश्रुतिस्सर्वचक्षुस्सर्वाननकरादिमान् ॥ १४८॥ सर्वेन्द्रियगुणाभासस्सर्वसम्बन्धवर्जितः । सर्वभृत्सर्वकृत्सर्वहरस्सर्वहितेरतः ॥ १४९॥ सर्वारम्भपरित्यागी सगुणध्यायितारकः । सर्वभूतनिशाबुद्धस्सर्वजागरनिद्रितः ॥ १५०॥ सर्वाश्चर्यमस्सभ्यस्सङ्कल्पघ्नस्सदातनः । सर्गादिमध्यनिधनस्सकृत्स्मृतिविमुक्तिदः ॥ १५१॥ संयमी सत्यसन्धश्च संस्कारपरिवर्जितः । समस्समविभक्ताङ्गस्समदृक् समसंस्थितः ॥ १५२॥ समर्थस्समरद्वेषी समर्यादस्समाहितः । समयज्ञस्सदानन्दस्समाहृतनिजेन्द्रियः ॥ १५३॥ सत्तासंविन्मयज्योतिस्सम्प्रदायप्रवर्तकः । नाम ८५० समस्तवृत्तिमूलाहं वृत्तिनाशोपदेशकः ॥ १५४॥ सम्राट् समृद्धस्सम्बुद्धस्सर्वश्रुतिमनोहरः । सरलस्सरसस्सर्वरसस्सर्वानुभूतियुक् ॥ १५५॥ सर्वेश्वरस्सर्वनिधिस्सर्वात्मा सर्वसाधकः । सहजप्राप्तकर्मानुष्ठानत्यागनिषेधकः ॥ १५६॥ सहिष्णुस्सात्त्विकाहारस्सात्त्विकज्ञानिवीक्षितः । सत्त्वाधिकमनोबुद्धिसुखधैर्यविवर्धकः ॥ १५७॥ सात्त्विकत्यागयोगज्ञस्सात्त्विकाराध्यवैभवः । सार्धषोडशवर्षाप्तपारिव्राज्यो विरक्तधीः ॥ १५८॥ सामगानप्रियस्साम्यवैषम्यमतिकृन्तनः । साधिताखिलसिद्धीशस्सामवित्सामगायनः ॥ १५९॥ सिद्धार्थस्सिद्धसङ्कल्पस्सिद्धिदस्सिद्धसाधनः । सिद्ध्यसिद्धिसमस्सिद्धस्सिद्धसङ्घसमर्चितः ॥ १६०॥ सिसाधयिषुलोकेड्यस्सहायाम्बासहायवान् । सुन्दरस्सुन्दरक्षेत्र विद्याभ्यासविलासभृत् ॥ १६१॥ सुन्दरेश्वरलीलाकृत् सुन्दरानन्दवर्द्धनः । सुरर्षिसन्नुतस्सूक्ष्मस्सूरिदृश्यपदस्थितः ॥ १६२॥ सुदर्शनस्सुहृत्सूरिस्सूनृतोक्तिवदावदः । सूत्रवित्सूत्रकृत्सूत्रं सृष्टिवैतथ्यबोधकः ॥ १६३॥ नाम ९०० सृष्टिवाक्यमहावाक्यैक्यकण्ठ्यप्रतिपादकः । सृष्टिहेतुमनोनाशी सृष्ट्यधिष्ठाननिष्ठितः ॥ १६४॥ स्रक्चन्दनादिविषयविरागी स्वजनप्रियः । सेवानम्रस्वभक्तौघ सद्योमुक्तिप्रदायकः ॥ १६५॥ सोमसूर्याग्न्यप्रकाश्य स्वप्रकाशस्वरूपदृक् । सौन्दर्याम्बातपस्सम्पत्परीपाकफलायितः ॥ १६६॥ सौहित्यविमुखस्स्कन्दाश्रमवासकुतूहली । स्कन्दालयतपोनिष्ठस्स्तव्यस्तावकवर्जितः ॥ १६७॥ सहस्रस्तम्भसंयुक्त मण्डपान्तरमाश्रितः । स्तैन्यस्तेनस्स्तोत्रशास्त्र गेयस्स्मृतिकरस्स्मृतिः ॥ १६८॥ सामरस्यविधानज्ञस्सङ्घसौभ्रात्रबोधकः । स्वभावभद्रो मध्यस्थस्स्त्रीसन्न्यासविधायकः ॥ १६९॥ स्तिमितोदधिवज्ज्ञानशक्तिपूरितविग्रहः । स्वात्मतत्त्वसुखस्फूर्तितुन्दिलस्वस्वरूपकः ॥ १७०॥ स्वस्वधर्मरतश्लाघी स्वभूस्स्वच्छन्दचेष्टितः । स्वस्वरूपपरिज्ञान परामृतपदस्थितः ॥ १७१॥ स्वाध्यायज्ञानयज्ञेज्यस्वतस्सिद्धस्वरूपदृक् । स्वस्तिकृत्स्वस्तिभुक्स्वामी स्वापजाग्रद्विवर्जितः ॥ १७२॥ हन्तृहन्तव्यताशून्य शुद्धस्वात्मोपदेशकः । हस्तपादाद्यसङ्ग्राह्यनिर्लिप्तपरमार्थदृक् ॥ १७३॥ हत्यादिपापशमनो हानिवृद्धिविवर्जितः । हितकृद्धूणदेशीय जनवर्णितवैभवः ॥ १७४॥ हृदयब्रह्मतत्त्वज्ञो हृदयान्वेषदेशनः । हृदयस्थो हृदयाकाशस्वरूपी हृद्गुहाशयः ॥ १७५॥ हार्दाकाशान्तरगत बाह्याकाशादिवस्तुदृक् । हृदयस्थानतत्त्वज्ञो हृदहन्नाशपण्डितः ॥ १७६॥ नाम ९५० हेयोपादेयरहितो हेमन्तर्तुकृतोदयः । हरिब्रह्मेन्द्रदुष्प्रापस्वाराज्योर्जितशासनः ॥ १७७॥ हतासुरप्रकृतिको हंसो हृद्यो हिरण्मयः । हार्दविद्याफलीभूतो हार्दसन्तमसापहः ॥ १७८॥ सेतुस्सीमा समुद्रश्च समाभ्यधिकवर्जितः । पुराणः पुरुषः पूर्णोऽनन्तरूपस्सनातनः ॥ १७९॥ ज्योतिः प्रकाशः प्रथितस्स्वयम्भानः स्वयम्प्रभुः । सत्यं ज्ञानं सुखं स्वस्थस्स्वानुभूः परदैवतम् ॥ १८०॥ महर्षिश्च महाग्रासो महात्मा भगवान्वशी । अहमर्थोऽप्रमेयात्मा तत्त्वं निर्वाणमुत्तमम् ॥ १८१॥ अनाख्यवस्तु मुक्तात्मा बन्धमुक्तिविवर्जितः । अदृश्यो दृश्यनेता च मूलाचार्यस्सुखासनः ॥ १८२॥ अन्तर्यामी पारशून्यो भूमा भोजयिता रसः । नाम १००० उपसंहारः । कोऽहं मार्ग धनुष्पाणिर्नाहं तत्त्वसुदर्शनः । सोऽहं बोध महाशङ्खो भगवान् रमणोऽवतु ॥ १॥ इति त्रिवारम् इति ते नामसहस्रं रमणस्य महात्मनः । कथितं कृपया देवि गोप्याद्गोप्यतरं मया ॥ २॥ य इदं नामसाहस्रं भक्त्या पठति मानवः । तस्य मुक्तिरयत्नेन सिद्ध्यत्येव न संशयः ॥ ३॥ विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् । वैराग्यकामो लभते वैराग्यं भवतारकम् ॥ ४॥ येन येन च यो योऽर्थी स स तं तं समश्नुते । सर्व पापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ॥ ५॥ दुर्देशकालोत्थदुरामयार्ताः दौर्भाग्यतापत्रयसन्निरुद्धाः । नराः पठन्तो रमणस्य नाम- साहस्रमीयुस्सुखमस्तदुःखम् ॥ ६॥ इति श्रीगौतममहर्षिप्रोक्तं श्रीरमणसहस्रनामस्तोत्रं सम्पूर्णम् । ॥ शुभमस्तु ॥ This is a Ramanashram Publication available at http://www.sriramanamaharshi.org The Sanskrit text has been approved to be posted on Sanskrit.World by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.