अक्षर आकार:

श्रीरमण परविद्योपनिषत्

Shri Ramanaparavidyopanishad

श्रीरमण परविद्योपनिषत्

श्रीलक्ष्मणशर्मणा विरचिता मङ्गलं अहंस्वरूपेण समस्तजन्तो- र्विभान्तमन्तर्विभुमप्रमेयम् । गुरुं गुरूणामजमादिदेवं वन्दामहे श्रीरमणं दयाब्धिम् ॥ ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने । व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ १॥ माण्डूक्यमुख्योपनिषत्सु दिष्टा ज्ञानाभिधा या सहजात्मनिष्ठा । ससाधना तेन निजानुभूत्या सन्दर्शिता सा प्रतिपाद्यतेऽत्र ॥ २॥ समीक्ष्य सांसारिकजीवनस्य दुःखात्मतां कामभयाश्रयत्वात् । द्वाभ्यां विमुक्तं गुरुमेत्य बुद्धं विमुक्तिमार्गं प्रणिपत्य पृच्छेत् ॥ ३॥ ब्रूयात् स बुद्धः परमं रहस्यं समस्तबुद्धानुभवप्रसिद्धम् । जानासि चेत् स्वं न तवास्ति दुःखं दुःखी भवेस्त्वं यदि वेत्सि न स्वम् ॥ ४॥ यतः सुषुप्तौ न तवास्ति दुःखं त्वयीदमारोपितमेव नान्यत् । जिज्ञासया स्वं समवेत्य सत्यं निजस्वरूपे सुखरूप आस्स्व ॥ ५॥ अर्थोऽयमेवं गुरुणोपदिष्टः सारः समस्तश्रुतिशीर्षवाचाम् । अस्योपदेशस्य हि विस्तरेण व्याख्यैव सर्वा निगमान्तवाणी ॥ ६॥ ज्ञानस्वरूपं निजसत्यमेकं स्वयम्प्रकाशं हृदि सत्यमस्ति । संशान्तचित्तेन हृदिस्थितिर्या सा तस्य बोधोऽपि विमुक्तिभावः ॥ ७॥ आत्मस्वरूपा हृदि भासमाना सदैकरूपा विमला चितिश्च । ब्रह्माभिधानं जगतोऽखिलस्या- प्याधारसत्यं द्वयमेकमेव ॥ ८॥ आधारसत्ये विमले तु तस्मिन् निजस्वरूपे मनसोपक्लृप्तम् । अविद्यया विश्वममुं निमील्य भाति स्वयं सत्यवदज्ञतायाम् ॥ ९॥ निमील्य रज्जुं भुजगः स्वयं सन् मन्दान्धकारे सति भाति यद्वत् । आत्मानमेवं भुवनं निमील्य भाति स्वयं सत्यवदज्ञतायाम् ॥ १०॥ अविद्ययाऽऽत्मा वपुषा मितश्च सुखी च दुःखी भवपाशबद्धः । प्रतीयतेऽज्ञोऽपि पृथक् परस्मा- दात्मा तु साक्षात्पर एव नान्यः ॥ ११॥ संसारिता स्वस्य ततो मृषैव बुध्येत तन्निर्मनने पदे तु । ``नह्यस्त्यविद्या मनसोऽतिरिक्ता मनोह्यविद्या भवबन्धरूपा” ॥ १२॥ वीक्ष्याहिमीक्षेत यथा न रज्जुं विश्वं सजीवेश्वरमात्मरूपे । अविद्ययाऽऽरोपितमीक्षमाणो न वीक्षते स्वं परमार्थसत्यम् ॥ १३॥ निमीलतः स्वो भवितैव ताव- द्यावत् स्वतः सत्यमिदं विभाति । तथा न भायान्मनसि प्रणष्टे नाशाय तस्मान्मनसो यतेत ॥ १४॥ निमीलितं स्वं मनसा तमेनं मिथ्याप्रपञ्चप्रविकल्पनेन । स्वान्वेषणेनात्मनि निष्ठितः सन्नुन्मील्य तस्मिन्प्रविलापयेद्यः ॥ १५॥ मनोऽप्यविद्यामखिलं प्रपञ्चं तेनानुभूयेत निजं स्वरूपम् । संसारहीनं निरुपाधिकं च ब्रह्मात्मकं केवलमद्वितीयम् ॥ १६॥ भीत्याऽथवा जन्ममृतिप्रवाहात् प्रपद्यते चेच्छरणं महेशम् । नश्येदविद्या कृपयैव तस्य तदा स्थितः स्यान्निजसत्यभावे ॥ १७॥ भक्त्या परस्मै स्वनिवेदनं यत् प्रपत्तिमेतां निगदन्ति सन्तः । तद्भक्तिरीशे नवधोपदिष्टा कार्यामुमुक्षोः श्रवणादिरूपा ॥ १८॥ Quote - Srimad Bhagavatam श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ निष्ठाचला सा निजसत्यभावे ज्ञानं विमुक्तिः सहजा स्थितिश्च । स्थितोऽचलस्तत्र पदे परस्मिन् निरस्तमोहो भवति प्रबुद्धः ॥ १९॥ निष्ठां परं तामधिगत्य बुद्धो जीवच्छरीरोऽपि विमुक्त एव । करोत्यहन्तां ममतां न देहे बुद्धो ह्यतोऽसावशरीर एव ॥ २०॥ यन्निर्मनस्कं पदमेवमुक्तं सुखं तदात्यन्तिकमन्तहीनम् । सुखं समावृत्य मनः स्वयं हि सदैव दुःखं विवृणोति जन्तोः ॥ २१॥ ऋजुः शुचिः सत्यवचा अमानी धीरो विरक्तश्च गुरौ सुभक्तः । शमादिषट्केन युतो मुमुक्षुः स्थितिं परां तामचिराल्लभेत ॥ २२॥ धीरक्षणं यद्विदधाति साधु- र्निर्गृह्य वृत्तीर्निजमार्गणाय । तदेव धीरत्वमिहोपदिष्टं नापेक्षतेऽन्या खलु धीरताऽत्र ॥ २३॥ भजेत् प्रबुद्धं हि गुरुं मुमुक्षुः स्वाज्ञाननिद्रोत्थितमस्तमोहम् । कथं नु मर्त्यः स्वयमप्रबुद्धः प्रबोधयेदन्यनरानबुद्धान् ॥ २४॥ ईशादभेदेन कृतैव बुद्धे गुरौ सुभक्तिर्गदिताऽत्र साधोः । निर्मोहितामेत्यचिरात् तयैव बुद्धः परस्मान्नहि कश्चिदन्यः ॥ २५॥ शमो दमश्चोपरतिस्तितिक्षा श्रद्धा गुरोर्वाचि समाहितत्वम् । विधीयते षट्कमिदं मुमुक्षोः स्थिरं भवेद्येन मनो गवेषे ॥ २६॥ Quote - tr. of Maharshi's Tamil work विश्रान्तिं जठरस्य मे न वितरस्येकां च नाडीमहो नानश्नन् दिवसे च तिष्ठसि कदाप्येकामहो नाडिकाम् । नो जानासि मदीयदुःखमतुलं हे दुर्विनीत त्वया । साकं जीवनमत्र देहनिलये मे दुर्घटं सम्प्रति ॥ निजस्वरूपानुभवैकवेद्यं तन्नेति नेतीत्युदितं पदं हि । वाचाऽप्यनुक्तं मनसाऽमतं च मौनोपदिष्टं गुरुणाऽऽदिमेन ॥ २७॥ अतीत्य यज्जागरमुख्यभावां- स्तन्निष्प्रपञ्चं भवति प्रशान्तम् । अतस्तुरीयं पदमव्ययं तद्- इत्येष माण्डूक्यनिरूपितार्थः ॥ २८॥ तिस्रो ह्यवस्थाः प्रभवन्ति जाग्रत् स्वप्नः सुषुप्तिश्च समस्तजन्तोः । आधारभूता त्रितयस्य चास्य स्वाज्ञानरूपाऽस्ति सुषुप्तिरन्या ॥ २९॥ अस्मिन्नवस्थात्रितये समस्त- मन्तर्भवत्येव हि विश्वमेतत् । अस्मादवस्थात्रितयात् परस्ता- दलौकिकं ह्यस्ति तुरीयसत्यम् ॥ ३०॥ अस्वप्ननिद्रेति सुषुप्तिरुक्ता सस्वप्ननिद्रेप्युभयं तदन्यत् । अनिद्रमस्वप्नकमस्तविश्वं पदं तुरीयं हि विमुक्तिधाम ॥ ३१॥ सन्धौ सुषुप्तेरथ जागरस्य चिद्रूपिणी निर्मनना स्थितिर्या । सा सुस्थिरा चेद् भविता कथञ्चित् सैवोच्यते मुक्तिरिति प्रबुद्धैः ॥ ३२॥ Quote - from Yoga Vasishtha निद्रादौ जागरस्यान्ते यो भाव उपजयते । तं भावं भावयन् साक्षादक्षयानन्दमश्नुते ॥ अज्ञाननिद्रापरिभूतभावाः पश्यन्ति दुस्स्वप्नमिमं प्रपञ्चम् । परिभ्रमन्ति त्रितयेऽत्र जीवा यावन्न निद्रेयमपैति बोधात् ॥ ३३॥ निद्रालुरेवं सकलोऽपि जन्तु- र्न कोऽपि जागर्ति हि जीवलोके । तीर्णस्तिसृभ्योऽज्ञतया विमुक्तो बुद्धस्तु जागर्ति तुरीयनिष्ठः ॥ ३४॥ जागर्ति बुद्धो निजसत्यभावे समेत्य निष्ठां तमसा विहीने । निद्राति च स्वप्नमये प्रपञ्चे स्वाज्ञानमूढैः परिदृश्यमाने ॥ ३५॥ तन्नक्तमुक्तं विदुषो हि विश्वं नक्तं तथाऽऽत्माऽविदुषो जनस्य । निष्ठामतस्तां सहजां तुरीयां जाग्रत्सुषुप्तिं निगदन्ति बुधाः ॥ ३६॥ Quote - from BhagavadGita या निशा सर्वभूतानां तस्यां जागर्ति संयमी यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ सज्जाग्रदादित्रयमस्ति येषां तेषां तुरीयाभिधया तदुक्तम् । सत् तुर्यमेवासदिदं त्रयं यत् तुर्याभिधा तस्य भवत्यसाधु ॥ ३७॥ स्वप्नेऽपि जाग्रत्यपि चेष्टमानं मनः प्रपञ्चं सृजति स्वयं हि । गत्वा सुषुप्तौ बत बीजभावं भूयः प्रबोधे सृजति प्रपञ्चम् ॥ ३८॥ मनोऽन्ततो नश्यति नैव यावद् भवेदवस्थात्रितयं हि तावत् । मनोविनाशाद्धि तुरीयनिष्ठा यत्रान्ततः शाम्यति विश्वमेतत् ॥ ३९॥ ज्ञानाभिधा यद्यपि साऽऽत्मनिष्ठा ज्ञात्रादिकेन त्रितयेन हीना । तत्किं विजानात्युत केन को वा ज्ञानाभिधा स्वात्मतयैव निष्ठा ॥ ४०॥ आत्मैव यस्मिन्न भवत् समस्तं जानाति तस्मिन् बत केन किं नु । इत्यात्मनः केवलतैव तुर्ये सन्दर्शिताऽस्ति श्रुतिशीर्षवाचा ॥ ४१॥ स्थानं च तद्वानिति नास्ति तस्मिन् भेदः पदे कश्चन वास्तवो यत् । आत्माऽद्वितीयः परिपूर्ण एकः स्थानं स्वयं स्वस्य हि सन् स एकः ॥ ४२॥ Quote - Upanishad स्वे महिम्नि प्रतिष्ठितः । अथवा न महिम्नि ॥ द्वैतं समस्तं खलु नीतमन्तं बुद्धेन तुर्ये स्थितिमेत्य सत्ये । अद्वैतनिष्ठाऽधिगताऽस्ति तेने- त्यद्वैतिनं तेन तमेव विद्यात् ॥ ४३॥ अनात्मनि स्वात्मतया प्रतीत्या प्रतीयते द्वैतमिदं हि सद्वत् । एवंविधाज्ञानविमुक्तभाव- मद्वैतनिष्ठां निगदन्ति बुद्धाः ॥ ४४॥ अद्वैतमेवं न मतं यथाऽन्य- न्नास्ति प्रचारो मनसो हि तत्र । अद्वैतमुक्तं निजसत्यभावे निष्ठैव चिन्तारहिताऽस्तलोका ॥ ४५॥ शास्त्रोदितार्थाधिगमेन यस्तु बुद्ध्वाऽद्वयत्वं मतवद्धियैव । तुष्यत्यनेनैव विनाऽनुभूतिं नाद्वैतनिष्ठाऽधिगताऽस्ति तेन ॥ ४६॥ न तेन दृश्यं प्रविलापितं हि स्वचित्स्वरूपे परमार्थसत्ये । शास्त्रार्थबोधात् समवैति यः स्वं न तस्य देहात्ममतिर्विनष्टा ॥ ४७॥ पश्वादिकेभ्योऽप्यविशेष एव तस्योच्यते शङ्करदेशिकेन । पशुत्वमेतद् गदितं हि बुद्धै- र्वपुर्मितं यत् स्वमवैति जन्तुः ॥ ४८॥ न व्येत्यतः शास्त्रविदो नरस्य जगत् स्वतः सत्यमिति प्रतीतिः । तया प्रतीत्या सततं विमूढः परिभ्रमत्येव भवे यथाऽन्ये ॥ ४९॥ वाग्यन्त्रतुल्योऽयमुदीर्यते च बुद्ध्वाऽपि शास्त्रार्थमशान्तचेताः । अपण्डितादप्यवरोऽयमुक्तो मदादिदोषैः परिभूतभावः ॥ ५०॥ बोधं परोक्षं तमिमं वदन्ति परोक्ष आत्मा तु न कर्हिचित् स्यात् । नित्यापरोक्षस्य परोक्षबोधो बोधो यथार्थो भविता कथं नु ॥ ५१॥ देहोऽहमस्मीत्यनुभूतिरूपो भवत्यबोधः खलु बन्धहेतुः । बोधोऽहमस्मीति विनाऽनुभूतिं कथं व्रजेन्नाशमबोध एषः ॥ ५२॥ धिया धृतोऽयं हि परोक्षबोधो न धीप्रचारोऽस्ति तु सत्स्वरूपे । दैत्यं यथा पुण्यजनं वदन्ति वदन्त्यबोधं बत बोधनाम्ना ॥ ५३॥ यदाऽर्कतप्तो मृगतृष्णिकायां स्नात्वा नरस्तापविमुक्तिमेति । अन्नं पचेच्चित्रगताग्निना वा परोक्षबोधेन तदाऽस्तु मुक्तिः ॥ ५४॥ तत्स्वानुभूत्या रहितोऽद्वयत्वं वाचा वदन् द्वैतिसमान एव । न गच्छतो वाङ्मनसे हि तुर्यं तत्र स्थितस्यास्ति मतं न किञ्चित् ॥ ५५॥ अद्वैतिनः स्वान् गणयन्त आहु- र्जगन्मृषा दुःखमयं जडं च । अतोऽन्यथैवेत्यपरे वदन्ति फले तु सर्वेऽपि समा भवन्ति ॥ ५६॥ विश्वं परो जीव इति त्रिरूपं विभाति सत्यं परमेकमेव । ज्ञानं भवेनैव तु वाद एष ज्ञानं त्वहङ्कारविनाश एव ॥ ५७॥ निजस्वरूपानुभवे विनेच्छां मताग्रहेण प्रवदन्ति वादान् । अस्तीति नास्तीत्यपि रूप्यरूपी- त्येकं द्विधा नोभयथेत्यनन्तान् ॥ ५८॥ भवत्यनन्ताः खलु तर्कवादाः क्वचित्प्रतिष्ठां न हि याति तर्कः । अलौकिकोऽसौ खलु तुर्यनिष्ठा ज्ञेया कथं तर्कधिया भवेत् सा ॥ ५९॥ मतं न किञ्चिद्विदुषोऽस्ति यस्मात् सज्जेत वादेषु कदाऽपि नासौ । सर्वं मतं सम्मतमेव तस्य मतिं न कस्याप्युत चालयेत् सः ॥ ६०॥ द्वेषं विनाऽन्येषु मतेषु तस्मा- द्विहाय वादानपि शान्तचेताः । यतेत साधुः स्वमतोक्तरीत्या मोक्षेच्छया साधनतत्परः सन् ॥ ६१॥ द्वैताद्वयत्वे भवतो मते द्वे सत्यं च मिथ्या वदतां प्रपञ्चम् । वादावुभौ चापि विहाय शक्यो लब्धुं स्वरूपानुभवो मुमुक्षोः ॥ ६२॥ अदुःखमिश्रं सुखमन्तहीनं वाञ्छन्ति सर्वे खलु जन्तवोऽपि । सुखं स्वभावो हि समस्तजन्तो- स्तादृक्सुखं क्वेति हि चिन्तनीयम् ॥ ६३॥ कस्मिन् पदे तत् सुखमस्त्यनन्तं लभ्यं च तत् केन च साधनेन । द्वयं तदेतद् भगवान् मुमुक्षो- रत्यन्तवैराग्यवतो ब्रवीति ॥ ६४॥ प्रिया सुषुप्तिर्हि समस्तजन्तोः प्रियत्वहेतुः सुखरूपताऽस्याः । सुखाय तस्यां विषया न सन्ति किं मूलकं स्यान्नु सुखं सुषुप्तेः ॥ ६५॥ सुषुप्तितुर्ये भवतः समाने द्वयोर्मनो नास्ति हि नापि विश्वम् । आत्मा द्वयोरस्ति तु नित्यसत्यः स एव मूलं ह्युभयो सुखस्य ॥ ६६॥ अनित्यमल्पं च सुखं सुषुप्तौ मनोऽस्ति तस्यां खलु बीजभावे । तुर्ये प्रपूर्णं सुखमस्त्यनन्त- मानन्दसंज्ञं श्रुतिषु प्रसिद्धम् ॥ ६७॥ तस्यैव मात्रां खलु जीवलोके लब्ध्वा रमन्तेऽखिलजन्तवोऽपि । न स्याददीदं तु सुखस्य मूलं लोके क्षणार्धं बत को नु जीवेत् ॥ ६८॥ प्रेष्ठः समस्तस्य ततस्तुरीये विराजमानः सुखरूपकः स्वः । प्रेष्ठा च तस्मादखिलस्य जन्तो- र्निष्ठा तुरीयैव न काचिदन्या ॥ ६९॥ तुर्यं पदं नित्यसुखस्य धामे- त्येवं प्रबुद्धाद्विदितेऽथ साधोः । इतो विरक्तस्य तुरीयलिप्सो- र्जगद्विचारेण फलं किमस्ति ॥ ७०॥ सन् वाऽन्यथा वा भवतु प्रपञ्चो लब्धव्यमत्रास्ति किमस्य साधोः । सत् तुर्यमद्वैतमुतान्यथा वा- ऽप्यास्तां तदेवेप्सितमस्य नान्यत् ॥ ७१॥ किमद्वयं सत् किमुनेति बोद्धुं शक्ये हि तुर्ये स्थितिमेत्य सत्ये । शक्नोति कस्तत्त्वमदो निबोद्धुं भ्राम्यन्नवस्थात्रितये विमुग्धः ॥ ७२॥ क्षेपो हि लोम्नां निकरस्य युक्तः क्षुरापनीतस्य विना परीक्षाम् । तुच्छस्य तद्वज्जगतोऽस्य दानं चर्चां विना युज्यत एव साधोः ॥ ७३॥ हेयं प्रपञ्चं स विहाय तूर्ण- मन्तर्मुखत्वेन यतेत सिद्ध्यै । अन्तर्मुखत्वेन हि साधनं स्याद् विश्वं तदर्थं ननु हेयमेव ॥ ७४॥ परं तु वैराग्यबलेन हीना जगत् स्वतः सत्यमिति प्रतीत्या । न साधतेऽन्तर्मुखतां भजन्ते तेषामपेक्ष्यो हि विचार एषः ॥ ७५॥ एते विचारेण गुरूक्तरीत्या जगन्न सत्यं स्वत इत्यवेत्य । तथैव बुद्ध्याऽप्यनुसन्दधाना अन्तर्मुखत्वं शनकैर्भजेयुः ॥ ७६॥ या लौकिकेनानुभवेन चर्चा स्वबुद्धिशक्त्याऽपि वृथैव सा स्यात् । बुद्धं श्रयित्वैव गुरुं तु कुर्यात् तद्दिष्टरीत्यैव जगद्विचारम् ॥ ७७॥ अज्ञानमूलोऽनुभवो हि सर्वः सांसारिकः स्वप्नसमोऽज्ञपुंसाम् । मृषैव सर्वोऽयमतो मुमुक्षो- र्न हि प्रमाणं सदसद्विवेके ॥ ७८॥ बुद्धानुभूतिर्हि परं प्रमाणं साधोस्तुरीयस्य पदस्य लिप्सोः । स एव तत्त्वं जगतोऽप्यवैति बोधात् तुरीयस्य सतः परस्य ॥ ७९॥ निजानुभूतिं च वदन् स बुद्धः सन्दर्शयिष्यत्यमलाश्च युक्तीः । प्रश्नाननन्तांस्तु बुधो न कुर्यात् साधोर्न शङ्कास्पदमाप्तवाक्यम् ॥ ८०॥ Quote - BhagavadGita संशयात्मा विनश्यति न संशयानां भविता विरामो यावन्न तुर्ये स्थितिमेति बोधात् । अन्तोऽस्ति तत्रैव हि संशयाना- मात्यन्तिकः संशयितुर्विनाशात् ॥ ८१॥ Quote - Upanishad भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ तर्कोऽप्रतिष्ठो हि ततो मुमुक्षुः सद्योऽन्ततस्तर्कमतिं विहाय । श्रद्धां समालम्ब्य गुरोर्वचस्सु तद्दिष्टमार्गेण यतेत सिद्ध्यै ॥ ८२॥ उदेति शङ्का यदि कस्य सेति पृच्छन् स्वतत्त्वस्य गवेषणेन । लभेत निष्ठां यदि तुर्यभावे शङ्का च तद्वानुभयं च नश्येत् ॥ ८३॥ बुद्धो गुरुर्वक्ति जगन्मृषात्वं सहेतुकं स्वानुभवानुरूपम् । सत्योपदेशं तमिमं मुमुक्षुः सच्छ्रद्धयाऽऽलम्ब्य यतेत सिद्ध्यै ॥ ८४॥ जीवेश्वरौ विश्वमिति त्रिरूपं जगत् समस्तं च तुरीयसत्ये । अध्यस्तमेवात्मनि मानसेने- त्यज्ञानकार्यं बत सर्वमेतत् ॥ ८५॥ सत्येवमज्ञानमिदं यदा तु स्वज्ञानभास भजते विनाशम् । कार्यं तदीयं च सहैव नश्येत् तमो यथाऽर्कप्रभया प्रभाते ॥ ८६॥ भातीदमज्ञानतमोविलासे न भाति सुज्ञानमहाप्रकाशे । सच्चेदिदं भाति कुतो न तुर्ये सत्यात्मनश्चित्प्रभया प्रदीप्ते ॥ ८७॥ शिष्येत यत् स्वानुभवे तुरीये सत्यं तदेवान्यदसत्यमेव । सत्यत्वमिथ्यात्वविभाग एष बुद्धोपदेशैर्भवति स्फुटो नः ॥ ८८॥ यतोऽज्ञतायामनुभूयमानं तस्मादसद् द्वैतमिदं निरुक्तम् । अज्ञाननाशादनुभूयमाना सत्या भवत्यद्वयताऽऽत्मनस्तु ॥ ८९॥ पदे परस्मिन् भुवने विनष्टे यच्चिन्मयः स्वो लसति स्वभासा । शान्तः स एवाद्वय एककः स- न्नित्यस्मदाचार्यनिरूपितार्थः ॥ ९०॥ स्वप्नः प्रबोधे निधनं प्रयाती- त्यतो हि मिथ्येत्यवगम्यतेऽसौ । जाग्रत्प्रपञ्चोऽपि तथाऽऽत्मभावे विनश्यतीत्यस्य मृषात्वसिद्धिः ॥ ९१॥ पराङ्मुखास्तुर्यपदस्य लाभाद् वादांस्तु मुग्धाः प्रवदन्त्यनन्तान् । तज्जन्यशङ्काः शमयन्ति बुद्धा मुह्येद्यथा तैर्न मुमुक्षुलोकः ॥ ९२॥ आत्मा शरीरं स्वयमेव येषां सोऽयं शरीरी भविता च येषाम् । नोक्तं हि तान् प्रत्यनृतत्वमस्य तेषां भवेद्विश्वमिदं सदेव ॥ ९३॥ जीवेश्वरौ विश्वमिति त्रयस्य मिथ्यात्वमुक्तं ह्यविभक्तमेव । त्रिष्वेककं सत्यमवैति यस्तु द्वयं तदन्यच्च सदेव तस्मै ॥ ९४॥ मुमुक्षुपुंसामुपदिश्यते तु समानमेव त्रितयं मृषेति । ग्राह्यं तथैवेह यथोपदिष्टं विमुक्तिमिच्छद्भिरबोधनाशात् ॥ ९५॥ ग्राह्यः समग्रोऽप्युपदेश एष त्याज्योऽथवा बुद्धिमता समग्रम् । कः कुक्कुटीं कल्पयितुं समर्थः पाकाय चार्धं प्रसवाय चार्धम् ॥ ९६॥ कुतो नु विश्वं सदिति प्रतीत- मितीदमादौ परिशीलनीयम् । प्रपञ्चसत्ताप्रतिपादनस्य भारोऽस्ति तद्वक्तृशिरस्थ एव ॥ ९७॥ यद्वीक्ष्यते विश्वमतोऽज्ञलोकः सदेव विश्वं मनुते हि सर्वः । नैतत् प्रमाणं व्यभिचारदोषा- न्मरीचिकारज्जुभुजङ्गमादौ ॥ ९८॥ यथा प्रतीतं भुवनं सदेवे- त्येतन्न सिद्धं भवतीक्षणेन । किमप्यधिष्ठानसदस्ति यस्मि- न्निदं विभातीत्यनुमेयमत्र ॥ ९९॥ यद्यद्यथा भाति न तत् तथेति वैज्ञानिकैरेव निरूपितं हि । द्रव्यं सुनीरन्ध्रमिव प्रतीतं चाकाशकल्पं गदितं यतस्तैः ॥ १००॥ जानात्यधिष्ठानसदस्य यस्तु तुरीयभावे समुपेत्य निष्ठाम् । बुद्धः स एव प्रभवेद्धि वक्तुं किमस्य तत्त्वं भवतीति नान्यः ॥ १०१॥ बहिर्मुखत्वे सति को नु विद्याद् यथावदात्मानमुत प्रपञ्चम् । अन्तर्मुखत्वेन तु बोधदृष्ट्या जानाति तत्त्वं ह्युभयोश्च बुद्धः ॥ १०२॥ कथं नु मां ज्ञास्यसि तत्त्वतस्त्वं ज्ञातुं स्वमात्मानमुतासमर्थः । इत्यज्ञमर्त्यं हसति प्रपञ्च इत्येवमूचे भगवान् गुरुर्नः ॥ १०३॥ आविद्यकत्वाज्जगदीक्षणस्य वादं निराधारमिमं प्रदर्श्य । जगन्मृषात्वं प्रकटीकरोति स्फुटं गुरुर्नो भगवान् प्रबुद्धः ॥ १०४॥ शरीरमेवात्मतयाऽवगम्य तत् सत्यमेवेत्यपि निश्चयेन । प्रत्येति सत्यं सकलं हि रूपं सर्वोऽपि जन्तुः परिदृश्यमानम् ॥ १०५॥ रूपाणि सर्वाणि मृषैव तस्मा- न्न तानि सत्यानि हि बुद्धपुंसः । यदस्ति सत्यं तदरूपमेव न रूपि किञ्चित् परमार्थदृष्ट्या ॥ १०६॥ दृष्ट्यैकया पश्यति रूपिणं स्वं सरूपकं विश्वमुताज्ञमर्त्यः । सा दृष्टिरज्ञानमयीति हेतोः प्रमाणहीनैव हि विश्वसत्ता ॥ १०७॥ वपुःप्रपञ्चाविति दृश्यमेकं वीक्षाऽप्यवीक्षाऽप्युभयोः सहैव । विनाऽऽत्मनो रूपमिदं शरीरं किं न्वीक्षते कश्चन विश्वमेतत् ॥ १०८॥ स्वाप्नं प्रपञ्चं वपुषा विहीनाः पश्याम इत्येवमुदीर्यते चेत् । तिसृष्ववस्थास्वपि चास्ति देहः कदाऽप्यदेही न भवेद्धि जीवः ॥ १०९॥ देहास्त्रयः सन्ति हि सर्वजन्तोः स्थूलोऽपि सूक्ष्मोऽपि च कारणात्मा । मनोमयः सूक्ष्म उदीर्यते चा- प्युक्तस्त्यविद्यैव च कारणाख्यः ॥ ११०॥ उक्तं शरीरत्रितयं यदेतत् तत् पञ्चकोशात्मकमुच्यते च । मध्यं त्रयं सूक्ष्मशरीरमुक्तं कोशोऽन्तिमः कारणदेह उक्तः ॥ १११॥ यावन्न बोधात् त्रितयं विनश्येत् स्याद् देहवानेव हि जीवनामा । तुरीयभावे ह्यशरीरताऽस्ति सहैव यस्मिंस्त्रितयं विनश्येत् ॥ ११२॥ स्वाविद्यया कल्पयन्तेऽन्यदेहं स्वप्ने मनोऽन्यद् भुवनं स्वयं हि । स्वाप्नेन देहेन सहैव सुप्तः स्वाप्नं जगत् पश्यति न त्वरूपः ॥ ११३॥ देहं च विश्वं च समीक्षते हि नेत्रेण देहावयवेन सर्वः । कथं प्रमाणं भवितेयमीक्षा विश्वस्य सत्यत्वविचारणेऽस्मिन् ॥ ११४॥ दृक् स्याद्यथा तादृशमेव दृश्यं दृगाश्रयोऽयं खलु दृश्यभावः । दृक् चेत् सरूपाऽस्ति तथैव दृश्यं दृक् चेदरूपाऽस्ति न रूपवीक्षा ॥ ११५॥ भात्यज्ञतायां खलु सर्वजन्तोः प्रपञ्च आत्मा द्वितयं सरूपम् । अज्ञाननाशे द्वयमप्यरूप- मनन्त आत्मैव हि दृक् तदानीम् ॥ ११६॥ ज्ञानेक्षया ह्यात्मनि रूपहीने यात्येकतां विश्वमिदं सजीवम् । द्रष्टाऽपि दृश्यं भवतो न यस्यां तां ज्ञानवीक्षां निगदन्ति बुद्धाः ॥ ११७॥ चिद्रूप आत्मैव हि निष्प्रपञ्च एकः पदे स्वे परिशिष्ट आस्ते । जन्मादिषड्भावविकारहीनः स एव तस्माद् गदितः स्वतः सन् ॥ ११८॥ अनन्तदृङ्नाम निगद्यतेऽसौ परः स आत्मा परिपूर्ण एकः । न तस्य दृक्त्वं तु यथार्थतोऽस्ति सत्यात्मनो दृश्यविवर्जितत्वात् ॥ ११९॥ अचित्स्वरूपत्वनिवारणाय कृतो दृगित्यत्र पदप्रयोगः । ज्ञानस्वरूपत्वमुताद्वयत्वं तस्यैव मुक्ते भगवत्तमेन ॥ १२०॥ अरूपिणः स्वस्य सरूपतां हि मत्वेक्षते विश्वमिदं सरूपम् । अविद्ययाऽध्यस्तमिदं समस्तं ह्यात्मन्यरूपे परसत्यनन्ते ॥ १२१॥ अनामकेऽरूपिणि चित्स्वरूपे तस्मिन्नविद्यापरिकल्पितानि । नामानि रूपाणि विभान्ति सद्वत् स्वं रूपिणं पश्यत एव पुंसः ॥ १२२॥ आविद्यकत्वं जगदीक्षणस्य विस्पष्टमेवं गुरुणोपदिष्टम् । एवं निरस्ता जगतोऽस्य सत्ता दिष्टाऽऽत्मनः केवलताऽपि सत्या ॥ १२३॥ स्थिरीकरोत्यर्थमिमं गुरुर्नो मनोमयत्वं जगतो निरूप्य । ततो मृषात्वं मनसोऽहमश्च मूलाज्ञताया अपि चोपदिश्य ॥ १२४॥ शब्दादिका ये विषयास्त एव रूपं हि विश्वस्य न किञ्चिदन्यत् । प्रतीतयस्ते मनसो हि सर्वे तद्विश्वमेतन्मन एव नान्यत् ॥ १२५॥ यद्यस्ति विश्वं मनसो विभिन्न- मभानमेतस्य कुतः सुषुप्तौ । चिद्रूप आत्माऽस्ति हि तत्र सत्यो यदीयभासा मनसो मनस्त्वम् ॥ १२६॥ Quote - Vivekachudamani यदि सत्यं भवेद्विश्वं सुषुप्तावुपलभ्यताम् । यन्नोप्लभ्यते किञ्चिदतोऽसत् स्वप्नवन्मृषा ॥ यदा मनश्चेष्टितमस्ति पुंसां तदैव विश्वं खलु भाति तेषाम् । मनोमयं विश्वमिदं हि तस्मात् स्वप्ने यथा जागरिते तथैव ॥ १२७॥ यथैव जाग्रज्जगदेवमेव स्वाप्नं स्वकाले प्रतिभाति सद्वत् । जाग्रत्प्रपञ्चो व्यवहारयोग्यो यद्वत् तथा स्वाप्न उत स्वकाले ॥ १२८॥ स्वाप्नं यथा दृश्यमभिन्नमेव चित्ताद् भवेत् स्वप्नदृशो नरस्य । दृश्यं तथा जाग्रति वीक्षकस्य चित्ताद् भवेत् सर्वमभिन्नमेव ॥ १२९॥ मनोमयत्वे जगतः सुसिद्धे सिद्धं मृषात्वं भवतीति भीताः । बहिःस्थितत्वं जगतोऽज्ञमर्त्या अनेकधा साधयितुं यतन्ते ॥ १३०॥ जगन्मृषात्वं गदितं तु बुद्धैः स्वान्वेषणात् तुर्यपदस्य लिप्सोः । नान्यान् प्रतीदं ह्युपदिष्टमस्ति ततो वृथैवेह तदीयवादाः ॥ १३१॥ स्वाप्नस्य विश्वस्य मृषात्मकत्वं स्वप्ने न शक्नोति हि कोऽपि बोद्धुम् । तथैव जाग्रद् भुवनं मृषेति शक्नोति बोद्धुं न हि जागरेऽस्मिन् ॥ १३२॥ न दोषहीनं भवति प्रमाणं बहिःस्थितत्वे जगतोऽस्य किञ्चित् । साध्यं स्वपक्षं बत सिद्धवत्तु कृत्वैव वादांस्त इमे वदन्ति ॥ १३३॥ अन्तर्हि शब्दादिकबोधजन्म बहिस्तु तत्कारणमस्ति विश्वम् । इत्युच्यते चेद् वद सन् कथं स्या- दन्तर्बहिश्चेति विभाग एषः ॥ १३४॥ लोकेऽनुभूतः सकलो विभागो देहाश्रयेणैव हि भाति सद्वत् । देहस्य सत्तां प्रति न प्रमाणं पृथक् किमप्यस्ति समर्पितं तैः ॥ १३५॥ अल्पं मनो विश्वमिदं विशालं स्यादन्तरेतन्मनसः कथं नु । इत्येष वादोऽप्युत मुग्धतैव विशालमुक्तं मन एव बुद्धैः ॥ १३६॥ आकाशतश्चापि बृहन्मनो हि तस्मिन् हि खादीनि भवन्ति पञ्च । चिन्निश्चला ब्रह्म चला मनश्चे- त्येवं मनो ब्रह्ममयं निरुक्तम् ॥ १३७॥ सुप्तौ तवासीत् किमिदं न वेति शङ्कास्ति चेत् पृच्छ नरानसुप्तान् । आसीदविच्छिन्नतयैव विश्व- मित्येव तेषामवगच्छ वाचा ॥ १३८॥ एवं स्वपक्षं बत सिद्धवत्तु कृत्वैव वादोऽयमुदीर्यतेऽज्ञैः । अन्तर्भवन्त्येव हि तेऽप्यसुप्ता नराः प्रपञ्चेऽत्र विचार्यमाणे ॥ १३९॥ वीक्षामहे तान् मनुजानसुप्तान् वयं प्रबुध्यैव हि नैव सुप्तौ । असुप्तपुंसां न हि सत्यतायाः किञ्चित् प्रमाणं पृथगस्ति दत्तम् ॥ १४०॥ ते चाप्यसुप्ता मनसैव विश्वं जानन्ति नो तेन विना कदाऽपि । सर्वस्य तन्मानसमेव विश्वं स्वप्ने यथा जागरितेऽपि तद्वत् ॥ १४१॥ भात्येकरूपं हि जगद् बहूना- मित्युच्यते चास्य बहिःस्थितत्वम् । नवीक्षकाणां बहुता यथार्थे- त्युक्तैष वादो गुरुणा निरस्तः ॥ १४२॥ अनेकतैषा मनसा कृतैव स्वप्ने यथा जागरितेऽप्यबोधात् । नानेकता भाति हि वीक्षकानां सुषुप्तिभावे मनसा विहीने ॥ १४३॥ मनः प्रपञ्चं सृजति स्वयं हि स्वप्ने यथा जागरिते तथैव । स्वसृष्टमेवेति मनो न वेत्ति स्वप्ने यथा जागरितेऽपि तद्वत् ॥ १४४॥ यथेप्सितं स्रष्टुमशक्तमेव मनोऽवशं सत् सृजति प्रपञ्चम् । अतो हि विश्वं सदिति प्रतीत्या भ्रान्तं भृशं संसरति स्वयं च ॥ १४५॥ मनोरथे नाटकवीक्षणे च तथा कथासंश्रवणेऽपि चित्तम् । प्रत्येति सत्यं सकलं स्वसृष्ट- मेष स्वभावो मनसो हि नित्यः ॥ १४६॥ दृष्टेर्न सृष्टिः पृथगस्ति काचिद् दृष्टिश्च सृष्टिर्द्वयमेकमेव । दृष्टेर्विरामो निधनं हि नान्य- न्नश्येद्धि विश्वं निजतत्त्वबोधात् ॥ १४७॥ सिद्धे प्रपञ्चस्य मनोमयत्वे सच्चेन्मनः सन् भविता प्रपञ्चः । असन् प्रपञ्चोऽपि मनस्त्वसच्चेत् ततो विचार्या मनसोऽथ सत्ता ॥ १४८॥ कैर्लक्षणैः स्यात् सदसद्विवेक इत्यत्र पूर्वं परिशीलनीयम् । सल्लक्षणं लौकिकसम्मतं यत् तन्न प्रमाणं खलु सद्विचारे ॥ १४९॥ कीरो यथा शाल्मलिभूरुहस्य लुब्धः फले वञ्चित एव याति । एवं स्वयं वञ्चयतः स्वमेव मतं प्रमाणं भविता कथं नु ॥ १५०॥ धीरिन्द्रियाण्यप्युत मानसं च भवन्त्यविद्यापरिचारकाणि । अतः प्रमाणानि हि लौकिकानि नैवोपकुर्वन्ति विचारणेऽस्मिन् ॥ १५१॥ सल्लक्षणं लौकिकसम्मतं यत् तदेतदाविद्यकमित्यसाधु । साधोः प्रमाणं गदितो हि बुद्धैः सत्यत्वमिथ्यत्वविभाग एव ॥ १५२॥ भासा स्वया यद्विलसत्यजस्रं विना विकारं च लयोदयाभ्याम् । तदेव सत्यं हि ततोऽन्यथा तु सर्वं मृषैवेति वदन्ति बुद्धाः ॥ १५३॥ कदाऽप्यसत्यस्य भवेन्न सत्ता भवेदसत्ता न सतः कदाऽपि । इत्येवमूचे सदसद्विवेकं गीतासु कृष्णो भगवान् स्वयं हि ॥ १५४॥ आद्यन्तयोर्भावविवर्जितं यन्- मध्येऽपि तद् भावविहीनमेव । यद्देशकालप्रमितं विभाति तत्सत्यताधीर्बत मुग्धतैव ॥ १५५॥ सत्योपमानं गदितं सुवर्णं मिथ्योपमानानि विभूषणानि । सत्यं सुवर्णं रुचकान्यपेक्ष्य विनश्वरत्वाद्रुचकानि मिथ्या ॥ १५६॥ सुवर्णमासन् रुचकानि पूर्वं तदेव मध्येऽपि तदेव चान्ते । असन्ति सत्ये विलसन्ति सद्वत् स्वर्णे यथा सन्ति विभूषणानि ॥ १५७॥ रीत्याऽनया विश्वमिदं मनश्च द्वयं च मिथ्यैव परीक्षमाणे । इत्येवमर्थो भगवत्तमेन दिष्टो यथा तत्क्रम उच्यतेऽत्र ॥ १५८॥ भास्यं जगद् भासकमस्य चेतो लयोदयौ द्वे भजतः सहैव । न भात्यविच्छिन्नतया द्वयं चे- त्यतो द्वयं चापि मृषेति विद्यात् ॥ १५९॥ भवेत् तु यद्यद् विरलप्रकाशं तत्तज्जडत्वेन परप्रकाश्यम् । जडस्य सर्वस्य च भासकं यत् स्वयम्प्रभं तद्धि चितिस्वभावम् ॥ १६०॥ स्वतत्त्वबोधादहमादिनाशे यच्छिष्यते शान्तपदे परस्मिन् । सत्यं तदन्यन्निखिलं मृषेति जानीमहेऽस्मद् गुरुदेववाग्भिः ॥ १६१॥ मनोऽपि मिथ्या यदि शून्यतैव प्राप्ता सुषुप्तौ न हि किञ्चिदस्ति । ये वादमेवं समुदाहरन्ति स्वानेव तेऽज्ञा बत विस्मरन्ति ॥ १६२॥ शून्यत्वमेतद्विदितं कथं नु नैवास्य साक्षी यदि कश्चिदस्ति । निस्साक्षिका नैव हि शून्यतेय- मतो न शून्यत्वमिदं यथार्थम् ॥ १६३॥ शून्यत्ववादो भगवत्तमेन निस्संशयं ह्यस्ति निरस्त एवम् । नास्माकमत्रास्ति हि काऽपि शङ्का तुर्येऽस्ति शिष्टः खलु सत्य आत्मा ॥ १६४॥ आत्मा स्वयञ्ज्योतिरहंस्वरूपो भाति स्वभासा हृदि सर्वजन्तोः । सर्वोऽप्यतः स्वं समवैति सन्तं नास्मीति को न्वस्ति वदन्नृलोके ॥ १६५॥ मन्ये ततोऽस्मीत्यनुमीयते तु वृत्त्या धियः कैश्चन नैजसत्ता । अमी गजं यान्तमुपेक्ष्य मन्दाः पदानि वीक्ष्य प्रतियन्ति पश्चात् ॥ १६६॥ सर्वानुभूताऽस्ति हि नैजसत्ता सुषुप्तिभावे मनसा विहीने । सुखं मया सुप्तमिति ब्रुवाणः सुखस्मृतिं च प्रकटीकरोति ॥ १६७॥ अन्यानुभूतस्मरणं कुतः स्यात् स्वेनानुभूतं हि सुखं सुषुप्तेः । अन्योऽहमन्यः पुरुषः सुषुप्तेः पूर्वं य आसीदिति को नु वक्ति ॥ १६८॥ लयोदयाभ्यां रहिते हि तस्मिन् मनः सविश्वं लयमेति सुप्तौ । उदेति तस्माच्च पुनः प्रबोधे शून्यत्ववादोऽयमतो मृषैव ॥ १६९॥ आधारसद्वस्तु विना कथं नु विश्वं मनश्चेत्युभयं च भायात् । रज्जुं विना कोन्विह वीक्षतेऽहिं शुक्तिं विना पश्यति को नु रौप्यम् ॥ १७०॥ अस्तित्वभाने भुवनस्य यच्छ- दस्त्येव सत् किञ्चन चित्स्वरूपम् । नो चेत् कथं धीरुदियान्मृषेद- मस्तीति भातीत्यपि लौकिकानाम् ॥ १७१॥ तद्भास्यमेव द्वितयं च यस्मात् स्वयम्प्रभं तच्चितिरूपमेव । नात्मस्वरूपात् पृथगस्ति सत्यं स्वयम्प्रभं किञ्चन कुत्रचिद्वा ॥ १७२॥ बोधोदये स्वात्मनि भासमाने नार्केन्दुनक्षत्रगणा विभान्ति । तस्यैव भासा खलु भान्ति तानि बहिर्मुखस्याज्ञजनस्य लोके ॥ १७३॥ चिता यया भाति जगत् समस्तं भासाऽपि यस्या मनसो मनस्त्वम् । सैवात्मरूपं भवतीति हेतो- रात्मास्तितायां न हि काऽपि शङ्का ॥ १७४॥ अस्मीति बोधं न रुणद्ध्यविद्या बोधोऽहमस्मीति तु बोधमेव । स्वं वेत्ति सन्तं खलु सर्व एव विहाय वैज्ञानिकवादमुग्धान् ॥ १७५॥ नित्योऽव्ययः सन्ततभानकः स्वः सर्वास्ववस्थास्वपि सत्य आस्ते । तस्मिन्नधिष्ठानसति ह्यशेष- मारोपितं विश्वमिदं विभाति ॥ १७६॥ पूर्णस्य तस्यैव चिदात्मकस्य सत्यस्य सत्तामुपजीव्य सद्वत् । समानसं विश्वमिदं विभाति स्वाविद्यया मोहितमानसानाम् ॥ १७७॥ ब्रह्मैककं सत् सकलस्य जन्तोः स्वयं सदैवाहमहन्तयाऽन्तः । भात्यात्मरूपेण नि नान्य आत्मे- त्येषाऽस्ति वाणी भगवत्तमस्य ॥ १७८॥ चैतन्यमस्मीति मदीयरूप- मिति श्रुता मोससनामकेन । या देववाणी प्रथिताऽस्ति तस्या भावोऽयमेवेत्यपि सोऽयमूचे ॥ १७९॥ विज्ञाय सत्यात्मतया तमेव ब्रह्मात्मकं तुर्यपदे लसन्तम् । लब्ध्वेव कामानखिलान् सहैव सदैव तृप्ता हि लसन्ति बुद्धा ॥ १८०॥ सैषा विशुद्धा चितिरात्मरूपा स्वाज्ञस्य विश्वाकृतिका हि भाति । सत्यात्मनीत्थं विपरीतबुद्धि- र्निजस्वरूपानवबोधमूला ॥ १८१॥ आविद्यकं विश्वमिदं सदैव समावृणोत्येव हि तत्स्वरूपम् । धीरिन्द्रियाण्यप्युत मानसं च भवन्त्यविद्यापरिचारकाणि ॥ १८२॥ अतः प्रमाणानि हि लौकिकानि प्रत्यक्षमैतिह्यमुतानुमानम् । प्रतारणायैव भवन्ति जन्तो- र्नैवोपकुर्वन्ति हि बोधलब्ध्यै ॥ १८३॥ अतः किमाश्चर्यमिदं यदज्ञा मत्वा स्वतः सत्यमिमं प्रपञ्चम् । संसारिणं च प्रतियन्ति पूर्णं शिवं सदात्मानमसङ्गमेकम् ॥ १८४॥ निरुक्तमेवं जगतो मृषात्वं नैकोपमानेन सुबोधमस्ति । अतः स्फुटीकर्तुमिदं मुमुक्षो- स्तिस्रो गुरुर्वक्त्युपमाः क्रमेण ॥ १८५॥ भ्रमः प्रपञ्चस्य सदात्मरूपे रज्ज्वां यथाऽहेरिति दर्शितेऽर्थे । उक्तोपमाया विषमत्वबुद्ध्या शिष्यस्य शङ्का समुदेति काचित् ॥ १८६॥ सर्पभ्रमः शाम्यति रज्जुबोधा- न्नैवं जगद् भ्रान्तिरपैति साधोः । श्रुत्याऽपि युक्त्या विदितेऽपि तत्त्वे पूर्वं यथा दृश्यत एव विश्वम् ॥ १८७॥ जगद्भ्रमो नैति परोक्षबोधा- न्निरास्पदेयं खलु तेन शङ्का । तथाऽपि सन्देहनिवारणाय गुरुर्द्वितीयामुपमां ब्रवीति ॥ १८८॥ भूयोऽपि वीक्षा मृगतृष्णिकाया अस्त्येव तत्त्वे विदितेऽपि तस्याः । एवं निरस्तेऽपि च संशयेऽस्मि- न्नुदेति भूयोऽपि च संशयोऽत्र ॥ १८९॥ कार्योपयोगीनि हि जागतानि वस्तूनि नैवं तु मरीचिकाम्भः । अत्रोच्यते स्वप्नसमीक्षितानि कार्योपयोगीनि तथाऽपि मिथ्या ॥ १९०॥ कार्योपयोगीन्यपि तद्वदेव मिथ्यैव वस्तून्यपि जागतानि । स्वप्नो ह्ययं जागरिताभिधानः स्वाज्ञाननिद्रावशगस्य जन्तोः ॥ १९१॥ निद्रेयमज्ञानमयी न यावद् व्यपैति साधोरपरोक्षबोधात् । स्वप्नोऽनुवर्तेत हि जागराख्यो यस्मिञ्जगत्सत्यवदेव भाति ॥ १९२॥ ज्ञेयं हि सत्यत्वमबाधितत्वं बाध्यत्वमेवात्र मृषात्वलिङ्गम् । आत्मैव सन्नित्यमबाधितत्वा- न्मृषा जगद् बाध्यतयाऽऽत्मबोधे ॥ १९३॥ आत्मन्यधिष्ठानसति ह्यशेष- मारोपितं विश्वमिदं विभाति । अतो न विश्वं नरश‍ृङ्गतुल्यं सत्यं स्वतो नेत्युपदिश्यते तु ॥ १९४॥ भेदैरनन्तैः प्रविभक्तमेव प्रतीयते विश्वमिदं हि सर्वम् । भेदा इमे चापि भवन्ति मिथ्ये- त्यर्थं गुरुर्नो विशदीकरोति ॥ १९५॥ भेदं च जीवेश्वरयोस्तथाऽन्यान् प्रत्येति भेदान् मन एव सर्वान् । भेदप्रतीतिर्मनसो हि धर्मो भावेऽमनस्के न हि सन्ति भेदाः ॥ १९६॥ मनः प्रतीत्यामकमेव तस्मा- दज्ञानुभूतं बत भेदजातम् । सर्वप्रतीतेर्मनसस्तु मूलं भवत्यनात्मात्मभिदाप्रतीतिः ॥ १९७॥ सैषा शरीरोऽहमिति प्रतीतिः संसारवृक्षस्य निदानभूता । प्रतीतिरेषा गदिताज्ञतैवे- त्याविद्यका एव समस्तभेदाः ॥ १९८॥ जीवाभिधानं मन एव भेदा- नविद्यया कल्पयतीक्षते च । सुषुप्तिभावेऽपि तुरीयभावे जीवेश्वराद्या न हि सन्ति भेदाः ॥ १९९॥ द्वन्द्वानि सर्वाण्यपि च त्रिपुट्यो भवन्त्यसत्यान्यत एव हेतोः । सत्यात्मभावे न हि सन्ति तानि न बाध्यते तुर्यपदस्थ एतैः ॥ २००॥ अन्तर्बहिर्जन्ममृती समष्टि- र्व्यष्टिर्जगत्सृष्टिलयौ तमो भाः । आत्माऽप्यनात्माऽप्युत बन्धमुक्ती ज्ञाताज्ञते जीव उतेश्वरश्च ॥ २०१॥ स्वेच्छा च दैवं च सुखं च दुःखं दोषा गुणाश्चाप्युत पुण्यपापे । इत्याद्यहङ्कारनिदानकत्वात् स्वप्नोपमं वक्ति गुरुः समस्तम् ॥ २०२॥ ज्ञाताऽपि तज्ज्ञेयमनात्मसञ्ज्ञं ज्ञानं तथा वैषयिकं तदीयम् । समस्तमेवं त्रिपुटिप्रकारं चाविद्यकं स्वप्नसमं निरुक्तम् ॥ २०३॥ आत्मन्यविद्यापरिकल्पितौ द्वौ जीवेश्वराख्यौ भवतो न भिन्नौ । उपाधिसम्बन्धधिया भिदेयं प्रतीयते सत्यवदज्ञतायाम् ॥ २०४॥ ईशस्य माया गदिताऽस्त्युपाधि- र्जीवस्य तूपाधिरबोध एव । मायाऽस्त्यधीना परमस्य तस्य जीवस्त्वविद्यापरतन्त्र एव ॥ २०५॥ मायाऽप्यविद्या गदिते तु शास्त्रे जीवेशयोर्भेदनिरूपणाय । मिथ्यैव भेदोऽयमबोधमूल- स्तथाऽपि सत्यो व्यवहारदृष्ट्या ॥ २०६॥ द्वैतं भवेत् सत्यवदेव तावद् यावन्न जीवत्वमपैति बोधात् । अतो भवेत् सत्यवदेव पुंसां भेदो ह्ययं यद्वदिहान्यभेदाः ॥ २०७॥ विश्वं परो जीव इति त्रयस्य मृषात्वमुक्तं ह्यविभक्तमेव । न कुक्कुटी कल्पयितुं हि शक्या पाकाय चार्धं प्रसवाय चार्धम् ॥ २०८॥ स्वं देहिनं चाप्युत जीवभूतं यो मन्यतेऽज्ञातनिजस्वरूपः । आत्मैव तस्मै भजतीशभावं तमेव भक्त्या स भजेद्विमुक्त्यै ॥ २०९॥ सत्यां विदित्वाऽद्वयतां धियैव लब्धुं स्वरूपानुभवं त्वशक्तः । कुर्यात् प्रयत्नं भवबन्धमुक्त्यै भक्त्या परस्मिन्नपि च प्रपत्त्या ॥ २१०॥ धीरस्य पुंसो निजमार्गणं च भीरोः प्रपत्तिः पुरुषे परस्मिन् । द्वावेव मार्गौ गदितौ मुमुक्षो- रन्तर्भवन्त्यत्र समस्तमार्गाः ॥ २११॥ अन्वेषयाहङ्कृतिमूलमन्त- र्नाशाय तामर्पय वा परस्मै । मार्गो द्विधैवं भगवत्तमेन मुमुक्षुपुंसां रमणेन दिष्टः ॥ २१२॥ अद्वैतिनं स्वं गणयन्नधीरो भक्तिं परस्मिन्नवरां च मत्वा । वृथैव जीवत्यभजन् य ईशं मुग्धः स मर्त्यो मलिनन्तरङ्गः ॥ २१३॥ कूपे यथा रज्जुनिबद्धकुम्भो भक्तो भवेऽस्मिन् भविता तथैव । रज्जुं विना कूपनिमग्नकुम्भो यथा तथा भक्तिविहीनमर्त्यः ॥ २१४॥ य आसुरीं सम्पदमाश्रयन्ते न भक्तिरच्छा भविता हे तेषाम् । दैवीमतः सम्पदमाश्रितः सन् भक्तिं परस्मिन् विदधीत साधुः ॥ २१५॥ लोकप्रसिद्धा परमस्य पुंसः कृपेति शक्तिर्भवति त्रिरूपा । ईशस्वरूपा गुरुरूपिणी च सत्यात्मरूपा च तुरीयभावे ॥ २१६॥ कृपा तु सेयं स्थितिरेव तस्य परस्य सत्यात्मतया हृदन्तः । कृपा स्वरूपं हि परस्य तस्य कृपां विना नास्ति हि तस्य सत्ता ॥ २१७॥ सदैव जागर्ति कृपा परस्य कालो न कोऽप्यस्ति यदा न सा स्यात् । जीवत्यहन्ता तु नरस्य याव- दपेक्षते सा पुरुषस्य यत्नम् ॥ २१८॥ त्यजेन्न कञ्चित् करुणा परस्य सर्वान् नयेत् सा हि विमुक्तिमेव । मुच्यन्त एके त्वचिरेण बन्धा- दन्ये तु कालेन चिरेण जीवाः ॥ २१९॥ मन्येत भक्तः स्वयमेव भक्त्या परं भजामीति न तद्यथार्थम् । धावन्तमज्ञं भवकाननेऽस्मिन् परो हि गृह्णात्यनुधाव्य मुग्धम् ॥ २२०॥ दयालुरेवं हि पुमान् परोऽसौ स्वमेव यद्यच्छति भक्तिभाजाम् । नाशेऽहमस्तत्कृपया हि साधु- स्तस्मिन्न भेदेन लभेत निष्ठाम् ॥ २२१॥ कान्ताचलोऽसौ हि विकृष्य जीवान् कृत्वाऽचलांस्तानपि भक्षयित्वा । स्वस्मिन् पदे नित्यसुखे परस्मिन् प्रेम्णा सदा रक्षति तुर्यभावे ॥ २२२॥ यथाऽर्णवोत्थाम्बुदवृष्टिजाता भूयोऽर्णवं याति नदी स्वयोनिम् । भ्रान्त्वा यथा खे सुचिरं च पक्षी विश्रान्तिमाप्नोत्यवनिं निवृत्य ॥ २२३॥ एवं परस्मादुदितोऽपि जीवो भ्रान्त्वा भवेऽस्मिन् सुचिरं कदाचित् । यथा प्रवृत्तो विनिवृत्य भूयः सङ्गच्छते तं पुरुषं स्वयोनिम् ॥ २२४॥ भक्तिः परस्मिन् द्विविधोऽपदिष्टा चित्तस्य पुंसः परिपाकभेदात् । आदौ तु कीशार्भकरीतिभक्तिः पश्चाच्चमार्जारकिशोरभक्तिः ॥ २२५॥ अभ्यस्य कीशार्भकभक्तिमेव भवेष्वनेकेषु कथञ्चिदन्ते । क्षीणे त्वहङ्कारबले नितान्तं भक्तिं बिडालार्भकवत् करोति ॥ २२६॥ मार्जारडिम्भोपमभक्तिरेव प्रपत्तिरप्यात्मनिवेदनं च । सेयं विशुद्धा मनसः प्रसादात् कालेन बोधेन भवेत् समाना ॥ २२७॥ पुंसः परस्मै स्वनिवेदनं तु पुंसा भवेत् तेन कृतं यथार्थम् । जानाति यः स्वं निजमार्गणेने- त्युक्ताऽस्ति वाणी भगवत्तमेन ॥ २२८॥ पृथक्त्वमत्याऽप्यपृथक्त्वमत्याऽ- प्येवं च भक्तिर्गदिता द्विरूपा । असंस्कृतानां प्रथमोपदिष्टा सुसंस्कृतानामितरा प्रशस्ता ॥ २२९॥ तमात्मभूतं पृथगेव मत्वा रूपेऽपि नाम्नाऽपि च तं प्रपूज्य । बुद्धिप्रसादात् परमं च धाम कालेन यात्येव न तत्र शङ्का ॥ २३०॥ नाम्नाऽपि रूपेण विहीनमीशं नाम्नाऽपि रूपे भजते नरश्चेत् । स नामरूपोद्भवबन्धमुक्तिं भजेदिति श्रीरमणोपदेशः ॥ २३१॥ यामेव निष्ठां लभते मुमुक्षु- र्ध्यानादरूपस्य सतः परस्य । लभेत तामेव हि दैवसम्प- द्युक्तः सरूपं तमुपास्य भक्त्या ॥ २३२॥ भजेत् तमेकं पुरुषं यथेष्टं केनापि नाम्ना क्वचनापि रूपे । परस्य रूपेषु न तारतम्यं वीक्षेत धीमान् परिशुद्धचेताः ॥ २३३॥ एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् । एवं स्फुटं मूर्तिभिदामृषात्व- मूचे कवीन्द्रः किल कालिदासः ॥ २३४॥ सर्वोत्तमं रूपममुष्य बुद्धः स्वस्मान्न यस्तं समवैति भिन्नम् । परात्मशक्तेः करुणाभिधाया रूपं द्वितीयं हि गुरुः प्रबुद्धः ॥ २३५॥ अहं स्वयं बुद्ध इति ब्रवीति गीतासु कृष्णो भगवान् स्वयं यत् । ईशादभिन्नं गणयेत् प्रबुद्धं शास्त्रोदितं तत्त्वममुष्य जानन् ॥ २३६॥ अभ्यर्चयेदात्मविदं मुमुक्षु- रित्यस्ति वाणी श्रुतिमस्तकेषु । मन्वीत चेद् भिन्नममुं परस्मात् सा धीर्मुमुक्षोः प्रतिहन्ति मार्गम् ॥ २३७॥ देवं त्वनात्मानमुपासते ये ते सामरस्येन भवन्ति हीनाः । चिरेण कालेन मतिप्रसादा- दपैति केषाञ्चन दोष एषः ॥ २३८॥ यथा मतं स्वेन परस्य रूपं रूपं तदेवेक्षितुमीहतेऽसौ । कदाचिदीक्षेत च रूपमेवं वीक्षा त्वनित्येयमतो मृषैव ॥ २३९॥ स एव साक्षात् पुरुषः परः सन् स्वतः पृथक् तं गणयन्नबोधात् । भक्त्या तदीक्षां यतते च लब्धु- मितोऽन्यदाश्चर्यतरं किमस्ति ॥ २४०॥ रूपेक्षणं रूपविवर्जितस्य कथं भवेत् तस्य यथार्थवीक्षा । तस्यात्मनोऽनात्मवदीक्षणं च सत्येक्षणं तस्य भवेत् कथं नु ॥ २४१॥ रूपं समस्तं च मनोमयं य- दन्तर्भवेद् द्रष्टरि दृश्यरूपम् । द्रष्टुः स्वरूपं हि गवेषणीयं तदेव तत्त्वं हि परस्य पुंसः ॥ २४२॥ द्रष्टुः स्वरूपं य उपेक्ष्य देवं स्वतोऽन्यवत् पश्यति भक्तियोगात् । स वीक्षते मानसरूपमेवे- त्येषाऽस्ति वाणी भगवत्तमस्य ॥ २४३॥ द्रष्टुः स्वरूपस्य गवेषणेन द्रष्टुर्विनाशात् परिशिष्यते यत् । तदेकमेव स्वयमात्मरूपं रूपं च सत्यं परमस्य पुंसः ॥ २४४॥ जीवाभिधं यत्र मनो निगीर्णं तेनान्नवद्याति तदात्मभावम् । सैवात्मवीक्षाऽपि परस्य वीक्षे- त्येषा गुरोः श्रीरमणस्य वाणी ॥ २४५॥ उपासनं स्वात्मतयैव तस्य श्रुतेर्वचोभिर्विहितं मुमुक्षोः । मत्वा स्वतोऽन्यं तमुपासते ये श्रुतिः पशूंस्तान् बत वक्ति पुंसः ॥ २४६॥ हित्वाऽऽत्मदेवं भजते स्वतोऽन्यं य एष हस्तस्थितकौस्तुभं सः । अपास्य रत्नं विचिनोति किञ्चि- दित्येवमूचे भगवान् वसिष्ठः ॥ २४७॥ वपुष्यहन्तैव हि पापमाद्यं निरूपितं यद् भगवत्तमेन । पापादमुष्मादुदिता परस्य स्वतोऽन्यताधीरपि पापमेव ॥ २४८॥ पूर्णत्वमुक्तं श्रुतिभिः परस्य सत्यं भवत्यात्मतयैव तस्य । तत्पूर्णताया बत भङ्ग एव पृथक्त्वमत्या क्रियते हि मूढैः ॥ २४९॥ अभेदमत्या रचिता तु भक्ति- स्तत्पूर्णताङ्गीकरणस्य रीतिः । सुभक्तिमेतामतिपावनीं च ब्रूते मुमुक्षोर्भगवान् गुरुर्नः ॥ २५०॥ प्रदीपमादाय तमोऽनुधावन् नरो यथा तद्वदुपासकोऽपि । पृथक्त्वयोपास्य परं न याती- त्येवं च दिष्टं भगवत्तमेन ॥ २५१॥ भिदाहमन्तारचितां मृषेति बुद्ध्वा भजत्यात्मतया यदीशम् । अतो मुमुक्षोरनयैव भक्त्या सिद्ध्येदहन्तानिधनं जवेन ॥ २५२॥ स्वतोऽन्यमीशं बत मन्यते यो मृषैव तेनात्मसमर्पणं हि । मृषैव चोलेषु यथा विवाहे स्यान्नारिकेलस्य फलस्य दानम् ॥ २५३॥ अनात्मतायां परमस्य पुंसः प्रेष्ठेतरत्वं बत तस्य सिद्धम् । आत्मैव हि प्रेष्ठ इति प्रसिद्धः श्रुत्याऽनुभूत्याऽपि हि सर्वजन्तोः ॥ २५४॥ परं प्रपद्येत विहाय धर्मा- नारोपितानात्मनि जीवताद्यान् । अवोचदेवं भगवान् गुरुर्नो गीतान्तिमश्लोकनिगूढमर्थम् ॥ २५५॥ पुंसे परस्मै स्वनिवेदनं यत् सा भक्तियोगस्य परा हि निष्ठा । क्षीणे त्वहङ्कारबले तदेतद् विशुद्धचित्तेन भवेत् तु साध्यम् ॥ २५६॥ लघ्वी यथा कान्तशिला महत्या विभिन्नकोट्याश्रयणात् तथैव । जीवोऽल्पको मस्तकपादयोगा- दैक्यं भजेत् तेन परेण पुंसा ॥ २५७॥ इष्टं यथा ते भवतात् तथैव सर्वात्मनाऽहं त्वदधीन एव । एवं धिया तिष्ठति यः सदैव तेनार्पणं स्वस्य भवेद्यथार्थम् ॥ २५८॥ भूभारवोढा स इति प्रपन्न- स्तस्मिन् भरं न्यस्य भजेत् प्रशान्तिम् । वहन् स्वयं गोपुरधारिबिम्बो यथा तथा स्यात् परिहासपात्रम् ॥ २५९॥ याने यथा स्वीयभरं निवेश्य करोति यात्रामुपविश्य तत्र । एवं परस्मिन् स्वभरं निवेश्य समापयेत् स्वामिह लोकयात्राम् ॥ २६०॥ यथा निजां देहकुटुम्बचिन्तां त्यजेद्भरं न्यस्य बुधः परस्मिन् । त्यजेत्तथा लोकहितार्थचिन्तां तस्मिन् समस्तं च भरं निवेश्य ॥ २६१॥ अनिष्टमिष्टं च सुखं च दुःखं कालोपनीतं सहमान एव । शोकं मुदं चाप्यभजन् सुभक्तः कालं नयेत् तत्परवाधियैव ॥ २६२॥ यदा निगीर्णा कृपया परस्य नश्येदहन्ता सहजात्मभावे । निवेदनं स्वस्य तदा परस्मै सत्यं च पूर्णं च भवेद्धि साधोः ॥ २६३॥ गणेशमूर्तेर्गुडनिर्मितस्य यथाऽंशमादाय निवेदनं स्यात् । तथा परस्मै स्वनिवेदनं स्यात् स्वो नाम तस्मान्न हि कश्चिदन्यः ॥ २६४॥ आत्मा स्वयं यत् परमः स एव निवेदनं केन कथं च कस्मै । येनाहमा भेदमवैति तस्मात् तन्नाश एवात्मनिवेदनं हि ॥ २६५॥ पुंसे परस्मै यदि दित्ससि स्व- मन्विष्य पूर्वं स्वमवेहि साक्षात् । एवं स्वदानं कृतमेव तस्मा इत्यस्ति वाणी भगवत्तमस्य ॥ २६६॥ अहङ्कृतेरेव नितान्तहानं नमस्कृतेस्तत्त्वमुदीर्यते च । ज्ञानं प्रपत्तिश्च नमस्कृतिश्चे- त्येतत् त्रयं तत्त्वत एकमेव ॥ २६७॥ यथा न वीक्षाविषयः परात्मा बोधस्य तद्वद्विषयो न सोऽयम् । अगोचरत्वान्मनसः परस्य विद्यान्मनस्तं ह्ययथावदेव ॥ २६८॥ चिद्रूप आत्मैव हि सन् परो य- न्नैवास्ति चित् काचन तद्विभिन्ना । ज्ञाता न तस्यास्ति हि कश्चिदन्यो ज्ञानस्य नासौ विषयो हि तस्मात् ॥ २६९॥ चैतन्यदीप्तिर्मनसो भवेद्या तस्या निदानं स हि सत्य आत्मा । अतो विभिन्नं भविता न तस्मात् किञ्चिन्मनोनामकमत्र सत्यम् ॥ २७०॥ चैतन्यमात्माकृतिकं हृदन्त- र्भासा स्वया भास्करवद्विभाति । भासाऽऽत्मनस्तस्य शशाङ्कवत्तु जडं मनश्चेतनवद्विभाति ॥ २७१॥ चितिस्वभावं न मनोऽस्ति यस्मात् ततो मनो याति लयं सुषुप्तौ । चितिस्वभावः खलु सत्य आत्मा न यात्यसौ तेन लयं कदाऽपि ॥ २७२॥ निमीलयत्येव मनो हि नित्यं स्वप्नेऽपि जाग्रत्यपि तत्स्वरूपम् । लीनं सुषुप्तौ च मृतं तुरीये मनो विबुध्येत कथं तमेकम् ॥ २७३॥ स्वमूलमन्विष्य मनः परस्मिन् यात्येकतां यत् सहजात्मभावे । स एव सत्यः परमस्य बोध इत्यस्ति वाणी भगवत्तमस्य ॥ २७४॥ भिन्नौ भवेतां न हि तत्त्वदृष्ट्या जीवेश्वरौ द्वाविति निश्चयेन । भक्त्याऽथवा स्वात्मगवेषयोगात् तस्मिन्नभेदेन लभेत निष्ठाम् ॥ २७५॥ ज्ञानाज्ञते भिन्नपदेऽज्ञते द्वे सांसारिके स्वाज्ञजनानुभूते । द्वाभ्यां विमुक्तो भवति प्रबुद्धो द्वन्द्वं मृषेदं खलु यद्वदन्यत् ॥ २७६॥ उभेऽपि चैते भवतः सहैव नैकं विनाऽन्येन भवेत् कदाऽपि । स्वाज्ञानमूलं द्वयमित्यतश्चा- प्यज्ञानमेव द्वितयं समानम् ॥ २७७॥ ज्ञातृस्वरूपावगतिं विनैव ज्ञातुं स्वतोऽन्यद्यतते हि सर्वः । अज्ञानजं ज्ञानमिदं हि तस्मा- दज्ञानमेवेति गुरूपदेशः ॥ २७८॥ ज्ञाताऽहमस्मीत्युदियाद्य एष तदीयतत्त्वावगतिं विनैव । यद्यद्विजानाति धियेन्द्रियैर्वा तत्तद्विजानात्ययथावदेव ॥ २७९॥ अविद्यमानं बत विश्वमेतत् सद्वद्विजानाति हि बोधहीनः । अलौकिकं चापि निजं स्वरूपं जानाति लोके बत जीवभूतम् ॥ २८०॥ धीरिन्द्रियाण्यप्यपि मानसं च भवन्त्यविद्यापरिचारकाणि । अतः प्रमाणानि हि लौकिकानि सम्मोहनायैव भवन्ति जन्तोः ॥ २८१॥ ज्ञाताज्ञते द्वे भवतोऽनुभूते येनाहमा तस्य कुतो नु जन्म । इति स्वतत्त्वस्य गवेषणेन नष्टेऽहमाख्ये द्वितयं च नश्येत् ॥ २८२॥ ज्ञानं यथार्थं त्वहमो विनाशो निजस्वरूपे सहजा स्थितिर्हि । शिष्टे न तस्यां भवतोऽज्ञते द्वे सांसारिके द्वैतविवर्जितायाम् ॥ २८३॥ तां ज्ञाननिष्ठां निगदन्ति बुद्धा ज्ञानाज्ञते द्वे भवतो न यस्याम् । निष्ठा परा सा विदुषो हि यस्यां नास्ति स्वतोऽन्यच्चिदचित्स्वरूपम् ॥ २८४॥ अपण्डितः पण्डित आत्मविच्च त्रयोऽपि चाज्ञा हि समानमेव । अज्ञस्तृतीयोऽपि यतो न तस्य स्वस्मात् पृथक्किञ्चन वेद्यमस्ति ॥ २८५॥ निष्ठां गतोऽसौ निजधाम्नि सत्ये वन्द्यः समस्तैर्मनुजैः सुरैश्च । पुंसः परस्मादपृथक्तयाऽसौ मुमुक्षुपुंसां भजनीय एव ॥ २८६॥ अज्ञानमन्तं भजतां तुरीये नश्येत् कुतो ज्ञानमुतेति केचित् । पृच्छन्त्यबोधात्मकतामबुद्ध्वा ज्ञानाभिधस्यास्य हि लौकिकस्य ॥ २८७॥ नैवास्ति बोध्यं न च कोऽपि बोद्धा न चास्ति बोधोऽपि तुरीयभावे । द्वन्द्वानि यद्वन्न भवन्ति तुर्ये तथा त्रिपुट्योऽपि न तत्र सन्ति ॥ २८८॥ एकः स आत्मैव हि तुर्यभावे ज्ञानाज्ञताभ्यां रहितश्चकास्ति । ज्ञानस्वरूपः स्वयमव्ययो य- च्छून्यं कथं तत् परमं पदं स्यात् ॥ २८९॥ चैतन्यभासा निजयैव तस्मिन् भात्यात्मरूपं शिवमद्वितीयम् । न भासकं तस्य न तेन भास्यं सत्यं किमप्यस्ति तुरीयभावे ॥ २९०॥ नोदेति नाप्यस्तमुदेति तस्य चैतन्यदीप्तिः सततैकरूपा । आदाय तस्यैव चिदंशलेशं प्रतीयते चेतनवन्मनो हि ॥ २९१॥ मत्वाऽऽत्मनाशस्य पदं तुरीयं बिभ्यत्यमुष्मादविवेकिनो ये । वाञ्छन्ति ते नित्यसुखाय गन्तुं लोकान्तरं दिव्यमबुद्धशिष्याः ॥ २९२॥ लोको यथाऽयं भविता मृषैव तथैव लोका अनृताः परे च । आत्मैव लोकः खलु बुद्धपुंसः स एव तस्माद् गदितः स्वयं सन् ॥ २९३॥ किं नो धनेन प्रजयाऽपि येषां आत्मैव लोको भवतीति बुद्धाः । नापि प्रवृत्तिं न च वा निवृत्तिं वाञ्छन्ति संशान्तसमस्तकामाः ॥ २९४॥ एकः स बोधात्मक एव सत्यो बोधः प्रपञ्चाकृतिरज्ञतैव । बोधात् प्रपञ्चाकृतिकात् प्रपञ्चो भिन्नो यतो नास्त्यत एव मिथ्या ॥ २९५॥ अज्ञानमेतत् तमसा समानं न शक्यमस्तीति तु वक्तुमेतत् । तमो न यद्वत् सहते प्रकाश- मज्ञानमेवं सहते न बोधम् ॥ २९६॥ प्रतीयतेऽज्ञानमिदं परस्मिन् प्रपञ्चरूपं सदिवाज्ञमर्त्यैः । सत्ये सुवर्णे रुचकान्यसन्ति सद्वत् प्रतीतानि यथा भवन्ति ॥ २९७॥ सत्यं सुवर्णं रुचकान्यसन्ती- त्येतत् कथं स्यादिति चेद् गुरोर्नः । दार्ष्टान्तिकं विश्वमिदं मृषेति सन्दर्शनायात्र पदप्रयोगः ॥ २९८॥ दार्ष्टान्तिकस्य स्फुटबोधनाय सर्वोऽपि दृष्टान्त उदीर्यते यत् । विवक्षितार्थावगतिर्यथा स्यात् तथैव दृष्टान्तनिवेदनानि ॥ २९९॥ सुवर्णमासन् रुचकानि पूर्वं तदेव मध्येऽपि तदेव चान्ते । सत्यं सुवर्णं रुचकान्यपेक्ष्य विनश्वरत्वाद्रुचकानि मिथ्या ॥ ३००॥ अनित्यतैवात्र मृषात्वलिङ्गं सत्यत्वमुक्तं खलु नित्यतैव । अतोऽज्ञता तज्जमिदं च विश्वं रज्ज्वामहिर्यद्वदसत्यमेव ॥ ३०१॥ पटे प्रकाशेन युते यथा वा मृषैव चित्राण्यचले चलन्ति । तद्वज्जगच्चित्रततिश्च सेय- मायाति संयाति मृषैव सत्ये ॥ ३०२॥ द्रष्टा चलच्चित्रततेर्विभिन्नो द्रष्टा जगच्चित्रततावभिन्नः । विशेष एवं जगतोऽस्ति यस्मात् सद्रष्टृकस्यास्य मृषात्वसिद्धिः ॥ ३०३॥ यथा चलच्चित्रततेर्विरामे पटप्रकाशोऽस्ति विशुद्ध एवम् । मृषा जगच्चित्रततेर्विरामे शिष्येत शुद्धा चितिरात्मरूपा ॥ ३०४॥ प्रतिक्षणं नूतनमेव चित्रं वीक्ष्यापि सर्वं मनुते यथैकम् । तथैकमज्ञो मनुते हि वीक्ष्य प्रतिक्षणं नूतनमेव विश्वम् ॥ ३०५॥ आधारवस्त्रेऽपि तदीयभासा यथा चलच्चित्रततिर्विभाति । एवं प्रपञ्चोऽपि सदात्मरूपे तदीयसंवित्प्रभयैव भाति ॥ ३०६॥ आत्मा स्वतः सन्नत एव हेतो- र्नैव स्वतः सत्यमिदं हि विश्वम् । विज्ञेयमेवं जगतो मृषात्वं सत्ताऽऽत्मनश्चापि चिदात्मकस्य ॥ ३०७॥ देशेन कालेन विभक्तमेव स्वप्ने मनो जागरिते समानम् । अवैति देहादिसमस्तदृश्य- मतो विचार्याऽस्त्यनयोश्च सत्ता ॥ ३०८॥ त्रयं मनोमात्रमिदं प्रदिष्टं देशोऽपि कालोऽपि निमित्तयोगः । पाश्चात्यदेशीयविपश्चिताऽस्ति कान्ताभिधानेन सुयुक्तिवादैः ॥ ३०९॥ सर्वानुभूत्याऽपि सुषुप्तिभावे बुद्धानुभूत्याऽपि तुरीयभावे । मृषात्वमेतत् प्रकटीकरोति स्फुटं मुमुक्षोर्भगवान् गुरुर्नः ॥ ३१०॥ सुषुप्तिभावे मनसि प्रलीने तुरीयभावे मनसि प्रणष्टे । न कोऽपि जानाति हि देशकालौ मनोमयं तद्द्वितयं हि तस्मात् ॥ ३११॥ मनः सविश्वं सृजति द्वयं च स्वप्ने यथा जागरिते तथैव । ताभ्यां विना वेत्ति मनो न किञ्चि- देष स्वभावो मनसो हि नित्यः ॥ ३१२॥ देहोऽहमित्यज्ञतयैव मर्त्यो देशेऽपि कालेऽस्म्यहमित्यवैति । देशे भवामो न हि नापि काले देहा वयं चेदुभयोर्भवेम ॥ ३१३॥ देहा वयं नो न च देहिनो वा जीवा वयं नैव कदाऽप्यभूम । अस्मासु तौ द्वौ मनसोपक्लृप्तौ ह्यविद्यया यद्वदिदं समस्तम् ॥ ३१४॥ मनोऽहमो जन्मभुवं विमृग्य लभेत शान्तिं यदि तुर्यभावे । तदा निगीर्येत सदात्मनैव सहाहमा तद्द्वितयं सविश्वम् ॥ ३१५॥ मायामयं कारणकार्यरूपं सदेशकालं बत विश्वमेतत् । न विक्रियामेति कदाचिदात्मा देशेन कालेन निमित्ततो वा ॥ ३१६॥ सदैकधैवाच्युत एक आत्मा कालातिगो देशविवर्जितश्च । पूर्णः प्रबुद्धैरनुभूयते यत् स एव सत्यो न तु किञ्चिदन्यत् ॥ ३१७॥ भूतोऽपि भावी च भवन्नितीमे कालस्य भेदा अपि नैव सत्याः । भूतोऽपि भावी भवदाश्रयौ च भवन् स्वकाले भवतो ह्युभौ च ॥ ३१८॥ अतो भवन्नेव समस्तकालो वाचैव कुर्वन्ति विभागमेवम् । आत्मस्वरूपं खलु नित्यसत्य- मतो भवन्नाम तदेव नान्यत् ॥ ३१९॥ इच्छेदतस्तत्त्वममुष्य बोद्धुं तुरीयभावाधिगमेन साधुः । चर्चेह भूतस्य च भाविनोऽपि विनैकसङ्ख्यां गणनेति दिष्टा ॥ ३२०॥ अस्त्येकसङ्ख्यैव न काचिदन्या सङ्ख्याः समस्ताश्च तदात्मिका हि , अस्त्येवमात्माकृतिका चिदेव तदात्मकं सर्वमिदं च विश्वम् ॥ ३२१॥ यथैकसङ्ख्यामवगम्य सम्यक् सङ्ख्यां समस्तामवगन्तुमीष्टे । ज्ञात्वैवमेकं निजतत्त्वमेव जानन्ति बुद्धा जगतोऽपि तत्त्वम् ॥ ३२२॥ बोधः स्वतोऽन्यस्य विना स्वबोध- मबोध एवेति गुरुर्ब्रवीति । स्वस्मिन्नबुद्धे सति वेत्ति यद्यत् तत्तद्विजानात्ययथावदेव ॥ ३२३॥ स्वस्मिन् विबुद्धे निजमार्गणेन बोद्धुं स्वतोऽन्यन्न हि किञ्चिदस्ति । बुद्धस्य भात्यात्मतयैव सर्व- मात्मा ततः सर्व इति प्रसिद्धः ॥ ३२४॥ सत्यात्मभावे स्थितिमेव तस्मात् सर्वज्ञतां श्रीरमणो ब्रवीति । सर्वज्ञतां यां गणयन्त्यबुद्धाः सैषाज्ञतैवेत्यपि वक्ति सोऽयम् ॥ ३२५॥ नेदं शरीरात् पृथगस्ति विश्वं नेदं शरीरं मनसोऽस्ति भिन्नम् । सत्यात्मनो नास्ति मनो विभिन्न- मात्मैव तस्मादखिलं च विश्वम् ॥ ३२६॥ अहं पुरा जन्मनि कीदृगास- मितः परं चापि कथं भवेयम् । ईदृग्विचारा बत मुग्धतैव न जन्म लेभे हि कदाचिदात्मा ॥ ३२७॥ व्यष्टेः समष्टेरपि चिन्तनानि निरर्थकान्येव मुमुक्षुपुंसाम् । चिन्ताः समस्ताः प्रभवन्ति यस्य तन्मूलचिन्तैव हि मुक्तिदात्री ॥ ३२८॥ प्रश्नाः क्रियन्तेऽत्र मुधैव मर्त्यैः सृष्टं जगत् केन कथं च पूर्वम् । का नाम माया कथमाऽप्यविद्या कथं न्वभूज्जीव इति प्रमादात् ॥ ३२९॥ दृष्टेर्न सृष्टिः पृथगस्ति काचिद् दृष्टिश्च सृष्टिर्द्वयमेकमेव । सा दृष्टिरज्ञानमयीति हेतो- स्तस्याः प्रहाणं निधनं हि सत्यम् ॥ ३३०॥ मायाभिधाना परशक्तिरेव मनस्सु बुद्धीन्द्रियबोधरूपम् । विचित्रमेतं सृजति प्रपञ्चं स सत्यवद् गृह्यत एव मुग्धैः ॥ ३३१॥ सद्वद्विचारेण मृषात्मकस्य सत्यात् प्रमादो भविता ध्रुवं हि । न च प्रमादादपरोऽस्ति मृत्युः स्वो नष्टकल्पोऽस्ति हि तेन साधोः ॥ ३३२॥ अस्मिन्नवेदीद्यदि जन्मनि स्वं तदैव सत्यं पुरुषस्य सत्यम् । न चेदवेदीदिह जन्मनि स्वं तस्यावृतं स्यादनृतेन सत्यम् ॥ ३३३॥ तद्देशकालवनृतौ विदित्वा विहाय विश्वं च समस्तमेव । इच्छेदधिष्ठानसदेव बोद्धुं स्वात्मस्वरूपं निजमार्गणेन ॥ ३३४॥ कर्ताऽस्म्यहं कर्मफलस्य भोक्ते- त्येवं नरो यो मनुते स एव । धीदैवयोर्भेदमवैति सत्यं कर्ताऽपि भोक्ता न तु सत्य आत्मा ॥ ३३५॥ इष्टं यदा कर्मफलं तदानीं बलीयसीं बुद्धिमवैति दैवात् । यद्यन्यथा कर्मफलं भवेत्तु दैवं बलीयो मनुते तदानीम् ॥ ३३६॥ दैवं भवेत् पूर्वकृतं हि कर्म धिया कृतं कर्म समस्तमेव । धीदैवयोर्द्वन्द्वमतो मृषैव तयोर्विरोधः कथमस्तु सत्यः ॥ ३३७॥ धीदैवयोर्मूलमहङ्कृतिर्यत् स्वान्वेषणात् सा यदि नाशमीयात् । धीदैवयोर्द्वन्द्वमिदं विनश्ये- न्न वेत्ति धीदैवभिदं प्रबुद्धः ॥ ३३८॥ बुद्धोऽमनस्को गलिताभिमानः सङ्कल्पशून्योऽपि भवेन्न कर्ता । भोक्ताऽपि नासौ भविता कदाऽपि न वेत्ति धीदैवभिदामतोऽसौ ॥ ३३९॥ स्वोऽबुद्धमर्त्यस्य च नित्यबुद्धो न सज्जते कर्मसु नैति मोहम् । तत्सन्निधानेन तु लब्धसञ्ज्ञा प्रवर्तते धीः स्वगुणानुरूपम् ॥ ३४० ,, चिन्तामतो दैवधियोर्विहाय सांसारिकीं चापि समस्तचिन्ताम् । ब्रह्मात्मकं केवलमात्मतत्त्वं यतेत बोद्धुं निजमार्गणेन ॥ ३४१॥ जीवाभिधानो जगदीक्षको य- स्तस्मिन्निगूढं जगतोऽस्य तत्त्वम् । उदेत्ययं चेदुदियाच्च विश्वं लीयेत विश्वं लयमेत्ययं चेत् ॥ ३४२॥ तत्तत्त्वमस्यैव निजानुभूत्या जानन् प्रबुद्धः समवैति विश्वम् । अन्ये तु देहात्मधियाऽभिभूता विश्वं विजानन्त्ययथावदेव ॥ ३४३॥ जीवोऽज्ञतायाः प्रथमं स्वरूपं जीवोऽङ्कुरः संसृतिदुर्द्रुमस्य । विभूतिरस्यैव जगत् समस्तं नाशोऽन्ततश्चास्य विमुक्ति भावः ॥ ३४४॥ तमेनमर्थं सुगतो गुरुश्चा- प्यूचे तथा शङ्करदेशिकेन्द्रः । ब्रूतेऽपि चास्मद्गुरुरर्थमेनं वेदान्तसारोऽप्ययमर्थ एव ॥ ३४५॥ विश्वं स्वदृश्यं न विना कदाऽपि द्रष्टाऽस्य जीवो भवति प्रतीतः । जीवो न कोऽप्यस्ति सुषुप्तिभावे मनोमनोऽयं हि यथाऽस्य दृश्यम् ॥ ३४६॥ सहैव देहेन भवेत् प्रतीतो जीवाभिधोऽयं खलु सर्वदाऽपि । मृतौ च देहस्य न पूर्वदेहं जहात्यनादाय हि देहमन्यम् ॥ ३४७ । जीवोऽयमेवं वपुषोऽपृथक्त्वा- दन्तर्भवत्येव जगत्स्वरूपे । नित्यत्वमस्यैव तु कल्पयन्ति शिष्या अबुद्धस्य गुरोरबुद्धाः ॥ ३४८॥ विना विचारं बत जीवमेनं देहीति चात्मेत्यपि मन्यमानाः । संसारिताद्यानपि चास्य धर्मा- नारोपयन्त्यात्मनि नित्यमुक्ते ॥ ३४९॥ अतो मतानि प्रभवन्ति नाना सत्यात्मनः सर्वमतातिगस्य । बद्धं तमेनं बत मन्यमाना- श्चरन्त्यनेकानपि योगमार्गान् ॥ ३५०॥ कर्तृत्वभोक्तृत्वशरीरिताद्याः संसारिता चाप्युत जीवधर्माः । धर्मा न ते शुद्धचिदात्मकस्य सत्यात्मनः सङ्गविवर्जितस्य ॥ ३५१॥ स्वं जीवभूतं बत मन्यते यो देहात्मभावो न हि तस्य नष्टः । बोधात्मतां स्वस्य न बुध्यते य- स्तस्यानिवार्यो वपुरात्मभावः ॥ ३५२॥ आत्मा सुषुप्तो च सुखस्वरूपो लोकैः समस्तैरनुभूयते यत् । देहात् पृथक् स्वो भवतीति बोद्धुं शक्नोति धीमान् खलु सूक्ष्मबुद्ध्या ॥ ३५३॥ नाङ्गीकरोति ह्यत एव धीमान् देहात्मतां स्वस्य विचारणायाम् । तथाऽप्यविज्ञातनिजस्वरूपो भूयोऽपि देहात्ममतिं करोति ॥ ३५४॥ यावन्न जीवत्वमतिव्यपैति देहात्मधीर्नैव विनाशमीयात् । नश्येत्तु सा तुर्यपदस्व लाभा- द्यत्रानुभूयेत परं स्वतत्त्वम् ॥ ३५५॥ जानाति यः स्वं परमद्वितीयं तुरीयभावे स्थितिमेत्य नित्याम् । न तस्य जीवोऽहमिति प्रतीतिः स एव देहात्मधिया विमुक्तः ॥ ३५६॥ देहात्मभावं मन आत्मभावं जीवात्मभावं च मृषेति बुद्ध्वा । बोधात्मतां स्वामवगन्तुमिच्छन् यतेत साधू रमणोक्तरीत्या ॥ ३५७॥ विचार्यमाणे सति जीवतत्त्वे बुद्धोपदेशैः परिशुद्धबुद्ध्या । आविद्यकोऽयं बत जीवनामा न तत्त्वतोऽस्तीति सुबोधमेव ॥ ३५८॥ मन्यन्त आत्मद्वितयं च केचिद् भेदेन जीवात्मपरात्मनश्च । जीवस्य चात्मेति परं वदन्ति जीवः शरीरं परमस्य चेति ॥ ३५९॥ जीवात्मतैवं चलमध्रुवं य- दात्मा यथार्थः पर एव नान्यः । जीवाभिधोऽसन् पर एव सत्य इत्युच्यतेऽस्मद्गुरुणा स्फुटं च ॥ ३६०॥ मृषात्ववाची खलु जीवशब्दः सत्यत्ववाची परशब्द एव । जीवो मृषेत्येवमवेत्य साधु- र्जीवात्मभावं प्रयतेत हातुम् ॥ ३६१॥ जैवेन रूपेण तमेव देहे- ष्वनुप्रविष्टं श्रुतयो वदन्ति । अतो न जीवोऽस्ति पृथक् परस्मा- दित्येवमर्थो भवति स्फुटं नः ॥ ३६२॥ उदेति जीवो न विलीयते च सत्यात्मनो नैव लयोदयौ स्तः । जीवा अनेके च स एक एव सत्येवमात्मा कथमस्तु जीवः ॥ ३६३॥ विशुद्धचिन्मात्रतया स्वतः सन् न लीयते स्वो हि सुषुप्तिभावे । असन् स्वतोऽज्ञानसमुत्थितोऽयं प्रयाति जीवस्तु लयं सुषुप्तौ ॥ ३६४॥ सुषुप्तिभावे सुखरूपको यो लोकैः समस्तैरनुभूयते च । तुरीयभावे परिशिष्यते च शुद्धोऽद्वयः सन् स हि सत्य आत्मा ॥ ३६५॥ सुषुप्तिभावेऽप्यहमि प्रलीने तुरीयभावेऽप्यहमि प्रणष्टे । विभात्यविच्छिन्नतयेत्यसौ स्वो निगद्यतेऽहम्पदलक्षितार्थः ॥ ३६६॥ ब्रह्मात्मकोऽसावहमित्यजस्रं स्वयं विभात्यात्मतया हृदन्तः । वपुर्मितं जीवमिमं तु तस्मिन् पूर्णे परेऽध्यस्यति हन्त मोहात् ॥ ३६७॥ अस्मीति बोधं न रुणद्ध्यविद्या बोधोऽहमस्मीति तु बोधमेव । जानाति सर्वोऽपि हि नैजसत्तां जानाति न स्वं निरुपाधिकं तत् ॥ ३६८॥ नाहन्तयोदेति चिदात्मकः स्वो जडो न देहोऽहमिति ब्रवीति । मध्ये तयोः कश्चिदुदेत्यबोधे वपुः प्रमाणस्त्वहमित्यसत्यः ॥ ३६९॥ अहंस्वरूपा चितिरात्मनो या जडं वपुश्चेत्युभयोश्च योगात् । उदेति देहोऽहमिति प्रतीतिः प्रतीतिरेषैव हि जीवरूपम् ॥ ३७०॥ देहात्मनोरेकतयाऽवगत्या प्रतीयते सत्यवदेष यस्मात् । तच्चिज्जडग्रन्थिरिति प्रथाऽस्य भवत्यविद्यापरिकल्पितस्य ॥ ३७१॥ जडेन देहेन कदाऽपि सङ्गः सत्यात्मनो नास्ति यथार्थतस्तु । नैवोदभूत् कश्चन जीवनामा नैवाप जीवत्वमसौ च पूर्णः ॥ ३७२॥ स्वयम्प्रकाशं निरपेक्षमेकं चैतन्यमात्माकृतिकं हि सत्यम् । चैतन्यमन्यन्न हि किञ्चि- दस्तीत्यचित्स्वरूपः खलु जीव एषः ॥ ३७३॥ प्रतीयते चेतनवत्तु जीव आत्मस्वरूपस्य चिदंशयोगात् । अतो हि वेदान्तिन आहुरेनं जीवं चिदाभासमसत्स्वरूपम् ॥ ३७४॥ स्वयं समागत्य यथा विवाहे वदन् वरस्यास्मि सखेति मिथ्या । वधूगृहिभ्यो लभते सपर्यां जीवोऽयमङ्गीक्रियते तयाऽज्ञैः ॥ ३७५॥ कोऽयं कुतो वेति विचार्यमाणो वधूगृहिभ्यः स्वयमेष धावेत् । धावेत् तथैव स्वयमेष जीवः कोऽयं कुतो वेति विचार्यमाणः ॥ ३७६॥ न रूपमस्यास्ति यथार्थतो यत् पिशाचवद् देहगृहे स्थितस्य । तद् देहरक्षार्थमयं नियुक्तः पिशाच एवेति गुरुर्ब्रवीति ॥ ३७७॥ न शिष्यते किञ्चन रूपमस्य तुरीयभावाधिगमे गवेषात् । एवं प्रबुद्धो भगवान् गुरुर्नो मृषात्वमस्य प्रकटीकरोति ॥ ३७८॥ आद्या मनोवृत्तिरियं ह्यहन्धी- रतोऽन्यधीवृत्तय उद्भवन्ति । अतो मनः सूक्ष्मवपुः प्रपञ्चो भवोऽपि बन्धोऽप्यमेव नान्यत् ॥ ३७९॥ बन्धोऽपि बद्धोऽप्ययमेक एव बद्धोऽस्ति नास्मादितरोऽत्र कश्चित् । स्वो नित्यमुक्तप्रकृतिर्हि सत्यः स बन्धमापेति कथं नु वाच्यम् ॥ ३८०॥ अस्मिन्नहन्नामनि जातमात्रे सञ्जायते विश्वमिदं सहैव । अस्मिन् विलीने लयमेति विश्वं तद्विश्वमस्यैव हि रूपमुक्तम् ॥ ३८१॥ नित्यापरोक्षोऽपि सदैव पुंस आत्मा महान् प्रेष्ठ उरुप्रकाशः । दुरात्मनाऽहङ्कृतिरूपकेण हृतप्रभो यद्वदलं न भाति ॥ ३८२॥ आच्छादयत्येष मृषात्मकोऽपि सत्यात्मरूपं खलु जीवनामा । अतोऽज्ञपुंसा बहुभिर्विकल्पै- र्विकल्पितः स्वोऽस्ति हि नष्टकल्पः ॥ ३८३॥ भानुप्रभासञ्जनिताभ्रपङ्क्ति- स्तिरोदधात्येव हि भानुरूपम् । तिरोदधात्येव तथाऽऽत्मरूपं तस्यैव संवित्प्रभयोदितोऽयम् ॥ ३८४॥ किं तेन चोरेण कृतं न पाप- मात्मापहर्त्रेत्यपि वेदवाणी । निन्दत्यहन्धीमुषितात्मतत्त्वं पापेन तेनैव च दूयमानम् ॥ ३८५॥ यदादिमं पापमूदीरयन्ति क्रीस्तानुगा मृत्युकरं नराणाम् । कर्माद्यपुंसो न हि तत् परं तु वपुष्यहन्तेति गुरुर्ब्रवीति ॥ ३८६॥ इदं नरस्यैव हि पापमुक्तं न ह्यस्ति पुंसां नरता सुषुप्तौ । देहात्ममत्यैव नरत्वधीर्यत् देहात्मधीरेव हि पापमाद्यम् ॥ ३८७॥ नष्टिः समस्ताऽप्यगुणः समस्तो दुःखं समस्तं च वपुष्यहन्धीः । लाभः समस्तोऽपि गुणः समस्तः सुखं समस्तं च तदीयनाशः ॥ ३८८॥ आत्माऽज्ञपुंसोऽप्यहमा विनष्टो लब्ध्वाऽपि सर्वं कृपणो हि सोऽयम् । स्वमेव लब्ध्वा त्वहमो विनाशा- ल्लब्धव्यमन्यन्न हि वीक्षते ज्ञः ॥ ३८९॥ सत्यं शरीरं बत मन्यमाना आत्मेति मत्वाऽप्युत जीवमेव । वेदान्तवाक्यानयथावदेव बुद्ध्वाऽऽत्मनानात्वमुदीरयन्ति ॥ ३९०॥ यद्येक आत्मा द्विविधोऽस्ति दोष एकस्य मुक्तौ सकलस्य मुक्तिः । मुच्येत नो कोऽप्यथवेति मुग्धा मुधा वदन्त्यश्रुततुर्यतत्त्वाः ॥ ३९१॥ जीवा भवेऽस्मिन् बहवो भवन्तु सत्यात्मनो नैव बहुत्वमिष्टम् । नाना मृषैवाप्युत जीवरूप- मेकं च सत्यं शिवमात्मरूपम् ॥ ३९२॥ अंशां न सत्या हि चितः परस्य अविद्ययाऽंशाः परिकल्पिता हि । पदे तुरीये विदुषो विभाति पूर्णाऽविभक्ता च निरंशका सा ॥ ३९३॥ चिदेकका सर्वगता समा च तस्या विभागो विषमोऽज्ञतैव । देशो न सत्यो ह्यत एव तस्याः समो विभागोऽपि च नास्ति सत्यः ॥ ३९४॥ विस्पष्टमेवं गुरुणोपदिष्टा चितः परस्या अविभक्ततैव । मुह्यन्त्वबुद्धस्य गुरोस्तु शिष्या अस्माकमत्रास्तु कथं नु मोहः ॥ ३९५॥ सिद्धे मृषात्वे सति जीवनाम्न- श्चिन्त्ये कथं बन्धविमोचनेऽस्य । न बन्धमुक्ती भवतोऽच्युतस्य पूर्णस्य सत्यात्मन एककस्य ॥ ३९६॥ देहस्य दिक्कालमितस्य चास्य तयोरतीतस्य चिदात्मनश्च । परस्पराध्यासकृताविवेकात् प्रतीयते सत्यवदेष जीवः ॥ ३९७॥ क्वचिच्छरीरेऽहमिति प्रतीत्या तत्सत्यमेवेत्यपि निश्चयेन । पश्यन्ननेकानि वपूंशि सद्व- ज्जीवान् पृथक् पश्यति तत्र तत्र ॥ ३९८॥ एकः शरीरेष्वनृतेषु सत्यो विभक्तवद्भात्यविभक्त आत्मा । पूर्णं तमात्मानमरूपमज्ञो मत्वा सरूपं समवैत्यनेकम् ॥ ३९९॥ प्रतिक्षणं नूतनमेव चित्रं पश्यन् यथैकं मनुते तथैव । प्रतिक्षणं वीक्ष्य नवं शरीरं तत्सर्वमेकं मनुतेऽज्ञमर्त्यः ॥ ४००॥ एवं सदा नूतन एव देहे जीवं नवं कल्पयतेऽस्य चित्तम् । अतो हि बुद्धा निगदन्ति जीवं तमेनमेव क्षणिकं च मिथ्या ॥ ४०१॥ देहोऽहमित्युत्तमपूरुषं च देहान्तरे मध्यमपूरुषं च । अन्यत्र देहे प्रथमं पुमांसं पश्यत्यविज्ञातनिजस्वरूपः ॥ ४०२॥ भिन्नास्त्रिधैवं पुरुषा न सत्या देहोऽहमित्यज्ञतया प्रतीताः । नष्टेऽहमि स्वात्मगवेषणेन चिद्रूप आत्मैकक एव भायात् ॥ ४०३॥ प्रत्येति यः स्वं बत जीवभूतं जीवा अनेके विलसन्ति तस्य । एवंविधा ज्ञानविवर्जितस्य भायान्न बुद्धस्य तु कोऽपि जीवः ॥ ४०४॥ स्त्रियः पुमांसो बहवश्चरन्ति पटप्रकाशे खलु चित्रमात्राः । एवं चरन्त्यात्मनि चित्स्वरूपे जीवा अनेके बत चित्तमात्राः ॥ ४०५॥ पटप्रकाशोपममात्मतत्त्वं चित्रोपमा एव भवन्ति जीवाः । आत्माद्वयत्वं परमार्थमेवं न बाध्यते जीवबहुत्वभानात् ॥ ४०६॥ आत्मेति जीवस्य विनिश्चयेन प्रत्येति नानात्वमिहात्मनां च । सत्यं तु नात्मानमवैति पूर्णं मुह्यत्यतो भेदधियाऽपकृष्टः ॥ ४०७॥ यथा शरावेषु पृथग् जलेषु विभान्त्यनेके प्रतिबिम्बचन्द्राः । तथैव देहेषु मनस्सु भान्ति जीवा अनेके प्रतिबिम्बमात्राः ॥ ४०८॥ यथार्थ चन्द्रो भविता यथैक आत्मा यथार्थोऽपि तथैक एव । यथा च नाना प्रतिबिम्बचन्द्राः विभान्ति नानेव तथैव जीवाः ॥ ४०९॥ पृथग् जलेन्दोर्निधने विभान्ति यथैव पूर्वं हि जलेन्दवोऽन्ये । पृथक् चिदाभासमृतौ तथान्ये पूर्वं यथा भान्ति मृषैव सन्तः ॥ ४१०॥ यो यो विजानाति निजं स्वरूपं तस्मै भवोऽयं विरतिं प्रयाति । अन्ये यथापूर्वमिह भ्रमन्ति यावद्विजानन्ति निजं न तत्त्वम् ॥ ४११॥ एषोपमा मन्दमतिभ्य उक्ता तेषां मृषाज्ञानमनूद्य बुद्धैः । जीवो मृषैवेत्यवयन्ति ये तु निरर्थकोऽयं भविता विवादः ॥ ४१२॥ स्वप्ने यथा मानसमोहजाता जीवा अनेके विलसन्ति सद्वत् । तथाऽज्ञपुंसां विलसन्त्यनेके जीवा इमे जागरितेऽप्यसन्तः ॥ ४१३॥ स्वानां बहुत्वं वदतां प्रमाणं निरस्तदोषं न हि किञ्चिदस्ति । आत्माद्वयत्वेऽस्त्युभयं प्रमाणं बुद्धानुभूतिश्च तदुक्तयुक्तिः ॥ ४१४॥ अहंस्वरूपेण सदैकधाऽन्त- रात्मा शरीरेषु विभाति यस्मात् । तत् सर्वदेहेषु स एक एवे- त्यस्मद्गुरुः श्रीरमणो ब्रवीति ॥ ४१५॥ ध्येया सदैवाद्वयता प्रयत्नाद् वर्तेत नाद्वैतधिया क्रियासु । मन्येत लोकत्रितयेऽद्वयत्वं मन्वीत नैवं गुरुणा तु साकम् ॥ ४१६॥ यथाऽज्ञपुंसां भुवनं विभाति भायात् तथेदं विदुषः कथं नु । येन प्रकारेण विभाति विश्वं बुद्धस्य तं चापि गुरुर्ब्रवीति ॥ ४१७॥ ईशोऽपि जीवा जडवस्तुजात- मिति प्रतीतं जगदज्ञमर्त्यैः । बुद्धस्य भात्यात्मतया समस्तं ह्यारोपितांशप्रविलापनेन ॥ ४१८॥ तत् तुर्यनिष्ठां सहजामवाप्य जीवन् विमुक्तो विनिवृत्तमोहः । नात्मेतरत् किञ्चन वीक्षते यत् किमप्यसत् तस्य भवेत् कथं नु ॥ ४१९॥ तत् स्वम् शरीरं भुवनं च सत्यं वदेत् प्रबुद्धोऽपि च यद्वदज्ञः । भावे द्वयोरस्ति महांस्तु भेदो नारोपितांशो विदुषो हि भाति ॥ ४२०॥ मुमुक्षुपुंसे हि विवेकदृष्टि- र्विधीयते नैव विमुक्तपुंसः । भवेन्मुमुक्षोरविवेकदृष्टि- र्न सम्भवेत् सा खलु बुद्धपुंसः ॥ ४२१॥ देहात्ममत्याऽज्ञजनः सरूपं वपुर्मितं चापि हि मन्यते स्वम् । ज्ञो वेत्त्यनन्तं स्वमरूपमेकं भावे भिदैवं भवति द्वयोश्च ॥ ४२२॥ शरीरमित्यज्ञजनेक्षितं यद् बुद्धस्य भात्यत्मतयैव तद्धि । तदेव बुद्धोऽहमिति ब्रवीति ह्युपेक्ष्य बोधेन शरीररूपम् ॥ ४२३॥ सत्यं प्रपञ्चं वदतोर्द्वयोश्च वाक्ये समानेऽपि भिदाऽस्ति भावे । अज्ञस्य भेदैर्हि निमीलितं सत् सत्यं यथावद्विदुषस्य भाति ॥ ४२४॥ आधारसत्यं जगतोऽविदित्वा समीक्ष्य चारोपितवस्तुजातम् । मन्वान एतत् स्वत एव सत्यं ब्रवीति सत्यं जगदित्यविद्वान् ॥ ४२५॥ विभात्यधिष्ठानसदेव शुद्ध- मनामरूपं विदुषो हि साक्षात् । नारोपितं भाति हि तस्य सद्वत् वदेन्मृषा विश्वमसौ कथं नु ॥ ४२६॥ आच्छादकं विश्वमिदं परस्य स्वाज्ञानसन्दूषितलोचनस्य । आच्छाद्यते तेन सता परेण स्वज्ञानसंशोधितलोचनस्य ॥ ४२७॥ तत्त्वं विजानन् मृगतृष्णिकाया भूयो यथा पश्यति ताममूढः । पश्यंस्तथा विश्वमिदं प्रबुद्धो न मन्यते सत्यमिदं यथाऽज्ञः ॥ ४२८॥ विश्वं यथाऽज्ञैः सदिति प्रतीतं नैवं हि सत्यं तदिदं कथञ्चित् । सत्यं यथेदं विदुषो विभाति जनन्त्यबुद्धा न हि तं प्रकारम् ॥ ४२९॥ यदज्ञपुंसां बहुभेदभिन्नं सरूपकं स्वान्यदिवावभाति । तदेतदात्मैव हि बुद्धपुंसो निरस्तभेदोऽप्युत रूपहीनः ॥ ४३०॥ अत्यन्तमिथ्या न हि विश्वमुक्तं नेदं नराश्वादिविषाणतुल्यम् । अत्यन्तमिथ्या यदि नैव भायाद् भाति त्वधिष्ठानसदंशयोगात् ॥ ४३१॥ मिथ्या ह्यधिष्ठानसता विहीनं वन्ध्यासुताद्यं न विभाति किञ्चित् । मिथ्य त्वधिष्ठानसति प्रतीतं रज्ज्वां यथाऽहिः सदिवावभाति ॥ ४३२॥ सत्ताऽप्यसत्ताऽप्युभयं च वाच्यं विश्वस्य नास्त्यत्र विरोधलेशः । सत्ताऽस्त्यधिष्ठानसदंशयोगा- न्मिथ्यात्वमारोपितनामरूपैः ॥ ४३३॥ सत्यत्वमङ्गीकृतमेवमस्य किं त्वेतदस्तीत्युचितं न वक्तुम् । सत्तास्तिते द्वे भवतो विभिन्ने तदुच्यतेऽस्तीति यत् स्वतः सत् ॥ ४३४॥ वदन्ति विश्वं व्यवहारसत्यं प्रातीतिकं स्वप्नसमीक्षितं च । ब्रह्माद्वितीयं परमार्थसत्यं मुधा विकल्पास्त इमे हि भेदाः ॥ ४३५॥ एकस्वरूपैव हि सत्यताऽस्ति न सन्ति भेदाः खलु सत्यतायाम् । अतो ह्यसत्यं द्वितयं समानं स्वप्नेक्षितं जागरितेक्षितं च ॥ ४३६॥ विश्वस्य मिथ्यात्वमिहोपदिष्टं स्वान्वेषणात् तुर्यपदस्यलिप्सोः । सत्यं प्रपञ्चं बत मन्यमानो विद्यात् कथं स्वं परमार्थसत्यम् ॥ ४३७॥ यत् सत्यवत् स्यादनृतस्य भानं ज्ञानेन तस्यस्ति विराम एव । संविद्धिवस्वान् खलु सत्य आत्मा तत्सन्निधाने कथमस्त्वविद्या ॥ ४३८॥ अस्त्यज्ञता चेदथ कस्य सेति प्रश्नोऽत्र जागर्ति हि साधकस्य । तेनात्मतत्त्वं परिमृग्यते चे- दज्ञोऽज्ञता द्वे व्रजतो विनाशम् ॥ ४३९॥ अज्ञानमङ्गीक्रियतेऽत्र शास्त्रे जीवाभिधस्यैव हि कल्पितस्य । नैवात्मनोऽङ्गीकृतमेतदस्ति स नित्यबुद्धप्रकृतिर्हि तुर्यः ॥ ४४०॥ सम्बध्यते नैव सहानृतेन द्वैतप्रपञ्चेन कदाचिदात्मा । देशेन कालेन निमित्ततो वा यथेह रज्जुर्भुजगेन साकम् ॥ ४४१॥ उक्ता जगत्कारणता परस्य भवत्यसत्यैव हि तत्त्वदृष्ट्या । परस्य शक्तिस्त्रिगुणात्मिका या मायाभिधा कारणमुच्यते सा ॥ ४४२॥ द्वे ब्रह्मणी हि श्रुतिषु प्रसिद्धे निर्बीजकं चापि सबीजकं च । निर्बीजकं ब्रह्म तुरीयसञ्ज्ञं सबीजकं शक्तिमदीशरूपम् ॥ ४४३॥ स्वभावतो निश्चल एक आत्मा नृत्यं करोतीव तयाऽऽत्मशक्त्या । लीना यदा सा त्वचलस्वरूपे भायादसौ निश्चल एककः सन् ॥ ४४४॥ मायेयमुक्ता व्यवहारदृष्ट्या मिथ्याजगत्कारणपृच्छकानाम् । मायाऽपि तत्कार्यमिदं जगच्च द्वयं च मिथ्या परमार्थदृष्ट्या ॥ ४४५॥ का नाम माया कतमाऽस्त्यविद्या सृष्टं जगत्केन कथं च पूर्वम् । कथं न्वभूज्जीव इति स्म मोहात् प्रश्नाः क्रियन्तेऽत्र मुधैव मर्त्यैः ॥ ४४६॥ मायेदृशी यन्निधनान्मुमुक्षु- र्लभेत निष्ठां निजसत्स्वरूपे । न वेत्ति बुद्धोऽपि तदीयरूपं सा प्रेक्ष्यमाणैव हि नाशमेति ॥ ४४७॥ Quote - Yoga Vasishtha ईदृशी राम मायेयं या स्वनाशेन हर्षदा । न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥ मनस्तया ब्रह्म न पर्यणंसीत् जगत्तया ब्रह्म न प्रयणंसीत् । ब्रह्मास्ति नैजामलचित्स्वरूपा- दप्रच्युतं कालदिगाद्यतीतम् ॥ ४४८॥ नाभूज्जगन्न प्रलयं व्रजेद्वा नैवोदभूत् कश्चन जीवनामा । न बद्धमुक्तौ न च साधको वा सर्वोत्तमं सत्यमिदं निरुक्तम् ॥ ४४९॥ यथा चलच्चित्रतिप्रसृत्या नाधारवस्त्रं भजते विकारम् । न विक्रियामेति तथा परात्मा प्रतीयमाने सति च प्रपञ्चे ॥ ४५०॥ श्रीशङ्कराचार्यवरेण सोऽयं सिद्धान्त उक्तोऽस्त्यसकृत् स्फुटं च । अनेकधा स्पष्टमिमं ब्रवीति बुद्धो गुरुः श्रीरमणोऽपि साधोः ॥ ४५१॥ उक्तं हि नेतास्ति तुरीयमेव सत्यं तदन्यत् त्रितयं मृषेति । उक्तं च सत्यस्य सदाद्वयत्वं द्वैतं च नित्यं च मृषात्वमेव ॥ ४५२॥ न किञ्चनेह त्वदृतेऽस्ति सत्यं त्वमेककः कालदिगाद्यतीतः । अपास्य मिथ्याभ्रममास्स्व शान्त इत्यात्मनिष्ठा गदिताऽस्ति तेन ॥ ४५३॥ मत्स्थानि भूतानि न तत्त्वदृष्ट्या मदीयमायैव समस्तमेतत् । इत्यात्मनोऽजातिमुवाच सत्यां गीतासु कृष्णो भगवान् स्वयं च ॥ ४५४॥ पूर्णात्मतां स्वामजहत् परं सत् स्वमायया पूर्णमिदं बभूव । बुद्धस्य पूर्णात्मतयैव भाती- त्यजातिरुक्ता श्रुतिशीर्षवाचा ॥ ४५५॥ विस्मृत्य यत् स्वं वपुरात्ममत्या भ्रान्त्वाऽप्यसङ्ख्येषु भवेषु चान्ते । स्वतत्त्वबोधात् भवति स्व एव स स्वप्नलोकाटनतः प्रबोधः ॥ ४५६॥ यथा मनुष्यो मधुपानमत्तः कोऽहं नु कुत्राहमिति पपृच्छन् । आत्मैव सन्नेवमिहाज्ञमर्त्यः कोऽहं कुतोऽहं न्विति पृच्छति स्वम् ॥ ४५७॥ अस्त्यात्मनोऽन्तर्वपुरित्यबुद्ध्वा तस्मिञ्जडेऽस्मीत्यभिमन्यते यः । मन्येत चित्रस्थमसौ तदीय- माधारभूतं बत वस्त्रमेव ॥ ४५८॥ स्वर्णात् पृथग् भूषणमस्ति किं नु स्वस्मात् पृथक् किं नु शरीरमस्ति । शरीरमेव स्वमवैत्यबुद्धः शुद्धं स्वमेव स्वमवैति बुद्धः ॥ ४५९॥ तमेकमात्मानमनादिसत्यं मौनोपदेशाद् गुरुरादिमोऽपि । निबोधयामास कथं नु कोऽपि वाचा वदन् बोधयितुं समर्थः ॥ ४६०॥ इत्यात्मतत्त्वं बहुधोदितं चा- प्यनुक्तमेवानु भवैकवेद्यम् । ताम् स्वानुभूतिं निरुणद्धि चित्तं निरूढदेहात्मधिया मुमुक्षोः ॥ ४६१॥ श्रुत्यैव चैवं विमलान्तरङ्गाः सद्योऽपि निष्ठां सहजां लभेरन् । अन्यैस्त्वहङ्कारविनाशनाय सुसाधनं किञ्चिदनुष्ठितव्यम् ॥ ४६२॥ अन्तर्हृदि स्वं विमलं विशोकं जिज्ञासयाऽन्विष्य लभेत शान्तिम् । इति श्रुतिर्वक्ति गुरुश्च मार्गं ऋजुं स्वरूपानुभवाय साधोः ॥ ४६३॥ जिज्ञासनं नाम निगद्यतेऽत्र निजस्वरूपानुभवस्य लिप्सा । तयैव हि स्वात्मगवेषणेऽस्मि- न्नन्तर्मुखत्वं भविता मुमुक्षोः ॥ ४६४॥ श्रुतिप्रसिद्धं भवनं परस्य सत्यात्मभूतस्य हृदाख्यमस्ति । स एव सर्वं हि कथं नु तस्य निर्दिश्यते स्थानमिदं हृदाख्यम् ॥ ४६५॥ प्रज्ञास्वरूपं हृदयं हि सत्यं प्रज्ञास्वरूपः स च सत्य आत्मा । अतः स आत्मा हृदयं हि सत्यं प्रतिष्ठितं सर्वमिदं हि तस्मिन् ॥ ४६६॥ तथाऽपि बुद्धा निगमान्तवाचो विधातुमन्तर्मुखतां गवेषे । अन्तः शरीरे निलयं हृदाख्यं दिशन्ति तस्यानिलयस्य पुंसः ॥ ४६७॥ बहुर्मुखान्येव किलेन्द्रियाणि यतः प्रपञ्चेन निमील्यते स्वः । उपाय उन्मीलयितुं स्वरूपं स्वान्वेषणेऽन्तर्मुखतैव साधोः ॥ ४६८॥ Quote - Katha Upanishad पराञ्चि खानि व्यतृणत् स्वयम्भूस्तस्मात् पराङ् पश्यति । कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥ बन्धस्य मुक्तेरिदमन्तरं हि सन्दर्शितं स्वानुभवेन बुद्धैः । बद्धस्य पुंसः समुदेत्यहन्ता नोदेत्यहन्ता तु विमुक्तपुंसः ॥ ४६९॥ नित्यापरोक्षोऽपि सदैव जन्तो- रात्मा महान् प्रेष्ठ उरुप्रकाशः । दुरात्मनाऽहङ्कृतिरूपकेण हृतप्रभो यद्वदलं न भाति ॥ ४७०॥ देहोऽहमस्मीत्यनुभूतिरूपो भवत्यबोधः खलु बन्धरूपः । बोधोऽहमस्मीति विनाऽनुभूतिं कथं नु नीयेत विनाशमेषः ॥ ४७१॥ देहोऽहमस्मीति समुद्भवन्ती धीरेवरूपं खलु जीवनाम्नः । सत्यांशमस्यैव विविच्य साधु- र्गवेषयेज्जन्मभुवं तदीयम् ॥ ४७२॥ नात्यन्तमिथ्या खलु जीव एष नायं हि वन्ध्यातनयस्य तुल्यः । आत्माह्यधिष्ठानतयाऽस्ति तस्मा- न्मृषाऽपि सन् सत्यवदेव भाति ॥ ४७३॥ सत्यांश एतस्य हि जीवनाम्नः सत्यात्मचैतन्यमहंस्वरूपम् । आदाय सत्यांशमिमं मुमुक्षुः- र्भवेत् समर्थो निजमार्गणाय ॥ ४७४॥ अस्यासदंशं वपुरादिसर्वं विहाय शिष्टां निरुपाधिकां ताम् । सत्यात्मनो दीधितिवत् सुसूक्ष्मा- महंस्वरूपां चितिमाददानः ॥ ४७५॥ श्वा स्वामिनं स्वं समुपैति यद्वत् तद्गन्धमादाय गवेषयित्वा । लभेत यत्किञ्चन मग्नवस्तु निमज्ज्य यद्वत् सलिले तथा वा ॥ ४७६॥ अस्याहमो जन्मभुवं स्वतत्त्वं विमृग्य कोऽहं नु कुतोऽहमेषः । इति स्वतत्त्वानुबुभूषयाऽन्त- र्निमज्ज्य निष्ठां सहजां लभेत ॥ ४७७॥ बहिर्मुखत्वं निजमार्गणेऽस्मिन् व्रजेन्मनश्चेद्विषयाभिमुख्यात् । पुनर्मनोऽन्तर्मुखमेव कुर्यात् साधुः प्रयत्नात् प्रविलापदृष्ट्या ॥ ४७८॥ तरङ्गफेनादिकमब्धिमात्रं स्वाप्नं जगत् स्वप्नदृगेव यद्वत् । सर्वं जगच्चाप्यहमेव नान्य- दिति प्रतीतिः प्रविलापदृष्टिः ॥ ४७९॥ कस्येदमेवं विषयाभिमुख्य- मिति स्वतत्त्वस्य दिदृक्षया वा । अन्तर्मुखीकृत्य पुनः पुनश्च मनो नियुञ्जीत गवेषयोगे ॥ ४८०॥ कदा नु निष्ठां सहजां लभेये- त्येवं निरुत्साहमना विषीदन् । भक्तोऽथवा स्वात्मगवेषयोगी स्वयं विमुक्तेर्निरुणद्धि मार्गम् ॥ ४८१॥ उत्साहसन्तोषयुतेन भाव्यं मुमुक्षुणा सात्त्विकमानसेन । अनुस्मरन् कालमृषात्वमुक्तं मनो नियुञ्जीत गवेषयोगे ॥ ४८२॥ प्रश्नस्य कोऽस्मीति सदैव साधो- र्द्वाराणि सर्वत्र च सम्भवन्ति । द्वारेण केनापि गवेषणेऽस्मिन् मनो नियुञ्जीत पुनः पुनश्च ॥ ४८३॥ नास्योत्तरं काचनबुद्धिवृत्ति- र्न वेत्ति धीस्तं खलु तुर्यसत्यम् । अस्योत्तरं स्वानुभवस्तुरीये नष्टेऽहमि प्रष्टरि जीवनाम्नि ॥ ४८४॥ यो निर्विकल्पः सहजः समाधि- स्तत्रैव भायात् स्फुटमात्मतत्त्वम् । अन्यत्र धीवृत्तिविमिश्रितत्वाद् भायाद्यथावन्न हि सत्य आत्मा ॥ ४८५॥ नियुक्तमेवं तु मनो गवेषे लीयेत चेन्निष्फल एव यत्नः । लयात् प्रबोध्याथ पुनश्च साधु- र्मनो नियुञ्जीत मनोगवेषे ॥ ४८६॥ नाशो लयश्चेत्युभयप्रकारो मनोनिरोधो गुरुणाऽस्ति दिष्टः । मनोलयस्यानिलरोधनाद्या भवन्त्युपाया हठयोगमार्गे ॥ ४८७॥ मनो विलीनं सह वासनाभि- र्भवाय पश्चात् पुनरुद्भवेद्धि । नष्टं मनश्चेन्निजमार्गणेन निर्वासनं भर्जितबीजवत् स्यात् ॥ ४८८॥ बध्नात्यविद्या बत वासनाभिः स्वाज्ञं हि ता एव मनः स्वरूपम् । गवेषणे स्याद्यदि जागरूकं मनस्तु तासां भविताऽथ नाशः ॥ ४८९॥ ज्ञानोदयः स्यान्मनसो विनाशा- न्नष्टासु सर्वास्यपि वासनासु । मुक्तिर्निरुक्ताऽखिलवासनाना- मात्यन्तिको नाश इति प्रबुद्धेः ॥ ४९०॥ क्षुरस्य धारा निशिता यथैवं मार्गो ह्ययं स्वात्मविचारनामा । रागो लयश्चेत्युभयं विहाय तिष्ठेत् सदैकाग्रधिया गवेषे ॥ ४९१॥ अन्येषु योगेषु हि जीवनामा सन् कोऽपि कर्मादिकदोषयुक्तः । अस्तीति मत्वैव च दोषहीनं विधातुमेनं यतते हि योगी ॥ ४९२॥ कर्मित्वनाशाय च कर्मयोगो विभक्तिनाशाय च भक्तियोगः । वियोगनाशाय च राजयोगो- ऽप्यबोधनाशाय च बोधयोगः ॥ ४९३॥ स एव साक्षात् पुरुषः परः सन् स्वस्मात् पृथक् स्वं गणयन्नबुद्धः । तेनैक्यमिच्छन् यतते च योगै- र्हास्यं हि तस्मादितरत् किमस्ति ॥ ४९४॥ आदाय जीवस्य चिदंशमेव तन्मूलभूतात्मगवेषणेन । निर्दोष आत्मैव हि भात्यनन्तो न शिष्यते कश्चन तत्र जीवः ॥ ४९५॥ अतो महायोगसमाख्यकोऽयं नान्योऽस्य योगस्य समोऽधिको वा । अन्तर्भवन्त्यत्र समस्तयोगा अङ्गानि ते ह्यस्य यथोचितं स्युः ॥ ४९६॥ जीवोदयस्थानगवेषणं यत् स एक एवाखिलयोगमार्गाः । स कर्मयोगोऽप्युत भक्तियोगः स राजयोगोऽप्युत बोधयोगः ॥ ४९७॥ प्रश्नस्वरूपो हि गवेष एव न ध्यानवत् साधनमेतदुक्तम् । हृन्मज्जनं सम्भवति ह्यनेन प्रश्नेन न ध्यानपरम्पराभिः ॥ ४९८॥ केचिन्निदिध्यासनमाचरन्ति श्रुत्वाऽपि मत्वाऽपि निजं स्वरूपम् । अन्यो हि मार्गोऽयमुतान्य एव स्वान्वेषरूपो रमणोपदिष्टः ॥ ४९९॥ ब्रह्मात्मनोस्तत् त्वमसीत्यभेद- श्छान्दोग्यवेदान्तनिरूपितोऽस्ति । अभेद एष प्रतिपाद्यते च वाच्यार्थलक्ष्यार्थविवेचनेन ॥ ५००॥ वाक्येऽत्र तच्छब्दनिवेदितस्य चर्चां विना त्वम्पदलक्षितस्य । सत्यात्मनस्तत्त्वगवेषणस्य कर्तव्यतां श्रीरमणो ब्रवीति ॥ ५०१॥ एवं गवेषेण भवेन्मुमुक्षो- र्हृन्मज्जनात् स्वानुभवस्तुरीये । न स्यान्निदिध्यासनमस्य कार्यं नानेन कार्यं मननं च दीर्घम् ॥ ५०२॥ श्रुत्योदिते तत्त्वमसीति वाक्ये ध्यानं न किञ्चिद्विहितं हि साधोः । उक्ता परस्यैव तुरीयभावे बुद्धेन सत्यात्मतयाऽनुभूतिः ॥ ५०३॥ तत्त्वं स्वकं यन्निरुपाधिकं तद् ब्रह्मेति वेदान्तगिरा सुसिद्धे । ब्रह्मात्मनोरेकतयाऽनुभूत्यै स्वान्वेषणात् किं करणीयमन्यत् ॥ ५०४॥ विहाय देहात्ममतिं विमृग्य स्वमेव बुद्ध्वा हृदि निष्ठितस्य । भात्यात्मरूपः पर एव साक्षा- दित्यर्थको हि श्रुतिशीर्षवाणी ॥ ५०५॥ निजस्वरूपस्य गवेषणं यत् साक्षाद् भवेत् साधनमेतदेव । उक्तं निदिध्यासनमङ्गस्य देहात्मधीनिर्मथनाय साधोः ॥ ५०६॥ हृन्मज्जनं स्वात्मगवेषणेऽस्मिन् न सम्भवेद् दुर्बलमानसस्य । वृत्तिष्वनेकासु विभज्यमानं नितान्तमल्पं मनसो बलं हि ॥ ५०७॥ एकाग्रता या मनसो गवेषे मनोबलं नाम तदेव नान्यत् । ईदृग् बलं यस्य भवेत् स एव धीरः स्वधीरक्षणकौशलेन ॥ ५०८॥ ध्यानेन वर्धेत मनोबलं यत् तद् ध्यानमङ्गं निजमार्गणस्य । ध्यानान्मनो निश्चलतां प्रसाध्य ततः स्वतत्त्वं मृगयेत धीरः ॥ ५०९॥ अहंस्वरूपा चितिरात्मनो या सर्वोत्तमं ध्येयमिदं मुमुक्षोः । मज्जेदनेनैव मनो हृदन्त इत्यस्मदाचर्यवरोपदेशः ॥ ५१०॥ शान्तिं नयन् केवलकुम्भकेन चित्तं विना पूरकरेचकाभ्याम् । सज्जेत चेत् स्वात्मगवेषयोगे हृन्मज्जनं स्यान्मनसो मुमुक्षोः ॥ ५११॥ देहं पृथक्कृत्य निजस्वरूपे विश्रम्य तिष्ठेद्यदि चित्स्वरूपे । अहम्मतिस्तस्य विनाशमेती- त्येवं वसिष्ठो भगवानवोचत् ॥ ५१२॥ आत्मानमन्विष्य मनः कयाऽपि शक्त्या गृहीतं हृदये निमज्जेत् । तत्रात्मनश्चित्प्रभया निगीर्णं मनोऽहमा साकमुपैति नाशम् ॥ ५१३॥ शक्तिः कृपाख्या खलु सा परस्य सत्यात्मभूतस्य हृदि स्थितस्य । विद्यामयी सा हि समर्प्य तस्यै स्वमेव साधुर्भविता कृतार्थः ॥ ५१४॥ ज्ञानाग्निना विश्वमिदं प्रदग्धं सहाहमा यत्र महाश्मशाने । चिद्व्योम्नि तत्राहमहन्तयाऽऽत्मा सदाशिवो नृत्यति केवलः सन् ॥ ५१५॥ तदेव चिद्व्योम हि तत्स्वरूपं नृत्येदसौ तत्र कथं न्वरूपः । आनन्दरूपत्वममुष्य दिष्ट- मेवं हि तन्निश्चलनृत्यमेव ॥ ५१६॥ न तत्र मायाऽस्ति न काऽप्यविद्या न देशकालौ न च कोऽपि जीवः । तस्मिन् पदे निर्मलचित्स्वरूप आत्मैक एवास्ति न किञ्चिदन्यत् ॥ ५१७॥ मायाभिधाना परमेशशक्तिः सर्वं जगद्यत्परिणाम एव । नष्टैव सेयं ह्यचले परस्मिन् साकं स्वकार्यैरपि तुर्यभावे ॥ ५१८॥ विभात्यतस्तुर्यपदे प्रशान्ते सत्यात्मरूपं प्रतिबन्धहीनम् । तस्मिन् पदे स्वात्मतयाऽवशिष्टो निगद्यते मुक्त इति प्रबुद्धैः ॥ ५१९॥ सुदुःखिता स्त्री श्वशुरस्य गेहे मातुर्गृहे शान्तिमुपैति यद्वत् । एवं मनः संसृतिदुःखतप्तं निवृत्य मूलं निजमेव शान्तम् ॥ ५२०॥ यथा नरः स्वप्नसमुत्थितः सन् स्वाप्नं जनं पश्यति नैव कञ्चित् । अज्ञाननिद्रोत्थित एवमेको न वीक्षते कञ्चिदपि स्वतोऽन्यम् ॥ ५२१॥ यस्तन्मयानन्दनिमग्न आस्ते स्वान्यस्य बोधेन विनाऽद्वयत्वे । पदं तदीयं सहजं प्रशान्तं धीगोचरत्वं भजतां कथं नु ॥ ५२२॥ विनष्टचित्तं निजसत्यभावे विनष्टदेहं च विनष्टलोकम् । ज्ञातुं प्रबुद्धं भविता समर्थः स्वबुद्धिशक्त्यैव कथं नु मर्त्यः ॥ ५२३॥ अलक्षणं तन्न मनोऽपि मन्तुं शक्नोति तुर्यं न वचोऽपि वक्तुम् । अतन्निरासेन तु बोधयन्ति वेदान्तवाचोऽपि हि तत्स्वरूपम् ॥ ५२४॥ वाचाऽपि वक्तुं मनसाऽपि मन्तुं शक्यं यदल्पं खलु तत्समस्तम् । अगोचरत्वान्मनसो धियोऽपि भूमेति जानन्ति तमात्मनिष्ठाः ॥ ५२५॥ यद्यत् प्रबुद्धैर्निगमान्तवाक्यैः सत्यं परं प्रत्युपदिष्टमस्ति । तत्तत्फलं शिष्यमृषाग्रहाणां निरास एवेति वदन्ति बुद्धाः ॥ ५२६॥ सीता यथा दाशरथिं दिदेश निषेधनादन्यनृपात्मजानाम् । तथात्मनो रूपमतन्निरासै- र्वेदान्तवाचः प्रतिपादयन्ति ॥ ५२७॥ अर्थो न वेद्यो न च वेदनीयः स्वयम्प्रभः केवल एक आत्मा । तमो निरासेन विना न किञ्चित् गुरूपदेशैः क्रियते हि साधोः ॥ ५२८॥ ज्ञानात्मकः स्वो हि तिरोहितोऽज्ञैः प्रापञ्चिकज्ञानमयैस्तमोभिः । तमांसि तान्येव गुरूपदेशा निरस्य साधुं हि कृतार्थयन्ति ॥ ५२९॥ यथाऽवकाशं जनयेन्न कोऽपि निरोधकापाकरणं विहाय । तथाऽऽत्मलाभाय न कार्यमन्य- द्धित्वा मृषाज्ञाननिरासमस्ति ॥ ५३०॥ लब्धव्य आत्मा भविता कथं नु नासौ विनष्टः खलु तत्त्वदृष्ट्या । येनाहमाऽऽत्माऽस्ति तु नष्टकल्पो नाशस्तदीयो भविताऽऽत्मलाभः ॥ ५३१॥ परा च पश्यन्त्युत मध्यमा च वाग् वैखरी चेति चतुःप्रकारा । सा वाक् परा नाम तु मौनमेव तदेव रूपं च सतः परस्य ॥ ५३२॥ वाग् वैखरी मध्यमवाक्प्रसूता वाग् वीक्षमाणाऽस्ति तदीयमाता । तस्याः परा वागिति सुप्रसिद्धा वाक् सैव मौनं पर चित्स्वरूपम् ॥ ५३३॥ व्याख्या यथार्थाऽप्युत मौनमेव स्थितस्य बुद्धस्य पदे तुरीये । वाग् वैखरी भेदमतिप्रसूता वदेत् परं तं कथमस्तभेदम् ॥ ५३४॥ अतो हि मौनेन दिदेश रूप- मात्मस्वरूपस्य गुरुः पुराणः । मौनेन वाचो मनसोऽपि पूर्वे शिष्या अबुध्यन्त तदीयरूपम् ॥ ५३५॥ गुरोः प्रबुद्धस्य हि मौनभावात् स्वयं प्रबुद्धाश्च भवन्ति सन्तः । वाचोपदेशाः प्रभवन्ति नैव तत्त्वं परं बोधयितुं यथावत् ॥ ५३६॥ गुरोः प्रबुद्धस्य यदस्ति मौनं शक्तिस्तदीया न हि मानमेति । मौनोपदेशः परमो हि तस्मात् तेनैव साधोर्हि मनःप्रशान्तिः ॥ ५३७॥ दीक्षा त्रिधोक्ता गुरुणा प्रयोज्या निरीक्षणध्यानकराभिमर्शाः । गुरोस्तु मौनस्थितिसम्प्रयुक्तां ब्रवीति दीक्षां परमां गुरुर्नः ॥ ५३८॥ मौनोपदेशादपि मौनभावे स्थित्वैव लभ्या भवतीत्यतश्च । मौनं पदं तं निगदन्ति बुद्धा मौनी वदन्नेव स सम्प्रबुद्धः ॥ ५३९॥ सकृद्विभातं पदमव्यं त- च्चैतन्यभानोः प्रभयैव तस्य । अतः प्रमादाच्च्युतिरात्मभावा- न्न बुद्धपुंसो भविता कदाचित् ॥ ५४०॥ अत्ता समस्तस्य चराचरस्या- प्यात्मेति वेदान्तगिरा यदुक्तम् । निर्दिश्यते तेन तदीयभासा ग्रासोऽस्य विश्वस्य तमोमयस्य ॥ ५४१॥ निगीर्य सर्वं घनविश्वरूपं चैतन्यभासा निजया परात्मा । एकोऽद्वयो भात्यरुणाचलेश इति स्वरूपं गुरुणाऽस्ति गीतम् ॥ ५४२॥ ब्रह्मात्मभावं प्रतिपद्य तुर्ये विमुच्यते स्वो भवबन्धपाशात् । इत्येष वादो न भवेद्यथार्थो नहि स्वरूपाच्च्युतिरात्मनोऽभूत् ॥ ५४३॥ न श्वेतिमानं नवमेति धौतं वस्त्रं स्वभावो ह्ययमस्य यद्वत् । ब्रह्मत्वमात्मा नहि याति बोधाद् ब्रह्मत्वमात्मप्रकृतिर्हि नित्यः ॥ ५४४॥ ब्रह्मज्ञ आत्मज्ञ इति प्रसिद्धे बुद्धस्य पुंसो भवतोऽभिधे द्वे । ब्रह्मैव चात्मैव यतः स बुद्धो ज्ञाते उभे तेन कथं भवेताम् ॥ ५४५॥ अब्रह्मताधीरहितत्वमेव ब्रह्मज्ञतोक्ता न तु काचिदन्या । आत्मज्ञता नाम भवेदनात्म- न्यात्मत्वमत्या रहितत्वमेव ॥ ५४६॥ तत्त्वं स्वमन्विष्य परस्य तस्य सत्यात्मनोऽन्नत्वमुपेत्य तुर्ये । कथं नु तस्मान्निजसत्स्वरूपात् तिष्ठेत् पृथक् कश्चन बुद्धनामा ॥ ५४७॥ अद्वैतनिष्ठामनुभूय तुर्ये जीवेत् पृथक्त्वेन कथं परस्मात् । तद् ब्रह्मनिर्वाणमुदीरितं हि कृष्णेन साक्षात् परमेण पुंसा ॥ ५४८॥ निर्दिश्यते ब्रह्म यथैव शास्त्रे निर्दिश्यते बुद्धपुमांस्तथैव । ब्रह्मस्वरूपं खलु संविदेव बुद्धस्वरूपं न ततोऽस्ति भिन्नम् ॥ ५४९॥ नात्मद्वयं कस्यचिदस्ति यस्मात् तद् वेद्मि मामित्यपि नेति हास्ये । वेद्यत्वमात्मा न कदाऽपि याती- त्येषाऽस्ति वाणी भगवत्तमस्य ॥ ५५०॥ अद्वैतनिष्ठेत्युदिताऽस्ति सेय- मुपाधिनिर्मुक्तनिजस्वरूपे । यतो न तस्मात् पृथगस्ति पूर्णं ब्रह्माभिधानं परसत्यमेकम् ॥ ५५१॥ अद्वैतता सा विदुषाऽनुभूता सत्यात्मनस्तुर्यपदाधिगत्या । न साधनाभ्यासबलेन सिद्धा सत्यात्मनः सा खलु नित्यसिद्धा ॥ ५५२॥ द्वैतं भवेत् सत्यमिदं हि तावद् यावद् भवेत् साधनतत्परत्वम् । सिद्धौ भवेदद्वयतोद्भवस्तु द्वैतप्रणाशादिति केचिदाहुः ॥ ५५३॥ नेमे विजानन्ति तु तुर्यतत्त्वं कालातिगं चानुदितप्रपञ्चम् । अद्वैतमाद्यन्तविवर्जितं हि द्वैतं सदिक्कालमसत् सदैव ॥ ५५४॥ मिथ्याभ्रमस्यैव विराम उक्तः शास्त्रे मुमुक्षोरहमो विनाशात् । सत्यं न बोधेन विनाशमीया- न्न भासते किञ्चिदसत् तुरीये ॥ ५५५॥ द्वैतं भवेत् सत्यमिदं सदैव ज्ञानेऽपि नैवास्य भवेद्विनाशः । अद्वैतसिद्धिर्न भवेत् कदाऽपी- त्येष मतिर्दूरतरैव साधोः ॥ ५५६॥ सत्या सदैवाद्वयताऽऽत्मनोऽसौ स्वान्वेषणे सत्यपि चात्मलाभे । लब्ध्वोऽभवद्यो दशमो गवेषात् पूर्वं च सोऽयं दशमो हि नान्यः ॥ ५५७॥ जानन्त्यजातिं परवस्तुनो ये माण्डूक्यवेदान्तनिरूप्यमाणाम् । तत्त्वे परे निश्चितबुद्धयस्ते मुह्यन्ति नैतादृशमुग्धवादैः ॥ ५५८॥ न भीतिकामौ भवतोऽद्वयत्वे स्थितस्य बुद्धस्य यथाऽज्ञपुंसः । द्वैतेक्षया मोहितमानसानां नृणामुभे कामभयेऽनिवार्ये ॥ ५५९॥ भीतिर्द्वितीयाद्धि भवेदितीदं भीत्यास्पदं द्वैतमिदं प्रदिष्टम् । भेदप्रतीत्या मुषितात्मभावो नात्येति भीतिं खलु कोऽपि जन्तुः ॥ ५६०॥ विद्वानगम्ये मनसोऽपि वाचा- मानन्दरूपात्मनि मोदमानः । बिभेत्यसौ नैव कुतश्चनेति श्रुत्योदिता निश्चलता तुरीये ॥ ५६१॥ नोदेति कामोऽपि हि कोऽपि तुर्ये मृतो ह्ययं कामयिताऽहमाख्यः । सर्वांश्च कामान् समकालमेव लब्ध्वेव बुद्धोऽस्ति हि नित्यतृप्तः ॥ ५६२॥ आत्मैव सर्वं हि तदीयलाभे लब्धव्यमन्यन्न हि किञ्चिदस्ति । तदाप्तकामो गदितोऽप्यकामः शास्त्रे प्रबुद्धोऽस्ति हि यद्वदीशः ॥ ५६३॥ साक्षात्कृतं येन निजं स्वरूपं स कस्य कामाय च किं समिच्छन् । तप्येत देहात्मधियेति वक्ति बुद्धस्य कामानुदयं श्रुतिर्हि ॥ ५६४॥ देहात्मना संस्थित एव कामी बुद्धस्तु देहात्मधिया विमुक्तः । स्वकं शरीरं समवैति बुद्धः शरीरमन्यस्य यथा तथैव ॥ ५६५॥ सुखस्य नास्वादनमस्ति तुर्ये सुखित्वदुःखित्वमती न तत्र । सुखस्य दुःखस्य विलक्षणं तत् तुर्यं पदं द्वन्द्वविवर्जितत्वात् ॥ ५६६॥ न शिष्यते कश्चन तत्र कोशः स्वरूपसङ्कोचकरोऽज्ञपुंसाम् । अखण्ड आत्मा निरुपाधिको हि विराजते तत्र वियत्समानः ॥ ५६७॥ निर्वाणसञ्ज्ञां सुगतो गुरुर्यां दिदेश निष्ठां भवदुःखहन्त्रीम् । कोशे समस्ते गलिते तुरीये पदे स्थितिः सेति गुरुर्जगाद ॥ ५६८॥ न संशयानामुदयोऽस्ति तत्र पुमान् प्रबुद्धः स्थितधीर्हि नित्यम् । आस्ते स सङ्कल्पविकल्पहीनः प्रशान्तगम्भीरतयाऽस्तचेताः ॥ ५६९॥ Quote - Upanishad भिद्यते हृदयग्रन्थिः छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ आद्यन्तहीनं स्वमवेत्य बोधात् स मृत्युमत्येत्यपि सम्प्रबुद्धः । पुमानबुद्ध्वाऽमृतमात्मतत्त्वं नात्येति मृत्युं बत कोऽपि लोके ॥ ५७०॥ लेभे जनिं यः परमे स्वमूले विचार्य कस्मादहमित्युदारः । स एव जातः स च नित्यजातो नवो नवोऽयं सततं मुनीन्द्रः ॥ ५७१॥ इत्येवमाचार्यवरेण दिष्टा ब्रह्मात्मभावे सहजे स्थितस्य । निष्ठा परा सर्वविकारहीना निरामया कालदिगाद्यतीता ॥ ५७२॥ अज्ञस्य लोके मरणाय जन्म मृतिस्तदीया जननाय भूयः । तस्मादिमे जन्ममृती मृषैवे- त्यस्मभ्यमुक्तं भगवत्तमेन ॥ ५७३॥ मृतिर्यथार्था त्वहमो विनाशो जनिर्यथार्था सहजात्मनिष्ठा । द्वन्द्वैर्विमुक्तं पदमव्यं तद् यत्रैकतां जन्ममृती भजेते ॥ ५७४॥ अद्वैतभावे स्थितिमेत्य नित्यां भेदान् कथं पश्यतु सम्प्रबुद्धः । भेदाकुलं भाति यदज्ञपुंसां विश्वं तदात्मैव हि बुद्धपुंसः ॥ ५७५॥ अभेददृष्टिः समदर्शनं चे- त्येतद् द्वयं यद् विदुषो वदन्ति । तद् भेददृष्ट्या रहितत्वमेव न केवलत्वे खलु वीक्षणानि ॥ ५७६॥ स्वमेव सर्वत्र च नित्यबुद्धं बुद्धः पुमान् पश्यति न स्वतोऽन्यम् । तन्मन्यतेऽज्ञं कमपीह नासौ सर्वे प्रबुद्धा हि तदीयदृष्ट्या ॥ ५७७॥ यथा चरेत् कश्चन सुप्त एव तथैव बुद्धो जगति क्रियासु । दृश्येत जानन्निव लोकभेदान् भेदानजानन्नपि सर्वदैव ॥ ५७८॥ बुद्धस्य चाज्ञस्य भिदा स्फुटास्या- न्निन्दा नुतिश्चेत्युभयोश्च दृश्या । द्वयोर्न भेदं समवैति बुद्धो द्वन्द्वं मृषेदं खलु यद्वदन्यत् ॥ ५७९॥ विज्ञाय वेदान्तनिगूढमर्थं विहाय विश्वं तृणवत् समस्तम् । अप्राप्य निष्ठां निजसत्यभावे स्वस्यैव तत्त्वस्य गवेषणेन ॥ ५८०॥ अलुप्तदेहात्ममतिर्विमुह्यन् यः सत्यवज्जीवभिदामवैति । यात्येव सोऽयं ह्यवशोऽपि दास्यं वाराङ्गनाया नुतिनामिकायाः ॥ ५८१॥ कमप्यजानन् पुरुषं स्वतोऽन्य- मप्रच्युतः स्वीयपदात् प्रबुद्धः । निन्दानुतिभ्यां न विकारमेति निन्दा नुतिर्वा स्वकृतेव तस्मै ॥ ५८२॥ देहीव मर्त्यः परिदृश्यमानो नासौ शरीरी निरहङ्कृतिर्यत् । सूक्ष्मं वपुस्तस्य न देहपाते निर्याति किन्तु प्रविलीयतेऽत्र ॥ ५८३॥ सत्यं प्रपञ्चं बत मन्यमाना रूपं प्रबुद्धस्य वदन्ति केचित् । तस्येच्छयाऽरूपिण एव रूपं कदाचन स्यादिति केचिदाहुः ॥ ५८४॥ रूपस्य सर्वस्य निदानभूता नष्टा ह्यहन्ता निजतत्त्वबोधात् । रूपाण्यतोऽसन्ति हि बुद्धपुंस- स्तन्मुग्धतैषा बत रूपवार्ता ॥ ५८५॥ अभूदिदं पूर्वमथ प्रणष्ट- मित्येवमुक्तिश्च न युज्यते यत् । रूपी न कोऽप्यस्ति हि तत्त्वदृष्ट्या रूपी प्रबुद्धो भविता कथं नु ॥ ५८६॥ भावे तुरीये सहजे स्थितस्य बुद्धस्य देहत्रितयं विनैव । इच्छाऽपि रूपग्रहणे कथं स्यात् सेयं वृथा पामररञ्जनी वाक् ॥ ५८७॥ नदी यथा वारिधिमेत्य तस्मिन् हित्वा नदीरूपमुपैत्यभेदम् । एवं प्रबुद्धोऽपि विहाय रूपं परात्परे पुंसि भजत्यभेदम् ॥ ५८८॥ एवं श्रुतिर्वक्ति हि रूपहाना- दैक्यं परस्मिन् विदुषस्तुरीये । जीवन्विमुक्तोऽप्यशरीर एव शरीरिणं स्वं न हि मन्यतेऽसौ ॥ ५८९॥ बुद्धस्य रूपं प्रति योऽहमाख्यो वादी भवेत् तस्य विनाश एव । ब्रवीति मुक्तिं भगवान् गुरुर्य- न्निरर्थकोऽयं बत रूपवादः ॥ ५९०॥ अतो न निर्याति हि देहपाते सूक्ष्मं वपुस्तस्य यथाऽज्ञपुंसाम् । विलीयतेऽत्रैव हि तत् स्वमूले न शिष्यते किञ्चन निर्गमाय ॥ ५९१॥ प्रबुद्धपुंसां बहुताऽपि मर्त्यैः प्रतीयमाना न भवेद्यथार्था । प्रापञ्चिका एव हि सर्वभेदा न निष्प्रपञ्चे खलु ते भवन्ति ॥ ५९२॥ बुद्धः पुमानेष मयाऽद्य दृष्टो द्रक्ष्याम्यतोऽन्यानपि बुद्धपुंसः । इति ब्रुवाणो विदुषां स्वरूपं न वेत्ति सच्चित्सुखरूपमेकम् ॥ ५९३॥ अजानतः स्वं बत बुद्धमन्त- र्विभान्ति बुद्धा बहवो विभिन्नाः । तं स्वात्मभूतं समवैति यस्तु न तस्य नानात्वमिदं यथार्थम् ॥ ५९४॥ आद्यो गुरुर्यो मुनिसत्तमानां दिदेश मौनेन परं पदं स्वम् । पश्चाच्च यः शङ्करदेशिकेन्द्रः स एव हि श्रीरमणो गुरुर्नः ॥ ५९५॥ यन्नित्यसिद्धं निजतत्त्वमन्त- स्तदात्मना सुस्थितिरेव तुर्ये । सिद्धिर्यथार्था न तु काचिदन्ये- त्यस्मद्गुरुः श्रीरमणो ब्रवीति ॥ ५९६॥ लब्धव्य आत्मेति मतिर्न सत्या नासौ विनष्टः खलु तत्त्वदृष्ट्या । वदन्ति बुद्धा अत एव सत्यं तं नित्यसिद्धं निखिलस्य जन्तोः ॥ ५९७॥ भूमानमात्मानमतोऽन्यदल्पं श्रुतिर्वदन्ती दिशतीममर्थम् । विक्रीय तं विश्वमिदं समस्तं क्रीत्वाऽपि मर्त्यः कृपणो हि शोच्यः ॥ ५९८॥ अतो ह्यकार्पण्यपदं तुरीयं कार्पण्यमन्यच्छ्रुतयो वदन्ति । पूर्णो हि सम्राडिव सम्प्रबुद्धो भिक्षामटंश्चापि न दैन्यमेति ॥ ५९९॥ वदन्ति सिद्धीरणिमादिकांस्तु बहिर्मुखा भोगपरा विमूढाः । वक्तिश्रुतिर्मन्दधियां कथञ्चित् प्ररोचनार्थं बत ताश्च सिद्धीः ॥ ६००॥ आविद्यकाः स्वप्नसमाः यतस्ता न तासु मोहं भजते विवेकी । पूर्णस्तुरीये स्थितिमेत्य सत्ये बुद्धो न मुह्येदनृतासु तासु ॥ ६०१ । इत्यात्मलाभस्य समोऽन्यलाभो नास्तीति बुद्धैः प्रकटीकृतेऽपि । मत्वाऽऽत्मनाशस्य पदं तुरीयं बिभ्यत्यमुष्मादविवेकिनस्तु ॥ ६०२ ॥। प्रयान्ति वृद्धिं विदुषस्तुरीये स्थितस्य तेजो धिषणा बलं च । यथा वसन्तस्य समागमेन सौन्दर्यमुख्याः सुगुणास्तरूणाम् ॥ ६०३॥ शमादिका ये सुगुणा मुमुक्षो- र्यत्नेन सम्पाद्य च रक्षणीयाः । स्वाभाविकास्ते विदुषो भवन्ति स निर्गुणः सद्गुणशेवधिश्च ॥ ६०४॥ नाशेऽहमस्तन्न हि काऽपि नष्टि- र्नैवात्मनाशस्य पदं तुरीयम् । अहन्तयाऽऽत्माऽस्ति तु नष्टकल्पो नाशेऽहमो नश्यति नष्टिरेषा ॥ ६०५॥ एषोऽन्ततोऽहङ्कृतिनाश एव धर्मार्थकामा अपि सत्यवाणी । सन्न्यासमौने च तपोऽपि योगः सत्यं परस्मै स्वनिवेदनं च ॥ ६०६॥ भवन्त्यसत्यानि तदाख्यकानि वपुष्यहन्तामलिनीकृतानि । स्वाभाविकान्येव भवन्ति तानि स्थितस्य सत्यात्मतया तुरीये ॥ ६०७॥ अलङ्कृती द्वे विदुषो निरुक्ते कर्तव्यहानिः कृतकृत्यता च । अज्ञानमूलं ह्युभयं नरस्य कर्तव्यता चाप्यकृतार्थता च ॥ ६०८॥ न कर्मसाध्यं विदुषोऽस्ति यस्मात् किञ्चिन्न कर्तव्यमिहास्ति तस्य । कर्तव्यमत्रास्ति तु यस्य किञ्चित् स मोहपाशैर्बत बद्ध एव ॥ ६०९॥ पृच्छन्ति केचित् किमु बुद्धपुंसो ध्यानं न कार्यं भवतीति मुग्धाः । गत्वा विदेशान् ननु शिक्षणीया बुद्धेन मर्त्या इति पृच्छ्यतेऽन्यैः ॥ ६१०॥ अहं तदस्मीत्यनुसन्दधानो भवेन्न बुद्धः खलु साधकोऽसौ । ध्यानं तदस्मीति तु बुद्धपुंसा ध्यानं नरोऽस्मीति यथा नरेण ॥ ६११॥ यद्विस्मृतं तत्स्मृतिरेव युक्ता नाविस्मृतस्य स्मृतिरस्ति लोके । न विस्मृतं यद् विदुषाऽऽत्मतत्त्वं तस्य स्मृतिस्तेन कथं घटेत ॥ ६१२॥ ध्यानं यथार्थं तु सतः परस्य निष्ठैव चिन्तारहितात्मभावे । निरन्तरं ध्यानमिदं न हातुं शक्यं न कर्तुं विदुषा कदाऽपि ॥ ६१३॥ क्वचित् प्रदेशे स्थितवत् प्रबुद्धः सन्दृश्यमानोऽपि वियत्समोऽसौ । तिष्ठन् सदा स्वे सहजे समाधौ व्याप्नोति शक्त्या भुवनं समस्तम् ॥ ६१४॥ अवत्यसौ स्वानतिदूरतश्चा- प्यचिन्त्यशक्त्या निजया प्रबुद्धः । विनैव चिन्तां सहजे समाधौ स्थितोऽपि सन् सन्ततमस्तचित्तः ॥ ६१५॥ करोति चिन्तां किमु कोऽपि नॄणां स्वप्नेक्षितानां मनुजः प्रबुध्य । तथाऽज्ञनॄणां न करोति चिन्तां स्वाज्ञाननिद्रोत्थित आत्मबोधात् ॥ ६१६॥ गुणानसौ त्रीनतिवर्तते य- दतो न दोषाः प्रभवन्ति तस्मिन् । कर्मात्र यद्यत् कुरुते प्रबुद्ध- स्तत्तद् भविष्यत्यनवद्यमेव ॥ ६१७॥ अत्येति शास्त्राण्यत एव बुद्धो निबध्यते तैर्न हि निर्मनस्कः । भवन्त्यविद्वद्विषयाणि तानि ते ह्येव कर्तृत्वधिया विधेयाः ॥ ६१८॥ प्रतिष्ठितो यत्र पदे प्रबुद्धो भवन्त्यवेदाः खलु तत्र वेदाः । देवा अदेवा इति तस्य भावो निर्दिश्यते हि श्रुतिशीर्षवाचा ॥ ६१९॥ बुद्धोपदेशान् मनुजोऽनुतिष्ठेद् बुद्धैः कृतं कर्म तु नानुतिष्ठेत् । बुद्धोपदेशाः परमं प्रमाणं न कर्म तेषां तु तथा प्रमाणम् ॥ ६२०॥ सर्वांश्च योगानतिगत्य तिष्ठन् तुर्येऽच्युतो बुद्धपुमान् भवेऽत्र । योगीव वा भोगिवदेव वा स्यात् तौ योगभोगौ भवतो न सत्यौ ॥ ६२१॥ शिष्योपदेशे समुदीरिते द्वे बन्धो विमुक्तिर्भवतो न सत्ये । द्वन्द्वानि सर्वाणि मृषेति सिद्धे द्वन्द्वं तदेतत् कथमस्तु सत्यम् ॥ ६२२॥ आत्मा स्वयं नित्यविमुक्त एव बद्धस्त्वविद्योदित जीव एव । तत् तत्त्वतो नास्ति हि काऽपि मुक्ति- र्बन्धप्रतीत्यैव हि मुक्तिचिन्ता ॥ ६२३॥ कस्यास्ति बन्धोऽयमिति स्वतत्त्वं मुमुक्षुरन्विष्यति चेत् तदन्ते । आत्माऽनुभूयेत हि नित्यमुक्त इत्यस्ति वाणी भगवत्तमस्य ॥ ६२४॥ अजातिरेव प्रकटीकृता हि श्रुत्याऽपि बुद्धैश्च सतः परस्य । तस्यैव सत्यात्मतया स्थितत्वात् स बन्धमापेति कथं नु वाच्यम् ॥ ६२५॥ सत्यो हि बन्धो यदि नान्तमीया- दनादिरङ्गीक्रियते हि बन्धः । सान्तादिमत्वाच्च भवेद्विमुक्ति- र्बन्धस्य मिथ्यात्वमतोऽनिवार्यम् ॥ ६२६॥ बद्धोऽभवं पूर्वमथास्मि मुक्त इत्येवमुक्तिं श‍ृणुमो न बुद्धात् । कालातिगा सा पदवी हि तुर्या चिन्त्यं भवेज्जन्म कथं तदीयम् ॥ ६२७॥ नैवागतं किञ्चन मत्स्वरूपे सदैकधैवास्मि विकारहीनः । इत्येवमूचे भगवान् हि पृष्टो लब्धा विमुक्तिर्भवता कदेति ॥ ६२८॥ पुर्यां सतां पण्ढरिनामिकायां यामः कदा तामिति गीतमादौ । प्राप्ता वयं तामिति गीतमन्ते यद्वत् तथैवेह विमुक्तिवार्ता ॥ ६२९॥ स्वप्ने भ्रमित्वा स्वगृहं निवृत्य भूयोऽपि तत्रैव गतः सुषुप्तिम् । प्रबुध्य पश्येत् स्वगृहे यथा स्वं मुक्तिस्तथैवेति गुरुर्जगाद ॥ ६३०॥ नित्यानुभूते मम सत्स्वरूपे स्थितोऽस्मि मिथ्या ह्यनुभूतयोऽन्याः । इति प्रबोधेन मतिप्रसादो भवेद्विमुक्तिर्न किमप्यपूर्वम् ॥ ६३१॥ बुद्धस्य नित्यो महिमाऽस्ति सोऽयं वृद्धिक्षयौ तस्य न कर्मणेति । अनिष्टमिष्टं च फलं कृतस्य न कर्मणः स्याद्विदुषः कदाऽपि ॥ ६३२॥ यथा कथासंश्रवणे सुदूरं धिया गतो नैव कथां श‍ृणोति । कर्माणि कुर्वन्नपि बुद्ध एवं निर्वासनत्वान्मनसो न कर्ता ॥ ६३३॥ सवासनत्वान्मनसस्तु कर्ता भवत्यकुर्वन्नपि चाज्ञमर्त्यः । स्वप्ने यथाऽद्रेः शिखरादधस्तात् पतेच्छरीरे सति निश्चलेऽपि ॥ ६३४॥ शरीरमात्रेण कृतं न कर्म मनःकृतं यत् तु तदेव कर्म । नाचेतनं कर्तृ भवेच्छरीरं मनो भवेत् कर्तृ तु चेतनत्वात् ॥ ६३५॥ प्रारब्धवेगेन चरन्ति कर्म देहेन्द्रियप्राणमनांसि यद्यत् । न लिप्यते तेन पुमान् प्रबुद्ध इत्युक्तवान् श्रीभगवान् गुरुर्नः ॥ ६३६॥ न लिप्यते सृष्ट्यवनादि कर्म कुर्वन्नपीशः खलु तद्वदेव । न लिप्यते कर्मभिरत्र बुद्धो भिदा तयोर्नास्ति हि तत्त्वदृष्ट्या ॥ ६३७॥ अश्नंश्च गच्छंश्च वदन् स्मरंश्च कर्माणि कुर्वन्निव लक्ष्यतेऽज्ञैः । कर्ताऽपि भोक्ता न तु तत्त्वतोऽसौ स हीश्वराधीनसमस्तवृत्तिः ॥ ६३८॥ कर्ता यदि स्वः स भवेद्धि भोक्ता कर्तृत्वनाशे निजमार्गणेन । साकं विनश्येत् त्रिविधं च कर्म विमुक्तिमेतां समवेहि नित्याम् ॥ ६३९॥ भुङ्क्ते यथा निद्रितबालकोऽन्नं स्वमातृदत्तं न तु वेत्ति भुक्तम् । एवं प्रबुद्धोऽपि हि कर्मजन्यं भुङ्क्ते फलं भोक्तृतया विनैव ॥ ६४०॥ कर्ता न कोऽप्यस्ति हि तत्त्वदृष्ट्या स्वज्ञाज्ञयोरस्ति भिदेयमेव । कर्ताऽहमस्मीत्यभिमन्यतेऽज्ञो बुद्धस्य नोदेति तु कर्तृताधीः ॥ ६४१॥ आगामिकर्माण्यपि सञ्चितानि नश्यन्ति बुद्धस्य पुनर्न जन्म । प्रारब्धकर्म त्ववशिष्टमस्ती- त्युक्तिर्न सत्या परमार्थदृष्ट्या ॥ ६४२॥ यथा मृते भर्तरि सत्यमुष्य शिष्येत भार्याऽविधवा न काऽपि । एवं मृते कर्तरि नैव कर्म फलप्रदं किञ्चन शिष्टमस्ति ॥ ६४३॥ यथा प्रबोधे सति नैव कर्म स्वप्ने कृतं किञ्चन शिष्टमस्ति । कर्माज्ञतायां चरितं तथैव सत्यात्मबोधे सति नास्ति शिष्टम् ॥ ६४४॥ प्रारब्धमस्तीति वचः श्रुतीनां भवेदिदं त्वज्ञधियोऽनुरोधः । तदीयदृष्ट्या फलमस्ति तस्य बुद्धः शरीरी बत तन्मतेन ॥ ६४५॥ प्रियाप्रिये न स्पृशतो हि बुद्धं देहं विनैव स्थितमात्मभावे । नैष्फल्यमेवं विदुषः कृतीनां वेदान्तवाचैव निरुक्तमस्ति ॥ ६४६॥ कृत्तेऽपि दग्धे विदुषः शरीरे च्युतिर्न तस्यास्ति निजस्वरूपात् । यथा गुडं चूर्णितमग्नितप्तं त्यजेन्न माधुर्यरसं स्वकीयम् ॥ ६४७॥ सदेहमुक्तिश्च विदेहमुक्ति- रुक्ते उभे ह्यज्ञधियोऽनुवृत्या । देही भवेन्नैव हि कोऽपि मुक्तो भवेद्धि मुक्तिः सकलैकरूपा ॥ ६४८॥ प्रारब्धशक्तिर्भविता हि देहे नात्मस्वरूपेऽस्ति तु शक्तिरस्य । तस्मै स्वदेहो विदुषाऽर्पितो यत् कथं नु बाध्येत स तेन बुद्धः ॥ ६४९॥ प्रारब्धकर्मार्पित देहकोऽसौ बुद्धोऽस्ति देहे ममता विनैव । एवं स्फुटं शङ्करदेशिकेन दिष्टं मनीषाभिधपञ्चकेऽस्ति ॥ ६५०॥ सूक्ष्मं शरीरं विदुषोऽस्ति शिष्ट- मित्युच्यते चेदिह कारणाख्यम् । अज्ञानरूपं निधनं गतं यत् सूक्ष्मेण सङ्गो विदुषः कथं स्यात् ॥ ६५१॥ ब्रह्मास्त्यसङ्गं हि तथैव बुद्धो भवत्यसङ्गो हि भवे यथा खम् । वपुर्विकारा उत मानसाश्च बुद्धं कथञ्चिन्न हि संस्पृशन्ति ॥ ६५२॥ जागर्ति यो नैजपदे प्रबुद्धो याने सुषुप्तस्य समः स उक्तः । यानस्य तुल्यं गदितं शरीरं तुरङ्गवच्चापि दशेन्द्रियाणि ॥ ६५३॥ गतिं स्थितिं वाजिवियोजनं च यानस्य नो वेत्ति हि तत्र सुप्तः । एवं सुषुप्तश्च शरीरयाने न वेत्ति बुद्धो हि शरीरभावान् ॥ ६५४॥ बुद्धस्तु तिष्ठन् सहजे समाधौ कर्माणि कुर्वन्निव लक्ष्यतेऽज्ञैः । नानाऽप्यवस्था भजतीव भाति ता वीक्ष्य मुह्यन्त्यविवेकिनस्तु ॥ ६५५॥ सुप्तिः समाधिश्च शरीरचेष्टा इति त्रिधा भान्ति हि तस्य भावाः । एनांश्च भिन्ना इति मन्यतेऽज्ञो विलोक्य बुद्धस्य शरीरमात्रम् ॥ ६५६॥ सदैकधैवास्ति तु सम्प्रबुद्ध- स्तस्य स्थितिर्नित्यसमाधिरेव । न कर्मभिस्तस्य विरोधलेशो न कर्मणां तेन विरोधलेशः ॥ ६५७॥ द्वे निर्विकल्पे हि समाधिनिष्ठे स्यात् केवलैका सहजाभिद्याऽन्या । न केवलां प्राप्य भवेत् प्रबुद्धः स एव बुद्धः सहजस्थितो यः ॥ ६५८॥ यः केवलो नाम समाधिरुक्तः स योगिनः स्यान्मनसो लयेन । समाधिरुत्थानमिति प्रसिद्धे स्थिती विभिन्ने भवतोऽस्य लोके ॥ ६५९॥ मनः समाधौ बत योगिनोऽस्य सवासनं ह्येव भवेद्विलीनम् । स्थित्वा समाधौ सुचिरं च सोऽयं व्युत्थाप्यते वासनया भवाय ॥ ६६०॥ यदा समाधेरयमुत्थितः स्यात् पूर्वोज्झितां संसृतिमाददाति । सम्मोहनद्रव्यविनष्टबोधः कर्मासमाप्तं प्रतिबुध्य यद्वत् ॥ ६६१॥ संसारमेवं प्रतिपद्य योगी भूयः समाधिं प्रविशेत् प्रयत्नात् । बुद्धस्त्वयत्नः सहजस्थितत्वा- न्न तं विमुञ्चत्यपि नाददाति ॥ ६६२॥ न संसृतिं याति कदाऽपि बुद्धः समाधिरेव प्रकृतिर्हि तस्य । विना समाधिं स कदाऽपि नास्ती- त्यतः समाधिः सहजाभिधोऽयम् ॥ ६६३॥ अप्रच्युतोऽसौ निजसत्यभावात् स्थितः सदा स्वे सहजे समाधौ । जीवन् विमुक्तो व्यवहर्तुमीष्टे लोके यथा शङ्करदेशिकाद्याः ॥ ६६४॥ योगी यदा केवलभावमग्न- स्तदा न शक्नोति हि कर्म कर्तुम् । यदोत्थितोऽसौ भविता समाधेः करोति कर्माज्ञतया तदानीम् ॥ ६६५॥ तत्त्वोपदेशेऽपि मुमुक्षुपुंसां भवेत् समर्थो न स योगिमर्त्यः । तिष्ठान् सदैवाच्युत एव तुर्ये शास्ता समर्थोऽस्ति तु बुद्ध एव ॥ ६६६॥ नाङ्गीकृताऽसौ सहजा स्थितिश्चेद् गीतादिशास्त्राणि मृषेति सिद्ध्येत् । बुद्धोपदेशैर्भरितत्वहेतोः शास्त्रं प्रमाणं हि मुमुक्षुपुंसाम् ॥ ६६७॥ परम्पराऽसौ खलु बुद्धपुंसां मुमुक्षुलोकोद्धरणार्थमेव । रक्षत्यविच्छिन्नतया सदैव सुज्ञानशास्त्रस्य सुसम्प्रदायम् ॥ ६६८॥ अन्त्यं प्रमाणं हि निजानुभूति- र्न संशयानामुदयोऽस्ति यत्र । तावत् प्रमाणानि हि बुद्धवाचो लभ्येत यावन्न तथानुभूतिः ॥ ६६९॥ गत्वाऽम्बुधिं तन्मयतां गताया नद्याः समो बुद्ध उदीरितोऽस्ति । कूपे निमग्नस्य घटस्य तुल्यो रज्ज्वा निबद्धस्य तु केवलस्थः ॥ ६७०॥ घटः सरज्जुर्हि विकृष्यमाणो रज्ज्वा बहिर्याति पुनश्च कूपात् । एवं मनः केवलभावमग्नं विकृष्यते वासनया भवाय ॥ ६७१॥ नैष्कर्म्यमेवं सहजस्थितस्य स्फुटीकृतं नो भगवत्तमेन । विद्वानकर्ताऽपि भवन् स्वभावात् कर्ता महांश्चापि भवत्यसङ्गः ॥ ६७२॥ सत्सङ्गतिर्नाम निगद्यते या बुद्धस्य पुंसः खलु सङ्गतिः सा । अर्थो भवेद् ब्रह्म हि सत्पदस्य तदात्मकोऽसौ भविता हि बुद्धः ॥ ६७३॥ ब्रह्मैव सर्वोऽपि हि को विशेषः प्रबुद्धपुंसीति न शङ्कनीयम् । अहन्तयाऽन्यत्र हृतप्रभं सत् पूर्णप्रभं तत्तु विभाति बुद्धे ॥ ६७४॥ सङ्गं प्रबुद्धस्य भजन् मुमुक्षुः सङ्गात् समस्तादपि मुक्तिमेति । निस्सङ्गभावेन निरस्तमोहो यात्येकतां निश्चलचित्स्वरूपे ॥ ६७५॥ सत्सङ्गसञ्जातनिजस्वरूपा- न्वेषेण लभ्यं परमं पदं यत् । शास्त्रार्थबोधाच्छ्रवणादिभिर्वा साध्यं न तन्नेतरसाधनैर्वा ॥ ६७६॥ सत्सङ्गतिं चेद् भजते मुमुक्षु- श्चरेत् किमर्थं नियमान् यथाऽन्ये । शीतो वहेद् दक्षिणमारुतश्चेत् किमर्थमिच्छेद् व्यजनं तदानीम् ॥ ६७७॥ तापं शशी कल्पतरुश्च दैन्यं हरेच्च गङ्गा बत पापमात्रम् । वीक्षा सतां नाशयति त्रयं च न तत्समं किञ्चन विद्यतेऽन्यत् ॥ ६७८॥ समानि सद्भिर्न जलात्मकानि तीर्थानि देवाश्च मृदादिमात्राः । पुनन्ति तानि ह्यतिदीर्घकालात् सन्दर्शनादेव पुनन्ति बुद्धाः ॥ ६७९॥ गङ्गाम्भसि स्नानफलं विनाशः पापस्य पुंसो न तु पापकर्तुः । सङ्गात् सतां नश्यति पापकर्ता न तत्समं पावनमस्ति लोके ॥ ६८०॥ मृत्युञ्जयोऽसौ त्रिपुरान्तकोऽसौ स्मरान्तकोऽसौ नरकान्तकश्च । स हीश्वराणामपि चात्मभूत- स्तमेव सर्वेऽपि हि पूजयन्ति ॥ ६८१॥ नीतं यदन्तं वपुषां त्रयं च ज्ञानेन तेन त्रिपुरान्तकोऽसौ । नीतोऽहमाख्यो निधनं च तेने- त्यतः स बुद्धो नरकान्तकश्च ॥ ६८२॥ अहं स्वयं बुद्ध इति ब्रवीति गीतासु कृष्णो भगवान् स्वयं यत् । न कोऽपि तस्यास्ति समोऽधिको वा न मीयते तन्महिमा कथञ्चित् ॥ ६८३॥ यतः प्रबुद्धः पर एव साक्षात् तस्योपदेशाः परमं प्रमाणम् । ततः परं तस्य वचोभिरेव प्रामाण्यमस्ति श्रुतिशीर्षवाचाम् ॥ ६८४॥ परात्मशक्तेः करुणाभिधाया रूपं द्वितीयं हि गुरुः प्रबुद्धः । अतः सुभक्त्या स्वगुरुं प्रबुद्धं भजन् मुमुक्षुर्भविता कृतार्थः ॥ ६८५॥ शक्तिः शुभा काचन सन्निधाने बुद्धस्य पुंसोऽस्ति सुदूरतश्च । त्यजेत नो कोऽपि तया गृहीतः परं तु नीयेत विमुक्तिमेव ॥ ६८६॥ व्याघ्रेण यद्वद्धरिणो गृहीतो तदन्नतामेति तथैव साधुः । ध्रुवं प्रबुद्धेन दृशा गृहीत- स्तद्भावमेतीति गुरुर्जगाद ॥ ६८७॥ बहिः स्थितोऽन्तर्मुखतां विधाया- प्यन्तः स्थितोऽन्तश्च विकृष्य चित्तम् । परे पदे स्वे विदधाति निष्ठां साधोः प्रबुद्धो हि गुरुः स्वशक्त्या ॥ ६८८॥ अगोचरोऽसौ वचसो धियोऽपि निष्ठा हि बुद्धस्य पदे परस्मिन् । बोधाय साधोस्तु यथाकथञ्चित् किञ्चित् प्रबुद्धैरिदमुक्तमस्ति ॥ ६८९॥ व्याख्यात एवं सहजात्मभावः ससाधनोऽसौ गुरुणोपदिष्टः । अथोपदेशेष्विह सार एष निरुच्यते साध्ववधारणाय ॥ ६९०॥ विश्वं स्वदृश्यं च तदीक्षकं स्वं जानाति लोके सकलोऽपि जन्तुः । स्वतश्च सत्यं द्वयमप्यवैति मोहस्त्वयं संसृतिहेतुरस्य ॥ ६९१॥ सत्यं स्वतश्चेदुभयं तदेतत् भायाद्विच्छिन्नतया सदैव । कदाऽपि भातं च कदाप्यभातं भवेत् तु यत् तत् कथमस्तु सत्यम् ॥ ६९२॥ प्रकाशते मानसचेष्टयैव स्वप्नेऽपि जाग्रत्युभयं तदेतत् । भाति द्वयं नैव सुषुप्तिभावे ततो मनोमात्रमिदं द्वयं च ॥ ६९३॥ यस्मिन् मनो याति लयं च यस्मा- दुदेति भूयोऽपि तदेव सत्यम् । लयोदयाभ्यां रहितं तदेतत् सत्यं स्वतो मुक्तिपदं मुमुक्षोः ॥ ६९४॥ सत्ताप्रदं तज्जगतोऽखिलस्य ब्रह्माभिधानं परिपूर्णमेकम् । चैतन्यदीप्तिं मनसे तदेव ददाति चैतन्यविवर्जिताय ॥ ६९५॥ अन्तर्हृदि स्वात्मतया तदेव साक्षीव निश्चिन्तनमस्त्यसङ्गम् । आच्छाद्यते तत्तु बहिर्मुखत्वे मृषाप्रपञ्चेन मनोमयेन ॥ ६९६॥ अतो न तं कश्चन वेत्ति लोके पश्यन्निदं सत्यवदेव मोहात् । शरीरमेवात्मतयाऽपि मत्वा भ्राम्यत्यसङ्ख्येषु भवेषु दुःखी ॥ ६९७॥ तेनात्मरूपेण परेण विश्व- माच्छादनीयं तु मनोविनाशात् । भायात् तदैव प्रतिबन्धहीनं ह्यात्मस्वरूपं विमलं यथावत् ॥ ६९८॥ विवेकवैराग्ययुतो विमुक्त्यै गुरूक्तमार्गेण यदा यतेत । मूले निजे ब्रह्मणि जन्म लब्ध्वा विमुच्यतेऽसौ भवबन्धपाशैः ॥ ६९९॥ कृत्वा मनोऽन्तर्मुखमस्तचिन्तं निमज्य चान्तर्निजमार्गणेन । मनोविनाशेन विनष्टमोहो भवेद्विमुक्तः स नरः प्रबुद्धः ॥ ७००॥ परात्परं यत् सकलात्मभूत- मस्मद्गुरुः श्रीरमणो बभूव । यावद् भविष्यत्यहमो विनाशः सहस्रशः सन्तु नमांसि तस्मै ॥ ७०१॥ ॥ ॐ नमो भगवते श्रीरमणाय ॥ This work is published by Sri Ramanasramam www.sriramanamaharshi.org It has been approved to be posted on Sanskrit.World by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.