श्रीरमणाष्टोत्तरशतननामावली
ॐ महासेनमहोंशेनजाताय नमः । ॐ श्रीरमणाय नमः । ॐ गुरवे नमः । ॐ अखण्डसंविदाकाराय नमः । ॐ महौजसे नमः । ॐ कारणोद्भवाय नमः । ॐ जगद्धितावताराय नमः । ॐ श्री भूमिनाथस्थलोत्थिताय नमः । ॐ पराशरकुलोत्तंसाय नमः । ॐ सुन्दरार्यतपःफलाय नमः । १० ॐ कमनीयसुचारित्राय नमः । ॐ सहायाम्बासहायवते नमः । ॐ शोणाचलमहोलीनमानसाय नमः । ॐ स्वर्णहस्तकाय नमः । ॐ श्रीमद्द्वादशान्तमहास्थले लब्धविद्योदयाय नमः । ॐ महाशक्तिनिपातेनप्रबुद्धाय नमः । ॐ परमार्थविदे नमः । ॐ तीव्राय नमः । ॐ पितृपदान्वेषिणे नमः । ॐ इन्दुमौलिनापितृमते नमः । २० ॐ पितुरादेशतः शोणशैलम्प्राप्ताय नमः । ॐ तपोमयाय नमः । ॐ उदासीनाय नमः । ॐ महायोगिने नमः । ॐ महोन्त्साहाय नमः । ॐ कुशाग्रधिये नमः । ॐ शान्तसङ्कल्पसंरम्भाय नमः । ॐ सुसन्दृशे नमः । ॐ सवित्रे नमः । ॐ स्थिराय नमः । ३० ॐ तपःक्षपितसर्वाङ्गाय नमः । ॐ फुल्लाम्बुजविलोचनाय नमः । ॐ चन्द्रिकासितहासश्रीमण्डितानन मण्डलाय नमः । ॐ चूतवाट्यांसमासीनाय नमः । ॐ चूर्णिताखिलविभ्रमाय नमः । ॐ वेदवेदान्ततत्त्वज्ञाय नमः । ॐ चिन्मुद्रिणे नमः । ॐ त्रिगुणातिगाय नमः । ॐ विरूपाक्षगुहावासाय नमः । ॐ विराजदचलाकृतये नमः । ४० ॐ उद्दीप्तनयनाय नमः । ॐ पूर्णाय नमः । ॐ रचिताचलताण्डवाय नमः । ॐ गम्भीराय नमः । ॐ परमाचार्याय नमः । ॐ सुप्रसन्नाय नमः । ॐ अभयप्रदाय नमः । ॐ दक्षिणास्यनिभाय नमः । ॐ धीराय नमः । ॐ दक्षिणाभिमुखाय नमः । ५० ॐ स्वराजे नमः । ॐ महर्षये नमः । ॐ भगवते नमः । ॐ ईड्याय नमः । ॐ भूमविद्याविशारदाय नमः । ॐ विमलाय नमः । ॐ दीर्घदर्शिने नमः । ॐ आप्ताय नमः । ॐ ऋजुमार्गप्रदर्शकाय नमः । ॐ समदृशे नमः । ६० ॐ सत्यदृशे नमः । ॐ सत्याय नमः । ॐ प्रशान्ताय नमः । ॐ अमितविक्रमाय नमः । ॐ सुकुमाराय नमः । ॐ सदानन्दाय नमः । ॐ मृदुभाषिणे नमः । ॐ दयार्णवाय नमः । ॐ श्रीशोणाचलहृद्भूतस्कन्दाश्रम निकेतनाय नमः । ॐ सद्दर्शनोपदेष्ट्रे नमः । ७० ॐ सद्भक्तवृन्दपरीवृताय नमः । ॐ गणेशमुनिभृङ्गेनसेविताङ्घ्रिसरोरुहाय नमः । ॐ गीतोपदेशसारादिग्रन्थसंछिन्नसंशयाय नमः । ॐ वर्णाश्रममतातीताय नमः । ॐ रसज्ञाय नमः । ॐ सौम्याय नमः । ॐ आत्मवते नमः । ॐ सर्वावनिमतस्थानमाराध्याय नमः । ॐ सर्वसद्गुणिने नमः । ॐ आत्मारामाय नमः । ८० ॐ महाभागाय नमः । ॐ मातृमुक्तिविधायकाय नमः । ॐ विनताय नमः । ॐ विनुताय नमः । ॐ विप्राय नमः । ॐ मुनीन्द्राय नमः । ॐ पावकोज्ज्वलाय नमः । ॐ दर्शनादघसंहारिणे नमः । ॐ मौनेन स्वात्मबोधकाय नमः । ॐ हृच्छान्तिकरसान्निध्याय नमः । ९० ॐ स्मरणाद्बन्धमोचकाय नमः । ॐ अन्तस्तिमिरचण्डांशवे नमः । ॐ संसारार्णवतारकाय नमः । ॐ शोणाद्रीशस्तुतिद्रष्ट्रे नमः । ॐ हार्दविद्याप्रकाशकाय नमः । ॐ अविच्युतनिजप्रज्ञाय नमः । ॐ नैसर्गिकमहातपसे नमः । ॐ कमण्डलुधराय नमः । ॐ शुभ्रकौपीनवसनाय नमः । ॐ गुहाय नमः । १०० ॐ दण्डपाणये नमः । ॐ कृपापूर्णाय नमः । ॐ भवरोगभिषग्वराय नमः । ॐ स्कन्दाय नमः । ॐ देवतमाय नमः । ॐ अमर्त्याय नमः । ॐ सेनान्ये नमः । ॐ पुरुषोत्तमाय नमः । १०८ इति श्रीविश्वनाथस्वामीरचितं श्रीरमणाष्टोत्तरशतनामावली समाप्ता ।The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on Sanskrit.World by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.