अक्षर आकार:

श्रीरघुनन्दनतीर्थस्तुतिः

shrIraghunandanatIrthastutiH

श्रीरघुनन्दनतीर्थस्तुतिः

ॐ । विश्वानि देव सवितर्दुरितानि परा सुव । यद्भद्रं तन्न आ सुव ॥ श्रीशः सर्वोत्तमः कृष्णो दण्डदामधरो हरिः । श्रीमध्वहृदयावासो रूप्यपीठगतोवतात् ॥ १॥ जयन्ति जानकीजानेः पादम्भोजरजकणाः । लेभे शिलापि यैः स्पृष्टावाचं वाक्पतिदुर्लभाम् ॥ २॥ श्रीभारतप्रवरयुद्धरथोद्धतश्रीः पार्थैककेतनकरालविशालमूर्तिः । उच्छैर्घनाघनघटाविकटाट्टहासः श्रीकृष्णभक्षभरणो हनुमान् पुनातु ॥ ३॥ श्रीमध्वागमसिद्धभव्यविभवं सौभाग्यभाग्योदयं ग्रन्थग्रन्थिविभेदने पटुतरं मायीभपञ्चाननम् । वैराग्याङ्कुरवर्धने जलधरं श्रीमूलरामार्चकं वन्दे श्रीरघुनन्दनं यतिवृषं मध्वाध्वनीनावनम् ॥ ४॥ आ कुमारं यशो यस्य वैष्णवस्य महात्मनः । सत्यधर्मरतः सोसौ पातु श्रीरघुनन्दनः ॥ ५॥ रोगपङ्कार्णवे मग्नान् यः समुद्धरते नरान् । सोपूर्ववैद्यः पुण्यात्मा पातु श्रीरघुनन्दनः ॥ ६॥ त्रिकोटिरूपः प्राणो यो वामनस्यार्चकोभवत् । तन्मुख्यवायुसेवोत्कः पातु श्रीरघुनन्दनः ॥ ७॥ प्राणाग्नीसूक्तवेद्यो यः पवमानो गुणोज्ज्वलः । तन्मध्वदेवसेवोत्कः पातु श्रीरघुनन्दनः ॥ ८॥ श्रीमध्वदेवसिद्दान्तवियद्विष्णुपदीधरम् । रघुनन्दनतीर्थार्यं प्रणमामि मुहुर्मुहुः ॥ ९॥ ``परैरपहृता मूलरामार्चा गुर्वनुग्रहात् । येनानीता नमस्तस्मै रघुनन्दनभिक्षवे'' ॥ १०॥ यो ब्रह्मरुद्ररविन्द्रश्चन्द्रादिनामधेश्वरः । तन्मूलरामसेवोत्कः पातु श्रीरघुनन्दनः ॥ ११॥ प्राणेशं हनुमद्भीममध्वरूपिणमन्वहम् । ध्यायं ध्यायं पुमान् प्राज्ञः पातु श्रीरघुनन्दनः ॥ १२॥ श्रीमद्भागवतो योसौ जितामित्रकरोद्भवः । स एव पातु मां नित्यं रघुनन्दनमस्करी ॥ १३॥ श्रीमत्सुरेन्द्रतीर्थाय योदात् तुर्याश्रमं शुभम् । स एव पातु मां नित्यं रघुनन्दनमस्करी ॥ १४॥ पदवाक्यप्रमाणज्ञं वेदवेदाङ्गभास्करम् । यतीन्द्रं पुण्यदं धन्यं रघुनन्दनमाश्रये ॥ १५॥ पुरतो राजते यस्य श्रीहनूमान् चतुर्भुजः । स एव प्राणतत्वज्ञः पातु श्रीरघुनन्दनः ॥ १६॥ विष्णोःसर्वोत्तमत्वं च सर्वदा प्रतिपादयन् । यो राजते स एवासौ पातु श्रीरघुनन्दनः ॥ १७॥ ``शङ्खचक्रगदाग्रन्थधारी यः प्राणनायकः'' । पुरतो राजते यस्य सोव्यान्मां रघुनन्दनः ॥ १८॥ यस्यास्थीनि विशुद्धानि शङ्खचक्राङ्कितानि च । तं वन्दे वैष्णवं धन्यं रघुनन्दनयोगिनम् ॥ १९॥ दिव्यं वृन्दावनं यस्य पम्पाक्षेत्रे विराजते । स एव पातु मां नित्यं रघुनन्दनमस्करी ॥ २०॥ सतां कार्याणि सिद्ध्यन्ति यद्वृन्दावनसेवया । तं सेवे रुद्रदेवांशं रघुनन्दनयोगिनम् ॥ २१॥ रघुनन्दनस्तुतिं भक्त्या ये पठन्ति दिने दिने । तेषु श्रीजानकीजानिः प्रसन्नो भवति ध्रुवम् ॥ २२॥ इति प्रबन्धपण्डित आनन्दतीर्थशर्मा आचार्यकृता श्रीरघुनन्दनतीर्थस्तुतिः सम्पूर्णा । श्रीकृष्णार्पणमस्तु ।