अक्षर आकार:

श्रीरमणमहर्षिसहस्रनामावलिः

Shri Ramanamaharshi Sahasranamavali

श्रीरमणमहर्षिसहस्रनामावलिः

देव्युवाच - भगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर । अरुणेशस्य माहात्म्यं त्वत्तो विस्तरशः श्रुतम् ॥ १॥ तन्नाम्नामपि साहस्रं सर्वपाहरं नृणाम् । अरुणेशावतारस्य रमणस्य महात्मनः ॥ २॥ इदानीं श्रोतुमिच्छामि तस्य नामसहस्रकम् । यस्य सङ्कीर्तनान्मर्त्यो विमुक्तिं विन्दते ध्रुवम् ॥ ३॥ त्वं तु सर्वं विजानासि नान्यस्त्वत्तोऽस्य वेदिता । तस्मात्कारुण्यतो मह्यं भक्तिमत्यै विशेषतः ॥ ४॥ नाम्नां सहस्रं दिव्यानां रमणस्य मुनीशितुः । रहस्यमपि वक्तव्यं त्वया गौतम सुव्रत ॥ ५॥ गौतम उवाच - साधु साधु महाभागे प्रश्न एष जगद्धितः । वक्ष्ये तच्छ्रद्धयोपेता सावधानमनाः श‍ृणु ॥ ६॥ ज्ञानं वेदान्तसञ्जातं साक्षान्मोक्षस्य साधनम् । कर्मोपास्त्यादि तद्भिन्नं ज्ञानद्वारैव मुक्तिदम् ॥ ७॥ निष्कामकर्मशुद्धानां विवेकादिमतां नृणाम् । जायते तच्च विज्ञानं प्रसादादेव सद्गुरोः ॥ ८॥ ज्ञानसाधननिष्ठत्वं ज्ञानाभ्यासं विदुर्बुधाः । तारतम्येन भिद्यन्ते ज्ञानाभ्यासाधिकारिणः ॥ ९॥ विचारमात्रनिष्ठस्य मुख्या ज्ञानाधिकारिता । विचारी दुर्लभो लोके विचारो दुष्करो यतः ॥ १०॥ मुमुक्षवो नरास्सर्वे ज्ञानाभ्यासेऽधिकारिणः । स्त्रीशूद्राणां तथान्येषां नाधिकारो विगर्हितः ॥ ११॥ देशभाषान्तरेणापि तेषां सोप्युपकारकः । ज्ञानस्य च विचारोऽयं सन्निकृष्टं हि साधनम् ॥ १२॥ विचारभिन्नमार्गश्च न साक्षाज्ज्ञानसिद्धये । विचारजननद्वारेत्याहुर्वेदान्तवेदिनः ॥ १३॥ योगोपास्त्यादयोप्यन्ये सन्ति विज्ञानहेतवः । तदालम्बो भवत्येव विचारानधिकारिणाम् ॥ १४॥ योगोपास्त्याद्यशक्तानां जपस्तुत्यादिकीर्तनम् । ज्ञानोपायोभवत्येव जिज्ञासानिष्ठितं यदि ॥ १५॥ तस्मादयत्नतोज्ञानं सर्वेषां येन हेतुना । तादृशं नामसाहस्रं रमणस्य महात्मनः ॥ १६॥ त्वयि प्रीत्यैव वक्ष्यामि हिताय जगतां श‍ृणु । नाभक्ताय प्रदातव्यमिदं मोक्षसुखप्रदम् ॥ १७॥ अस्य श्रीरमणदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । गौतमो ऋषिः । अनुष्टुप्छन्दः । श्रीरमणपरमात्मादेवता । ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकम् । ``श्रीरमणाय नमः” इति मन्त्रप्रत्येकवर्णेन हृदयादि न्यासः । ॐ भूर्भुवस्स्वरोमिति दिग्बन्धः । ध्यानम् ध्यायेच्छारदचन्द्रसुन्दरमुखं ताम्रारविन्देक्षणं भक्ताभीष्टवराभयप्रदकरं कौपीनमात्रोज्ज्वलम् । स्वात्मानन्दरसानुभूतिविवशं सर्वानवद्याङ्गकं श्रीमन्तं रमणेश्वरं गुरुवरं योगासनाध्यासितम् ॥ अरुणजलजनेत्रं मुग्धमन्दस्मितास्यं तरुणतपनभासं पूर्णबोधप्रसादम् । अरुणशिखरिसानुप्राङ्गणे सञ्चरन्तं रमणमरुणमूर्तिं चिन्तयेदिष्टसिद्ध्यै ॥ ॐ अरुणेशमहाशक्तिनिपातप्रतिबोधिताय नमः । ॐ अचिन्त्यपरनिर्वाणस्थितये नमः । ॐ अव्यक्तशक्तिकाय नमः । ॐ अनभ्यासश्रमावाप्तसमस्तनिगमागमाय नमः । ॐ अरुणाचलनाथीय पञ्चरत्नप्रकाशकाय नमः । ॐ अनाहतान्यहृदयस्थानबोधनपण्डिताय नमः । ॐ अकारादिक्षकारान्तमातृकामन्त्रमालिकाय नमः । ॐ अन्तर्गतमहाशक्तये नमः । ॐ अणिमादिगुणान्विताय नमः । ॐ अभ्यासातिशयज्ञाताय नमः ॥ ॐ अत्याश्चर्यचरित्रकाय नमः । ॐ अतिवर्णाश्रमाचाराय नमः । ॐ अचिन्त्यशक्तये नमः । ॐ अमोघदृशे नमः । ॐ अङ्गावन्त्यादिदेशीय मुमुक्षुजनताश्रयाय नमः । ॐ अन्तर्मुखाय नमः । ॐ अन्तरारामाय नमः । ॐ अन्तर्यामिने नमः । ॐ अहमर्थदृशे नमः । ॐ अहमर्थैकलक्ष्यार्थाय नमः ॥ ॐ अरुणाद्रिमयाय नमः । ॐ अरुणाय नमः । ॐ अपीताम्बाङ्गनिर्माल्यपयःपानैकजीविताय नमः । ॐ अध्यात्मयोगनिलयाय नमः । ॐ अदीनात्मने नमः । ॐ अघमर्षणाय नमः । ॐ अकायाय नमः । ॐ भक्तकायस्थाय नमः । ॐ कालचक्रप्रवर्तकाय नमः । ॐ अक्षिपेयामृताम्बोधये नमः ॥ ॐ आहूयैश्वर्यदायकाय नमः । ॐ आजानुबाहवे नमः । ॐ अक्षोभ्याय नमः । ॐ आत्मवते नमः । ॐ अनसूयकाय नमः । ॐ आवर्तक्षेत्रसञ्जाताय नमः । ॐ आर्तरक्षणतत्पराय नमः । ॐ इतिहासपुराणज्ञाय नमः । ॐ इष्टापूर्तफलप्रदाय नमः । ॐ इडापिङ्गलिकामध्यसुषुम्नाग्रन्थिभेदकाय नमः ॥ ॐ इडापिङ्गलिकामध्यसुषुम्नामध्यभासुराय नमः । ॐ इष्टार्थदाननिपुणाय नमः । ॐ इन्द्रभोगविरक्तधिये नमः । ॐ ईशानाय नमः । ॐ ईषणाहीनाय नमः । ॐ ईतिबाधाभयापहाय नमः । ॐ उपास्यमूर्तये नमः । ॐ उत्साहसम्पन्नाय नमः । ॐ उरुविक्रमाय नमः । ॐ उदासीनवदासीनाय नमः ॥ ५० ॐ उत्तमज्ञानदेशिकाय नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ ऊर्ध्वगतये नमः । ॐ उटजस्थाय नमः । ॐ उदारधिये नमः । ॐ ऋषये नमः । ॐ ऋषिगणस्तुत्याय नमः । ॐ ऋजुबुद्धये नमः । ॐ ऋजुप्रियाय नमः । ॐ ऋतम्भराय नमः ॥ ॐ ऋतप्रज्ञाय नमः । ॐ ऋजुमार्गप्रदर्शकाय नमः । ॐ एवमित्यविनिर्णेयाय नमः । ॐ एनःकूटविनाशनाय नमः । ॐ ऐश्वर्यदाननिपुणाय नमः । ॐ औदार्यगुणमण्डिताय नमः । ॐ ओङ्कारपदलक्ष्यार्थाय नमः । ॐ औपम्यपरिवर्जिताय नमः । ॐ कटाक्षस्यन्दिकरुणाय नमः । ॐ कटिबद्धालमल्लकाय नमः ॥ ॐ कमनीयचरित्राढ्याय नमः । ॐ कर्मविदे नमः । ॐ कविपुङ्गवाय नमः । ॐ कर्माकर्मविभागज्ञाय नमः । ॐ कर्मलेपविवर्जिताय नमः । ॐ कलिदोषहराय नमः । ॐ कम्राय नमः । ॐ कर्मयोगप्रवर्तकाय नमः । ॐ कर्मन्दिप्रवराय नमः । ॐ कल्याय नमः ॥ ॐ कल्याणगुणमण्डिताय नमः । ॐ कान्तिपत्तनसन्दृष्टारुणज्योतिःप्रहर्षिताय नमः । ॐ कामहन्त्रे नमः । ॐ कान्तमूर्तये नमः । ॐ कालात्मने नमः । ॐ कालसूत्रहृते नमः । ॐ काङ्क्षाहीनाय नमः । ॐ कालकाङ्क्षिणे नमः । ॐ काशीवासफलप्रदाय नमः । ॐ काश्मीरदेश्यसेव्याङ्घ्रये नमः ॥ ॐ नेपालीयसमर्चिताय नमः । ॐ कामकारनिराकर्त्रे नमः । ॐ कृतकृत्यत्वकारकाय नमः । ॐ काव्यकण्ठसुधीदृष्ट कार्तिकेयस्वरूपधृते नमः । ॐ किङ्करीकृत भूपालाय नमः । ॐ कीर्तिमते नमः । ॐ कीर्तिवर्धनाय नमः । ॐ कुमाराय नमः । ॐ कुतलामोदाय नमः । ॐ कुकुटुम्बिने नमः ॥ १०० ॐ कुलोद्गताय नमः । ॐ कुष्ठापस्माररोगघ्नाय नमः । ॐ कुसुमारामनिष्ठिताय नमः । ॐ कृपाळवे नमः । ॐ कृपणालम्बाय नमः । ॐ कृशानुसदृशाय नमः । ॐ कृशाय नमः । ॐ केरलान्ध्रादिभाषज्ञाय नमः । ॐ केरलान्ध्रजनेडिताय नमः । ॐ कैवल्यपदनिश्रेणये नमः ॥ ॐ कैवल्यसुखदायकाय नमः । ॐ कोऽहं नाहं सोऽहमिति स्वात्मान्वेषणमार्गदृशे नमः । ॐ कोऽहंविमर्शब्रह्मास्त्रनाशिताशेषविभ्रमाय नमः । ॐ कोशालयप्रतिष्ठात्रे नमः । ॐ कोशवते नमः । ॐ कोशवीक्षित्रे नमः । ॐ क्षमावते नमः । ॐ क्षिप्रसन्तुष्टाय नमः । ॐ क्षपिताशेषकल्मषाय नमः । ॐ क्षतकर्मणे नमः ॥ ॐ क्षतविद्याय नमः । ॐ क्षीणभक्तजनावनाय नमः । ॐ क्षामनाशिने नमः । ॐ क्षुधाहीनाय नमः । ॐ क्षुद्रघ्नाय नमः । ॐ क्षितिमण्डनाय नमः । ॐ क्षेत्रज्ञाय नमः । ॐ क्षेमदाय नमः । ॐ क्षेमाय नमः । ॐ क्षेमार्थिजनवन्दिताय नमः ॥ ॐ क्षेत्राटनपरिश्रान्तभक्तक्षिप्रप्रसादनाय नमः । ॐ क्ष्म्रौं मन्त्रबीजतत्त्वज्ञाय नमः । ॐ क्षेत्राजीवफलप्रदाय नमः । ॐ गम्भीराय नमः । ॐ गर्विताय नमः । ॐ गर्वविहीनाय नमः । ॐ गर्वनाशनाय नमः । ॐ गद्यपद्यप्रियाय नमः । ॐ गम्याय नमः । ॐ गायत्रीमन्त्रबोधिताय नमः ॥ ॐ गिरीशाय नमः । ॐ गीष्पतये नमः । ॐ गुण्याय नमः । ॐ गुणातीताय नमः । ॐ गुणाकराय नमः । ॐ गृहिणे नमः । ॐ गृहविनिर्मुक्ताय नमः । ॐ ग्रहातिग्रहसञ्जयिने नमः । ॐ गीतोपदेशसारादि ग्रन्थकृते नमः । ॐ ग्रन्थिभेदकाय नमः ॥ १५० ॐ गुरुमूर्ततपोनिष्ठाय नमः । ॐ नैसर्गिकसुहृद्वराय नमः । ॐ गृहिमुक्त्यधिकारित्वव्यवस्थापनतत्पराय नमः । ॐ गोविन्दाय नमः । ॐ गोकुलत्रात्रे नमः । ॐ गोष्ठीवते नमः । ॐ गोधनान्विताय नमः । ॐ चराचरहिताय नमः । ॐ चक्षुरुत्सवाय नमः । ॐ चतुराय नमः ॥ ॐ चलाय नमः । ॐ चतुर्वर्गचतुर्भद्रप्रदाय नमः । ॐ चरमदेहभृते नमः । ॐ चाण्डालचटकश्वाहिकिटिकीशहितङ्कराय नमः । ॐ चित्तानुवर्तिने नमः । ॐ चिन्मुद्रिणे नमः । ॐ चिन्मयाय नमः । ॐ चित्तनाशकाय नमः । ॐ चिरन्तनाय नमः । ॐ चिदाकाशाय नमः ॥ ॐ चिन्ताहीनाय नमः । ॐ चिदूर्जिताय नमः । ॐ चोरहणे नमः । ॐ चोरदृशे नमः । ॐ चोरचपेटाघातनन्दिताय नमः । ॐ छलच्छद्मवचोहीनाय नमः । ॐ शत्रुजिते नमः । ॐ शत्रुतापनाय नमः । ॐ छन्नाकाराय नमः । ॐ छान्दसेड्याय नमः । ॐ छिन्नकर्मादि बन्धनाय नमः । ॐ छिन्नद्वैधाय नमः । ॐ छिन्नमोहाय नमः । ॐ छिन्नहृदे नमः । ॐ छिन्नकल्मषाय नमः । ॐ जगद्गुरवे नमः । ॐ जगत्प्राणाय नमः । ॐ जगदीशाय नमः । ॐ जगत्प्रियाय नमः । ॐ जयन्तीजाय नमः । ॐ जन्महीनाय नमः । ॐ जयदाय नमः । ॐ जनमोहनाय नमः । ॐ जाग्रत्स्वप्नसुषुप्त्यादि साक्षिणे नमः । ॐ जाड्यविनाशकाय नमः । ॐ जातिवर्णभिदाशून्याय नमः । ॐ जितात्मने नमः । ॐ जितभूतकाय नमः । ॐ जितेन्द्रियाय नमः । ॐ जितप्राणाय नमः ॥ २०० ॐ जितान्तःशत्रुसञ्चयाय नमः । ॐ जीवब्रह्मैक्यविदे नमः । ॐ जीवन्मुक्ताय नमः । ॐ जीवत्वनाशकाय नमः । ॐ ज्योतिर्लिङ्गमयज्योतिषे नमः । ॐ समलोष्टाश्मकाञ्चनाय नमः । ॐ जेत्रे नमः । ॐ ज्यायसे नमः । ॐ ज्ञानमूर्तये नमः । ॐ ज्ञानिने नमः ॥ ॐ ज्ञानमहानिधये नमः । ॐ ज्ञानज्ञातृज्ञेयरूपत्रिपुटी भावनोज्झिताय नमः । ॐ ज्ञातसर्वागमाय नमः । ॐ ज्ञानगम्याय नमः । ॐ ज्ञातेयसन्नुताय नमः । ॐ ज्ञानविज्ञानतृप्तात्मने नमः । ॐ ज्ञानसञ्छिन्नसंशयाय नमः । ॐ ज्ञानाग्निदग्धकर्मणे नमः । ॐ ज्ञानोपायप्रदर्शकाय नमः । ॐ ज्ञानयज्ञविधिप्रीताय नमः ॥ ॐ ज्ञानावस्थितमानसाय नमः । ॐ ज्ञाताऽज्ञातान्यचिन्मात्राय नमः । ॐ ज्ञानवृद्धोपलालिताय नमः । ॐ तत्त्वज्ञाय नमः । ॐ तत्त्वविन्नेत्रे नमः । ॐ तत्त्वमस्यादिलक्षिताय नमः । ॐ तत्त्वभाषणसन्तुष्टाय नमः । ॐ तत्त्वबोधकदेशिकाय नमः । ॐ तत्पदार्थैकसंलीनाय नमः । ॐ तत्त्वान्वेषणतत्पराय नमः ॥ ॐ तपनाय नमः । ॐ तपनीयाङ्गाय नमः । ॐ तमस्सन्तापचन्द्रमसे नमः । ॐ तपस्विने नमः । ॐ तापसाराध्याय नमः । ॐ तपःक्लिष्टतनूद्वहाय नमः । ॐ तपस्तत्त्वार्थसारज्ञाय नमः । ॐ तपोमूर्तये नमः । ॐ तपोमयाय नमः । ॐ तपोबलसमाकृष्ट भक्तसङ्घसमावृताय नमः ॥ ॐ तापत्रयाग्निसन्तप्त जनसञ्जीवनामृताय नमः । ॐ तातादेशाप्तशोणाद्रये नमः । ॐ तातारुणमहेश्वराय नमः । ॐ तातान्तिकसमागन्त्रे नमः । ॐ तातान्वेषणतत्पराय नमः । ॐ तितिक्षवे नमः । ॐ तीर्थविदे नमः । ॐ तीर्थाय नमः । ॐ तुरीयाय नमः । ॐ तुष्टमानसाय नमः ॥ २५० ॐ तुल्यनिन्दास्तुतये नमः । ॐ तूष्णींशीलाय नमः । ॐ तृष्णाविवर्जिताय नमः । ॐ तेजस्विने नमः । ॐ त्यक्तविषयाय नमः । ॐ त्रयीभावार्थकोविदाय नमः । ॐ त्रिदिवेशमुखोपास्याय नमः । ॐ त्रिवर्गाय नमः । ॐ त्रिगुणात्मकाय नमः । ॐ त्रैलोक्यबुधसम्पूज्याय नमः ॥ ॐ त्रैलोक्यग्रासबृंहिताय नमः । ॐ त्रैलोक्यसृष्टिस्थितिकृते नमः । ॐ त्रैगुण्यविषयोज्झिताय नमः । ॐ त्रैगुण्यविषवेगघ्नाय नमः । ॐ दक्षाय नमः । ॐ दग्धवपुर्धराय नमः । ॐ दर्शनीयाय नमः । ॐ दयामूर्तये नमः । ॐ दक्षिणास्याय नमः । ॐ दमान्विताय नमः । ॐ दण्डधृते नमः । ॐ दण्डनीतिस्थाय नमः । ॐ दक्षिणाय नमः । ॐ दम्भवर्जिताय नमः । ॐ दहराकाशमध्यस्थ चिदाकाशप्रतिष्ठिताय नमः । ॐ दशदिक्पालसम्पूज्याय नमः । ॐ दशदिग्व्यापिसद्यशसे नमः । ॐ दक्षिणद्वीपविख्याताय नमः । ॐ दाक्षिणात्यकलाकवये नमः । ॐ दारिद्र्यध्वंसकाय नमः ॥ ॐ दान्ताय नमः । ॐ दारितक्लेशसन्ततये नमः । ॐ दासीदासभराय नमः । ॐ दिव्याय नमः । ॐ दिष्ट्याबुद्धाय नमः । ॐ दिगम्बराय नमः । ॐ दीर्घदर्शिने नमः । ॐ दीप्यमानाय नमः । ॐ दीनबन्धवे नमः । ॐ दृगात्मकाय नमः ॥ ॐ दृग्दृश्यभेदधीशून्याय नमः । ॐ दर्शनाय नमः । ॐ दृप्तखण्डकाय नमः । ॐ देववन्द्याय नमः । ॐ देवतेशाय नमः । ॐ दोषज्ञाय नमः । ॐ दोष नाशनाय नमः । ॐ द्वादशार्णमनुध्येयाय नमः । ॐ द्वादशान्तस्थलस्थिताय नमः । ॐ दुर्विगाह्याय नमः ॥ ३०० ॐ दुराधर्षाय नमः । ॐ दुराचारनिवर्तकाय नमः । ॐ दैविकाय नमः । ॐ द्राविडाय नमः । ॐ द्वीपान्तरविख्यातवैभवाय नमः । ॐ द्वितीयातिथिसम्भूताय नमः । ॐ द्वैतभावविमुक्तधिये नमः । ॐ द्वैताद्वैतमतातीताय नमः । ॐ द्वैतसन्तमसापहाय नमः । ॐ धनदाय नमः ॥ ॐ धर्मसूक्ष्मज्ञाय नमः । ॐ धर्मराजे नमः । ॐ धार्मिकप्रियाय नमः । ॐ धात्रे नमः । ॐ धातृसमस्रीकाय नमः । ॐ धातुशुद्धिविधायकाय नमः । ॐ धारणाशक्तिमते नमः । ॐ धीराय नमः । ॐ धुरीणाय नमः । ॐ धृतिवर्धनाय नमः ॥ ॐ धीरोदात्तगुणोपेताय नमः । ॐ ध्याननिष्ठाय नमः । ॐ ध्रुवस्मृतये नमः । ॐ नमज्जनोद्धारणकृते नमः । ॐ नरवाहनसन्निभाय नमः । ॐ नवनीतसमस्वान्ताय नमः । ॐ नतसाधुजनाश्रयाय नमः । ॐ नरनारीगणोपेताय नमः । ॐ नगसानुकृताश्रमाय नमः । ॐ नममेत्यव्यययुताय नमः ॥ ॐ नवीनाय नमः । ॐ नष्टमानसाय नमः । ॐ नयनानन्ददाय नमः । ॐ नम्याय नमः । ॐ नामोच्चारणमुक्तिदाय नमः । ॐ नागस्वाम्यनुजाय नमः । ॐ नागसुन्दरज्येष्ठताङ्गताय नमः । ॐ नादबिन्दुकलाभिज्ञाय नमः । ॐ नादब्रह्मप्रतिष्ठिताय नमः । ॐ नादप्रियाय नमः ॥ ॐ नारदादिपूज्याय नमः । ॐ नामविवर्जिताय नमः । ॐ नामिने नमः । ॐ नामजपप्रीताय नमः । ॐ नास्तिकत्वविघातकृते नमः । ॐ नासाग्रन्यस्तदृशे नमः । ॐ नामब्रह्मातीताय नमः । ॐ निरञ्जनाय नमः । ॐ निरञ्जनाश्रयाय नमः । ॐ नित्यतृप्ताय नमः ॥ ३५० ॐ निःश्रेयसप्रदाय नमः । ॐ निर्यत्नसिद्धनित्यश्रिये नमः । ॐ नित्यसिद्धस्वरूपदृशे नमः । ॐ निर्ममाय नमः । ॐ निरहङ्काराय नमः । ॐ निरवद्याय नमः । ॐ निराश्रयाय नमः । ॐ नित्यानन्दाय नमः । ॐ निरातङ्काय नमः । ॐ निष्प्रपञ्चाय नमः ॥ ॐ निरामयाय नमः । ॐ निर्मलाय नमः । ॐ निश्चलाय नमः । ॐ नित्याय नमः । ॐ निर्मोहाय नमः । ॐ निरुपाधिकाय नमः । ॐ निस्सङ्गाय नमः । ॐ निगमस्तुत्याय नमः । ॐ निरीहाय नमः । ॐ निरुपप्लवाय नमः ॥ ॐ नित्यशुद्धाय नमः । ॐ नित्यबुद्धाय नमः । ॐ नित्यमुक्ताय नमः । ॐ निरन्तराय नमः । ॐ निर्विकाराय नमः । ॐ निर्गुणात्मने नमः । ॐ निष्पापाय नमः । ॐ निष्परिग्रहाय नमः । ॐ निर्भवाय नमः । ॐ निस्स्तुतये नमः ॥ ॐ निघ्नाय नमः । ॐ निजानन्दैकनिर्भराय नमः । ॐ निग्रहानुग्रहसमाय नमः । ॐ निकृतिज्ञाय नमः । ॐ निदानविदे नमः । ॐ निर्ग्रन्थाय नमः । ॐ निर्नमस्काराय नमः । ॐ निस्तुलये नमः । ॐ निरयापहाय नमः । ॐ निर्वासनाय नमः ॥ ॐ निर्व्यसनाय नमः । ॐ निर्योगक्षेमचिन्तनाय नमः । ॐ निर्बीजध्यानसंवेद्याय नमः । ॐ निर्वादाय नमः । ॐ निश्शिरोरुहाय नमः । ॐ पञ्चाक्षरमनुध्येयाय नमः । ॐ पञ्चपातकनाशनाय नमः । ॐ पञ्चस्कन्धीमताभिज्ञाय नमः । ॐ पञ्चकोशविलक्षणाय नमः । ॐ पञ्चाग्निविद्यामार्गज्ञाय नमः ॥ ४०० ॐ पञ्चकृत्यपरायणाय नमः । ॐ पञ्चवक्त्राय नमः । ॐ पञ्चतपसे नमः । ॐ पञ्चताकारणोद्धराय नमः । ॐ पञ्चोपचारसम्पूज्याय नमः । ॐ पञ्चभूतविमर्दनाय नमः । ॐ पञ्चविंशतितत्त्वात्मने नमः । ॐ महापञ्चदशाक्षराय नमः । ॐ पराशरकुलोद्भूताय नमः । ॐ पण्डिताय नमः ॥ ॐ पण्डितप्रियाय नमः । ॐ परमेष्ठिने नमः । ॐ परेशानाय नमः । ॐ परिपूर्णाय नमः । ॐ परात्पराय नमः । ॐ परस्मै ज्योतिषे नमः । ॐ परस्मै धाम्ने नमः । ॐ परमात्मने नमः । ॐ परायणाय नमः । ॐ पतिव्रताभीष्टदायिने नमः ॥ ॐ पर्यङ्कस्थाय नमः । ॐ परार्थविदे नमः । ॐ पवित्रपादाय नमः । ॐ पापारये नमः । ॐ परार्थैकप्रयोजनाय नमः । ॐ पालीतीर्थतटोल्लासिने नमः । ॐ पाश्चात्यद्वीपविश्रुताय नमः । ॐ पित्रे नमः । ॐ पितृहिताय नमः । ॐ पित्तनाशकाय नमः ॥ ॐ पितृमोचकाय नमः । ॐ पितृव्यान्वेषिताय नमः । ॐ पीनाय नमः । ॐ पातालेशालयस्थिताय नमः । ॐ पुनर्वसूदिताय नमः । ॐ पुण्याय नमः । ॐ पुण्यकृते नमः । ॐ पुरुषोत्तमाय नमः । ॐ पुन्नागतरुवत्क्षेत्रिणे नमः । ॐ पुण्यापुण्यविवर्जिताय नमः ॥ ॐ पूतात्मने नमः । ॐ पृथुकप्रीताय नमः । ॐ पृथुदाय नमः । ॐ पुरोहिताय नमः । ॐ प्रतिमाकृतसान्निध्याय नमः । ॐ प्रतिग्रहपराङ्मुखाय नमः । ॐ प्रमादिवत्सरोद्भूताय नमः । ॐ प्रकृतिस्थाय नमः । ॐ प्रमाणविदे नमः । ॐ प्रतीकोपास्तिविषयाय नमः ॥ ४५० ॐ प्रत्युत्तरविचक्षणाय नमः । ॐ प्रतीचे नमः । ॐ प्रशान्ताय नमः । ॐ प्रत्यक्षाय नमः । ॐ प्रश्रिताय नमः । ॐ प्रतिभानवते नमः । ॐ प्रदक्षिणाप्रीतमनसे नमः । ॐ प्रवालाद्रिसमाश्रयाय नमः । ॐ प्राच्यप्रतीच्यदेशीयविबुधाग्रण्यवन्दिताय नमः । ॐ प्रस्थानभेदसम्बोद्ध्याय नमः ॥ ॐ प्रांशवे नमः । ॐ प्राणरोधकाय नमः । ॐ प्रसूतिदिनवृद्धस्त्रीदर्शितज्योतिराकृतये नमः । ॐ प्रार्थितार्थप्रदाय नमः । ॐ प्राज्ञाय नमः । ॐ प्रावारकनिगूहिताय नमः । ॐ प्रातःस्मर्तव्यचारित्राय नमः । ॐ प्राप्तप्राप्तव्यनिर्वृताय नमः । ॐ प्रायणस्मृतिसम्प्राप्याय नमः । ॐ प्रियहीनाय नमः ॥ ॐ प्रियंवदाय नमः । ॐ प्रेक्षावते नमः । ॐ प्रेष्यरहिताय नमः । ॐ फलभूताय नमः । ॐ फलप्रदाय नमः । ॐ बहुश्रुताय नमः । ॐ बहुमताय नमः । ॐ बहुपाकिने नमः । ॐ बहुप्रदाय नमः । ॐ बलवते नमः ॥ ॐ बन्धुमते नमः । ॐ बालरूपाय नमः । ॐ बाल्यविचेष्टिताय नमः । ॐ बालभानुप्रतीकाशाय नमः । ॐ बालसन्न्यासिशब्दिताय नमः । ॐ ब्रह्मचर्यतपोयोगश्रुतप्रज्ञासमन्विताय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्रह्मविदे नमः । ॐ ब्रह्मणे नमः । ॐ ब्रह्मसायुज्यदायकाय नमः ॥ ॐ ब्रह्मार्पितमनोबुद्धये नमः । ॐ ब्राह्मणस्वामिनामकाय नमः । ॐ ब्रह्मासनस्थिताय नमः । ॐ ब्रह्मसूत्रविदे नमः । ॐ भगवते नमः । ॐ भवाय नमः । ॐ भयकृते नमः । ॐ भयसंहर्त्रे नमः । ॐ भवादाय नमः । ॐ भक्तभाविताय नमः ॥ ५०० ॐ भारूपाय नमः । ॐ भावनाग्राह्याय नमः । ॐ भावज्ञाय नमः । ॐ भाग्यवर्धनाय नमः । ॐ भारतीय महाभाग्याय नमः । ॐ भारतख्यातिपोषकाय नमः । ॐ भारतोद्यज्ज्ञानदीपाय नमः । ॐ भावनाभेदकृन्तनाय नमः । ॐ भिदाशून्याय नमः । ॐ भिदाध्वंसिने नमः ॥ ॐ भावुकाय नमः । ॐ भिक्षुकेश्वराय नमः । ॐ भूतिदाय नमः । ॐ भूतिकृते नमः । ॐ भूमिनाथपूर्णांशसम्भवाय नमः । ॐ भौमब्रह्मणे नमः । ॐ भ्रमध्वंसिने नमः । ॐ भूहृत्क्षेत्रलक्षिताय नमः । ॐ भूतिभूषित सर्वाङ्गाय नमः । ॐ मङ्गलाय नमः ॥ ॐ मङ्गलप्रदाय नमः । ॐ मनसे नमः । ॐ बुद्धये नमः । ॐ अहङ्काराय नमः । ॐ प्रकृतये नमः । ॐ परस्मै पुंसे नमः । ॐ महाशक्तये नमः । ॐ महासिद्धये नमः । ॐ महोदाराय नमः । ॐ महाद्युतये नमः ॥ ॐ महाकर्त्रे नमः । ॐ महाभोक्त्रे नमः । ॐ महायोगिने नमः । ॐ महामतये नमः । ॐ महामान्याय नमः । ॐ महाभागाय नमः । ॐ महासेनमहांशजाय नमः । ॐ मर्यादाकृते नमः । ॐ महादेवाय नमः । ॐ महारूपिणे नमः ॥ ॐ महायशसे नमः । ॐ महोद्यमाय नमः । ॐ महोत्साहाय नमः । ॐ ममताग्रहपीडनाय नमः । ॐ महामन्त्राय नमः । ॐ महायन्त्राय नमः । ॐ महावाक्योपदेशकाय नमः । ॐ महावाक्यार्थतत्त्वज्ञाय नमः । ॐ महामोहनिवारकाय नमः । ॐ मायाविने नमः ॥ ५५० ॐ मानदाय नमः । ॐ मानिने नमः । ॐ मातृमुक्तिविधायकाय नमः । ॐ मानावमानसाम्यात्मने नमः । ॐ मालूराधस्तपस्स्थिताय नमः । ॐ मधूकद्रुतलस्थायिने नमः । ॐ मातृमते नमः । ॐ मातृभक्तिमते नमः । ॐ मात्रालयप्रतिष्ठात्रे नमः । ॐ मार्गिताय नमः ॥ ॐ मार्गबान्धवाय नमः । ॐ मार्गणीयाय नमः । ॐ मार्गदर्शिने नमः । ॐ मार्गशीर्षकृतोदयाय नमः । ॐ मार्गितात्मने नमः । ॐ मार्गशून्याय नमः । ॐ मितभुजे नमः । ॐ मितसञ्चराय नमः । ॐ मितस्वप्नावबोधाय नमः । ॐ मिथ्याबाह्यनिरीक्षकाय नमः ॥ ॐ मुनये नमः । ॐ मुक्ताय नमः । ॐ मुक्तिदायिने नमः । ॐ मेधाविने नमः । ॐ मेध्यभोजनाय नमः । ॐ मौनव्याख्यानकृते नमः । ॐ मौनिने नमः । ॐ मौनभाषाविशारदाय नमः । ॐ मौनामौनद्वयातीताय नमः । ॐ मौनदाय नमः ॥ ॐ मौनिषुप्रियाय नमः । ॐ यज्ञकृते नमः । ॐ यज्ञभुजे नमः । ॐ यज्ञाय नमः । ॐ यजमानाय नमः । ॐ यथार्थविदे नमः । ॐ यतात्मने नमः । ॐ यतिसम्पूज्याय नमः । ॐ यतिप्राप्याय नमः । ॐ यशस्कराय नमः ॥ ॐ यमाद्यष्टाङ्गयोगज्ञाय नमः । ॐ यजुश्शाखिने नमः । ॐ यतीश्वराय नमः । ॐ यवनानुग्रहकराय नमः । ॐ यक्षाय नमः । ॐ यमनिषूदनाय नमः । ॐ यात्राविरहिताय नमः । ॐ यानानारूढाय नमः । ॐ याज्ञिकप्रियाय नमः । ॐ यातनानाशनाय नमः ॥ ६०० ॐ याच्नाहीनाय नमः । ॐ याचितदायकाय नमः । ॐ युक्तकृते नमः । ॐ युक्तभुजे नमः । ॐ युक्तस्वप्नबोधाय नमः । ॐ युगादिकृते नमः । ॐ योगीशाय नमः । ॐ योगपुरुषाय नमः । ॐ योगतत्त्वविवेचकाय नमः । ॐ योगासनाय नमः ॥ ॐ योगभूमिसमारोहणसाधकाय नमः । ॐ योगिगम्याय नमः । ॐ योगफलाय नमः । ॐ योगभ्रष्टशुभप्रदाय नमः । ॐ योगप्रशंसिने नमः । ॐ योगस्थाय नमः । ॐ योगक्षेमधुरन्धराय नमः । ॐ रक्षकाय नमः । ॐ रमणाय नमः । ॐ रम्याय नमः ॥ ॐ रमणीयाङ्गसंहतये नमः । ॐ रमेशक्लेशसन्दृष्ट ज्योतिरक्लेशदर्शनाय नमः । ॐ रजोपहाय नमः । ॐ रजोमूर्तये नमः । ॐ रसिकाय नमः । ॐ रसशेवधये नमः । ॐ रहस्याय नमः । ॐ रञ्जनाय नमः । ॐ रस्याय नमः । ॐ रत्नगर्भाय नमः ॥ ॐ रसोदयाय नमः । ॐ राजविद्यागुरवे नमः । ॐ राजविद्याविदे नमः । ॐ राजमानिताय नमः । ॐ राजसाहारनिर्मुक्ताय नमः । ॐ राजसज्ञानदूरगाय नमः । ॐ रागद्वेषविनिर्मुक्ताय नमः । ॐ रसालाश्रमकोकिलाय नमः । ॐ रामाभिरामाय नमः । ॐ राजश्रिये नमः ॥ ॐ राज्ञे नमः । ॐ राज्यहितङ्कराय नमः । ॐ राजभोगप्रदाय नमः । ॐ राष्ट्रभाषाविदे नमः । ॐ राजवल्लभाय नमः । ॐ रुदितद्वेषणाय नमः । ॐ रुद्राय नमः । ॐ लक्ष्मीवते नमः । ॐ लक्ष्मीवर्धनाय नमः । ॐ लज्जालवे नमः ॥ ६५० ॐ ललिताय नमः । ॐ लब्धलब्धव्याय नमः । ॐ लघुसिद्धिदाय नमः । ॐ लयविदे नमः । ॐ लब्धकामौघाय नमः । ॐ लाभालाभसमाशयाय नमः । ॐ लयाधिष्ठानतत्त्वज्ञाय नमः । ॐ लयपूर्वसमाधिमते नमः । ॐ लास्यप्रियाय नमः । ॐ लिङ्गरूपिणे नमः ॥ ॐ लिङ्गोत्थाय नमः । ॐ लिङ्गवर्जिताय नमः । ॐ लिपिलेखचणाय नमः । ॐ लोकशिक्षकाय नमः । ॐ लोकरक्षकाय नमः । ॐ लोकायतमताभिज्ञाय नमः । ॐ लोकवार्ताविवर्जिताय नमः । ॐ लोकोदासीनभावस्थाय नमः । ॐ लोकोत्तरगुणोत्तराय नमः । ॐ लोकाध्यक्षाय नमः । ॐ लोकपूज्याय नमः । ॐ लोकासारत्वबोधकाय नमः । ॐ लोकाकर्षणशक्तात्मशक्तिमत् कान्तपर्वताय नमः । ॐ लोकानुत्सादकाय नमः । ॐ लोकप्रमाणाय नमः । ॐ लोकसङ्ग्रहिणे नमः । ॐ लोकबोधप्रकाशार्थ शोणोद्यज्ज्ञानभास्कराय नमः । ॐ वरिष्ठाय नमः । ॐ वरदाय नमः । ॐ वक्त्रे नमः । ॐ वङ्गदेश्य जनाश्रयाय नमः । ॐ वन्दारुजनमन्दाराय नमः । ॐ वर्तमानैककालविदे नमः । ॐ वनवासरसाभिज्ञाय नमः । ॐ वलित्रयविभूषिताय नमः । ॐ वसुमते नमः । ॐ वस्तुतत्त्वज्ञाय नमः । ॐ वन्द्याय नमः । ॐ वत्सतरीप्रियाय नमः । ॐ वर्णाश्रमपरित्रात्रे नमः ॥ ॐ वर्णाश्रममतातिगाय नमः । ॐ वाक्यज्ञाय नमः । ॐ वाक्यकुशलाय नमः । ॐ वाङ्मनोबुद्ध्यगोचराय नमः । ॐ वाद्यगीतप्रियाय नमः । ॐ वाजश्रवसे नमः । ॐ वापीप्रतिष्ठकाय नमः । ॐ वाहनागारनिष्ठावते नमः । ॐ वाजिमेधफलप्रदाय नमः । ॐ वक्षोदक्षिणभागस्थ हृदयस्थानदर्शकाय नमः ॥ ७०० ॐ वचद्भूमन्त्रसंसेव्याय नमः । ॐ विचारैकोपदेशकृते नमः । ॐ विचारमात्रनिरताय नमः । ॐ विवेकिजनतादृताय नमः । ॐ विदितात्मने नमः । ॐ विधेयात्मने नमः । ॐ विस्मितेशादिवीक्षिताय नमः । ॐ विरूपाक्षगुहावासिने नमः । ॐ विश्वात्मने नमः । ॐ विश्वभुजे नमः । ॐ विभवे नमः । ॐ विविक्तसेविने नमः । ॐ विघ्नेशचैत्यप्राकारसंस्थिताय नमः । ॐ विध्यदृष्टमहोदर्शिने नमः । ॐ विज्ञानानन्दसुन्दराय नमः । ॐ विघसाशिने नमः । ॐ विशुद्धात्मने नमः । ॐ विपर्यासनिरासकाय नमः । ॐ विभूतिसितफालाढ्याय नमः । ॐ विरोधोक्तिविनाकृताय नमः । ॐ विश्वम्भराय नमः । ॐ विश्ववैद्याय नमः । ॐ विश्वास्याय नमः । ॐ विस्मयान्विताय नमः । ॐ वीणागेयाय नमः । ॐ वीतमायाय नमः । ॐ वीर्यवते नमः । ॐ वीतसंशयाय नमः । ॐ वृद्धिह्रासविनाभूताय नमः । ॐ वृद्धाय नमः ॥ ॐ वृत्तिनिरोधकाय नमः । ॐ वृत्तिदाय नमः । ॐ वृत्तिबोधेद्धाय नमः । ॐ वेणुवाद्यवशंवदाय नमः । ॐ वेदवेदान्ततत्त्वज्ञाय नमः । ॐ वेषदोषप्रकाशकाय नमः । ॐ व्यक्ताव्यक्तस्वरूपज्ञाय नमः । ॐ व्यङ्ग्यवाक्यप्रयोगविदे नमः । ॐ व्याप्ताखिलाय नमः । ॐ व्यवस्थाकृते नमः ॥ ॐ व्यवसायविबोधकाय नमः । ॐ वैज्ञानिकाग्रण्यै नमः । ॐ वैश्वानराय नमः । ॐ व्याघ्राजिनस्थिताय नमः । ॐ शरण्याय नमः । ॐ शर्मदाय नमः । ॐ शक्तिपातबुद्धाय नमः । ॐ शमान्विताय नमः । ॐ शरीरवद्भासमानाय नमः । ॐ शर्मण्यजनवन्दिताय नमः ॥ ७५० ॐ शास्त्रजालमहारण्यवृथाटननिषेधकाय नमः । ॐ शास्त्राभ्यासफलीभूतज्ञानविज्ञानतत्पराय नमः । ॐ शास्त्रोल्लङ्घनविद्वेषिणे नमः । ॐ शास्त्रमार्गाविलङ्घनाय नमः । ॐ शान्तात्मने नमः । ॐ शान्तिदाय नमः । ॐ शान्तिधनाय नमः । ॐ शान्तोपदेशकाय नमः । ॐ शाण्डिल्योपास्तिलक्ष्यार्थाय नमः । ॐ शास्त्रयोनये नमः ॥ ॐ प्रजापतये नमः । ॐ शिवङ्कराय नमः । ॐ शिवतमाय नमः । ॐ शिष्टेष्टाय नमः । ॐ शिष्टपूजिताय नमः । ॐ शिवप्रकाशसन्तुष्टाय नमः । ॐ शिवाद्वैतप्रतिष्ठिताय नमः । ॐ शिवगङ्गातताकस्थाय नमः । ॐ शिवज्ञानप्रदायकाय नमः । ॐ शीताचलप्रान्त्यपूज्याय नमः ॥ ॐ शीप्रातीरजनाश्रयाय नमः । ॐ शुभाशुभपरित्यागिने नमः । ॐ शुभाशुभविमत्सराय नमः । ॐ शुक्लकृष्णगतिज्ञानिने नमः । ॐ शुभंयवे नमः । ॐ शिशिरात्मकाय नमः । ॐ शुकवत् जन्मसंसिद्धाय नमः । ॐ शेषाद्रिस्वामिवत्सलाय नमः । ॐ शैववैष्णवशाक्तादि विरोधप्रतिरोधकाय नमः । ॐ श‍ृङ्गारादि रसालम्बाय नमः ॥ ॐ श‍ृङ्गाररसविप्रियाय नमः । ॐ श्रवणाध्यर्थतत्त्वज्ञाय नमः । ॐ श्रवणानन्दभाषिताय नमः । ॐ शोणेशालयसञ्चारिणे नमः । ॐ शोणेशाय नमः । ॐ शोणतीर्थविदे नमः । ॐ शोकमोहाद्यसंस्पृष्टाय नमः । ॐ शोणक्षेत्राधिदैवताय नमः । ॐ श्रीदाय नमः । ॐ श्रीशाय नमः ॥ ॐ श्रीनिवासाय नमः । ॐ श्रीकण्ठमततत्त्वविदे नमः । ॐ श्रीविद्यामन्त्रतत्त्वज्ञाय नमः । ॐ श्रीवैष्णवमतप्रियाय नमः । ॐ श्रुतितात्पर्यनिर्वक्त्रे नमः । ॐ श्रुतमात्रावधारणाय नमः । ॐ श्रुतश्रोतव्यसन्तुष्टाय नमः । ॐ श्रौतमार्गसमर्थकाय नमः । ॐ षडध्वध्वान्तविध्वंसिने नमः । ॐ षडूर्मिभयभञ्जनाय नमः ॥ ८०० ॐ षड्ग्रन्थिभेदचतुराय नमः । ॐ षड्गुणिने नमः । ॐ षट्प्रमाणवते नमः । ॐ षट्कोणमध्यनिलयाय नमः । ॐ षडरिघ्नाय नमः । ॐ षडाश्रयाय नमः । ॐ षण्डत्वघ्नाय नमः । ॐ षडाधारनिर्ध्याताय नमः । ॐ षडानादिविदे नमः । ॐ सर्वज्ञाय नमः ॥ ॐ सर्वविदे नमः । ॐ सर्वाय नमः । ॐ सार्वाय नमः । ॐ सर्वमनस्स्थिताय नमः । ॐ सदसत् निर्णयज्ञानिने नमः । ॐ सर्वभूतसमाशयाय नमः । ॐ सर्वश्रुतये नमः । ॐ सर्वचक्षुषे नमः । ॐ सर्वाननकरादिमते नमः । ॐ सर्वेन्द्रियगुणाभासाय नमः ॥ ॐ सर्वसम्बन्धवर्जिताय नमः । ॐ सर्वभृते नमः । ॐ सर्वकृते नमः । ॐ सर्वहराय नमः । ॐ सर्वहितेरताय नमः । ॐ सर्वारम्भपरित्यागिने नमः । ॐ सगुणध्यायितारकाय नमः । ॐ सर्वभूतनिशाबुद्धाय नमः । ॐ सर्वजागरनिद्रिताय नमः । ॐ सर्वाश्चर्यमयाय नमः ॥ ॐ सभ्याय नमः । ॐ सङ्कल्पघ्नाय नमः । ॐ सदातनाय नमः । ॐ सर्गादिमध्यनिधनाय नमः । ॐ सकृत्स्मृतिविमुक्तिदाय नमः । ॐ संयमिने नमः । ॐ सत्यसन्धाय नमः । ॐ संस्कार परिवर्जिताय नमः । ॐ समाय नमः । ॐ समविभक्ताङ्गाय नमः ॥ ॐ समदृशे नमः । ॐ समसंस्थिताय नमः । ॐ समर्थाय नमः । ॐ समरद्वेषिणे नमः । ॐ समर्यादाय नमः । ॐ समाहिताय नमः । ॐ समयज्ञाय नमः । ॐ सदानन्दाय नमः । ॐ समाहृतनिजेन्द्रियाय नमः । ॐ सत्तासंविन्मयज्योतिषे नमः ॥ ८५० ॐ सम्प्रदायप्रवर्तकाय नमः । ॐ समस्तवृत्तिमूलाहंवृत्तिनाशोपदेशकाय नमः । ॐ सम्राजे नमः । ॐ समृद्धाय नमः । ॐ सम्बुद्धाय नमः । ॐ सर्वश्रुतिमनोहराय नमः । ॐ सरळाय नमः । ॐ सरसाय नमः । ॐ सर्वरसाय नमः । ॐ सर्वानुभूतियुजे नमः ॥ ॐ सर्वेश्वराय नमः । ॐ सर्वनिधये नमः । ॐ सर्वात्मने नमः । ॐ सर्वसाधकाय नमः । ॐ सहजप्राप्तकर्मानुष्ठानत्यागनिषेधकाय नमः । ॐ सहिष्णवे नमः । ॐ सात्त्विकाहाराय नमः । ॐ सात्त्विकज्ञानिवीक्षिताय नमः । ॐ सत्त्वाधिकमनोबुद्धिसुखधैर्यविवर्धकाय नमः । ॐ सात्त्विकत्यागयोगज्ञाय नमः ॥ ॐ सात्त्विकाराध्यवैभवाय नमः । ॐ सार्धषोडशवर्षाप्तपारिव्राज्याय नमः । ॐ विरक्तधिये नमः । ॐ सामगानप्रियाय नमः । ॐ साम्यवैषम्यमतिकृन्तनाय नमः । ॐ साधिताखिलसिद्धीशाय नमः । ॐ सामविदे नमः । ॐ सामगायनाय नमः । ॐ सिद्धार्थाय नमः । ॐ सिद्धसङ्कल्पाय नमः ॥ ॐ सिद्धिदाय नमः । ॐ सिद्धसाधनाय नमः । ॐ सिद्ध्यसिद्धिसमाय नमः । ॐ सिद्धाय नमः । ॐ सिद्धसङ्घसमर्चिताय नमः । ॐ सिसाधयिषुलोकेड्याय नमः । ॐ सहायाम्बासहायवते नमः । ॐ सुन्दराय नमः । ॐ सुन्दरक्षेत्रविद्याभ्यासविलासभृते नमः । ॐ सुन्दरेश्वरलीलाकृते नमः ॥ ॐ सुन्दरानन्दवर्धनाय नमः । ॐ सुरर्षिसन्नुताय नमः । ॐ सूक्ष्माय नमः । ॐ सूरिदृश्यपदस्थिताय नमः । ॐ सुदर्शनाय नमः । ॐ सुहृदे नमः । ॐ सूरये नमः । ॐ सूनृतोक्तिवदावदाय नमः । ॐ सूत्रविदे नमः । ॐ सूत्रकृते नमः ॥ ९०० ॐ सूत्राय नमः । ॐ सृष्टिवैतथ्यबोधकाय नमः । ॐ सृष्टिवाक्यमहावाक्यैक्यकण्ठ्यप्रतिपादकाय नमः । ॐ सृष्टिहेतुमनोनाशिने नमः । ॐ सृष्ट्यधिष्ठाननिष्ठिताय नमः । ॐ स्रक्चन्दनादिविषयविरागिणे नमः । ॐ स्वजनप्रियाय नमः । ॐ सेवानम्रस्वभक्तौघसद्योमुक्तिप्रदायकाय नमः । ॐ सोमसूर्याग्न्यप्रकाश्यस्वप्रकाशस्वरूपदृशे नमः । ॐ सौन्दर्याम्बातपस्सम्पत्परीपाकफलायिताय नमः ॥ ॐ सौहित्यविमुखाय नमः । ॐ स्कन्दाश्रमवासकुतूहलिने नमः । ॐ स्कन्दालयतपोनिष्ठाय नमः । ॐ स्तव्यस्तावकवर्जिताय नमः । ॐ सहस्रस्तम्भसंयुक्त मण्डपान्तरमाश्रिताय नमः । ॐ स्तैन्यस्तेनाय नमः । ॐ स्तोत्रशस्त्रगेयाय नमः । ॐ स्मृतिकराय नमः । ॐ स्मृतये नमः । ॐ सामरस्यविधानज्ञाय नमः ॥ ॐ सङ्घसौभ्रात्रबोधकाय नमः । ॐ स्वभावभद्राय नमः । ॐ मध्यस्थाय नमः । ॐ स्त्रीसन्न्यासविधायकाय नमः । ॐ स्तिमितोदधिवज्ज्ञानशक्तिपूरितविग्रहाय नमः । ॐ स्वात्मतत्त्वसुखस्फूर्तितुन्दिलस्वस्वरूपकाय नमः । ॐ स्वस्वधर्मरतश्लाघिने नमः । ॐ स्वभुवे नमः । ॐ स्वच्छन्दचेष्टिताय नमः । ॐ स्वस्वरूपपरिज्ञानपरामृतपदस्थिताय नमः ॥ ॐ स्वाध्यायज्ञानयज्ञेज्याय नमः । ॐ स्वतस्सिद्धस्वरूपदृशे नमः । ॐ स्वस्तिकृते नमः । ॐ स्वस्तिभुजे नमः । ॐ स्वामिने नमः । ॐ स्वापजाग्रद्विवर्जिताय नमः । ॐ हन्तृहन्तव्यताशून्यशुद्धस्वात्मोपदेशकाय नमः । ॐ हस्तपादाद्यसङ्ग्राह्यनिर्लिप्तपरमार्थदृशे नमः । ॐ हत्यादिपापशमनाय नमः । ॐ हानिवृद्धिविवर्जिताय नमः ॥ ॐ हितकृते नमः । ॐ हूणदेशीयजनवर्णित वैभवाय नमः । ॐ हृदयब्रह्मतत्त्वज्ञाय नमः । ॐ हृदयान्वेषदेशनाय नमः । ॐ हृदयस्थाय नमः । ॐ हृदयाकाशस्वरूपिणे नमः । ॐ हृद्गुहाशयाय नमः । ॐ हार्दाकाशान्तर्गतबाह्याकाशादिवस्तुदृशे नमः । ॐ हृदयस्थानतत्त्वज्ञाय नमः । ॐ हृदहंनाश पण्डिताय नमः ॥ ९५० ॐ हेयोपादेयरहिताय नमः । ॐ हेमन्तर्तुकृतोदयाय नमः । ॐ हरिब्रह्मेन्द्रदुष्प्रापस्वाराज्योर्जितशासनाय नमः । ॐ हतासुरप्रकृतिकाय नमः । ॐ हंसाय नमः । ॐ हृद्याय नमः । ॐ हिरण्मयाय नमः । ॐ हार्दविद्याफलीभूताय नमः । ॐ हार्दसन्तमसापहाय नमः । ॐ सेतवे नमः ॥ ॐ सीम्ने नमः । ॐ समुद्राय नमः । ॐ समाभ्यधिकवर्जिताय नमः । ॐ पुराणाय नमः । ॐ पुरुषाय नमः । ॐ पूर्णाय नमः । ॐ अनन्तरूपाय नमः । ॐ सनातनाय नमः । ॐ ज्योतिषे नमः । ॐ प्रकाशाय नमः ॥ ॐ प्रथिताय नमः । ॐ स्वयंभानाय नमः । ॐ स्वयंप्रभवे नमः । ॐ सत्याय नमः । ॐ ज्ञानाय नमः । ॐ सुखाय नमः । ॐ स्वस्थाय नमः । ॐ स्वानुभवे नमः । ॐ परदैवताय नमः । ॐ महर्षये नमः ॥ ॐ महाग्रासाय नमः । ॐ महात्मने नमः । ॐ भगवते नमः । ॐ वशिने नमः । ॐ अहमर्थाय नमः । ॐ अप्रमेयात्मने नमः । ॐ तत्त्वाय नमः । ॐ उत्तम निर्वाणाय नमः । ॐ अनाख्यवस्तुने नमः । ॐ मुक्तात्मने नमः । ॐ बन्धमुक्तिविवर्जिताय नमः । ॐ अदृश्याय नमः । ॐ दृश्यनेत्रे नमः । ॐ मूलाचार्याय नमः । ॐ सुखासनाय नमः । ॐ अन्तर्यामिने नमः । ॐ पारशून्याय नमः । ॐ भूम्ने नमः । ॐ भोजयित्रे नमः । ॐ रसाय नमः ॥ १००० उपसंहारः - कोऽहं मार्ग धनुष्पाणिः नाहं तत्त्व सुदर्शनः । सोऽहं बोध महाशङ्खो भगवान् रमणोऽवतु ॥ १॥ इति ते नामसहस्रं रमणस्य महात्मनः । कथितं कृपया देवि गोप्याद् गोप्यतरं मया ॥ २॥ य इदं नामसहस्रं भक्त्या पठति मानवः । तस्य मुक्तिर्यत्नेन सिध्यत्येव न संशयः ॥ ३॥ विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् । वैराग्य कामो लभते वैराग्यं भवतारकम् ॥ ४॥ येन येन च यो योऽर्थी स स तं तं समश्नुते । सर्व पापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ॥ ५॥ दुर्देश कालोत्थ दुरामयार्ताः दौर्भाग्य तापत्रय सन्निरुद्धाः । नराः पठन्तो रमणस्य नाम साहस्रमीयुः सुखमस्त दुःखम् ॥ ६॥ इति श्री गौतमऋषि प्रोक्तं श्री रमणसहस्रनामस्तोत्राधार नामावलिः सम्पूर्णा ॥ ॥ शुभमस्तु ॥ This work is published by Sri Ramanasramam www.sriramanamaharshi.org It has been approved to be posted on Sanskrit.World by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.